Templesinindiainfo

Best Spiritual Website

Shri Hanumat Mangalashtakam or Prasananjaneya Mangalashtakam Lyrics in Hindi

Hanuman Mangalashtakam / Prasannanjaneya Mangalashtakam Lyrics in Hindi:

हनुमत्मङ्गलाष्टकम् प्रसन्नाञ्जनेय मङ्गलाष्टकम् च
ॐ गं गणपतये नमः ।
ॐ श्रीवागीश्वर्यै नमः ।
ॐ श्रीशोमेश्वराभ्यां नमः ।
ॐ श्री सीतारामाभ्यां नमः ।
ओं श्री प्रसन्नाञ्जनेयाय नमः ॥

श्रीमद्धर्मपुरी प्रसन्नाञ्जनेय मङ्गलाशासनम् ॥

भास्वद्वानररूपाय वायुपुत्राय धीमते ।
अञ्जनीगर्भजाताय आञ्जनेयाय मङ्गलम् ॥ १ ॥

सूर्यशिष्याय शूराय सूर्यकोटिप्रकाशिने ।
सुरेन्द्रादिभिर्वन्द्याय आञ्जनेयाय मङ्गलम् ॥ २ ॥

रामसुग्रीवसन्धात्रे रामायार्पितचेतसे ।
रामनामैक निष्ठाय राममित्राय मङ्गलम् ॥ ३ ॥

मनोजवेन गन्त्रे च समुद्रोल्लङ्घनाय च ।
मैनाकार्चितपादाय रामदूताय मङ्गलम् ॥ ४ ॥

निर्जित सुरसायास्मै संहृतसिंहिकासवे ।
लङ्किणीगर्वभङ्गाय रामदूताय मङ्गलम् ॥ ५ ॥

हृतलङ्केशगर्वाय लङ्कादहनकारिणे ।
सीताशोकविनाशाय रामदूताय मङ्गलम् ॥ ६ ॥

भीभत्सरणरङ्गाय दुष्टदैत्य विनाशिने ।
रामलक्ष्मणवाहाय रामभृत्याय मङ्गलम् ॥ ७ ॥

धृतसञ्जीवहस्ताय कृतलक्ष्मणजीविने ।
भृतलङ्कासुरार्ताय रामभटाय मङ्गलम् ॥ ८ ॥

जानकीरामसन्धात्रे जानकीह्लादकारिणे ।
हृत्प्रतिष्ठितरामाय रामदासाय मङ्गलम् ॥ ९ ॥

रम्ये धर्मपुरीक्षेत्रे नृसिंहस्य च मन्दिरे ।
विलसद् रामनिष्ठाय वायुपुत्राय मङ्गलम् ॥ १० ॥

गायन्तं राम रामेति भक्तं तं रक्षकाय च ।
श्री प्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ ११ ॥

विश्वलोकसुरक्षाय विश्वनाथनुताय च ।
श्रीप्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ १२ ॥

इति श्रीकोरिडे विश्वनाथशर्मणाविरचितं श्रीमद्धर्मपुरी
प्रसन्नाञ्जनेय मङ्गलाष्टकं सम्पूर्णम् ॥

Shri Hanumat Mangalashtakam or Prasananjaneya Mangalashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top