Templesinindiainfo

Best Spiritual Website

Shri Krrishna Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Krrishna Ashtottarashatanama Stotram Lyrics in Hindi:

॥ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥
अगस्त्य उवाच
स्तोत्रं तत्ते प्रवक्ष्यामि यस्यार्थं त्वमिहागतः ।
वाराहाद्यवताराणां चरितं पापनाशनम् ॥ २.३६.११ ॥

सुखदं मोक्षदं चैव ज्ञानविज्ञानकारणम् ।
श्रुत्वा सर्वं धरा वत्स प्रहृष्टा तं धराधरम् ॥ २.३६.१२ ॥

उवाच प्रणता भूयो ज्ञातुं कृष्णविचेष्टितम् ।
धरण्युवाच
अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् ॥ २.३६.१३ ॥

तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः ।
जयोपाधिनियुक्तानि सन्ति नामान्यनेकशः ॥ २.३६.१४ ॥

तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् ।
तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ॥ २.३६.१५ ॥

नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ।
शेष उवाच
वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् ॥ २.३६.१६ ॥

सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् ।
महापातककोटिघ्नं सर्वतीर्थफलप्रदम् ॥ २.३६.१७ ॥

समस्तजपयज्ञानां फलदं पापनाशनम् ।
श‍ृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ॥ २.३६.१८ ॥

सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ २.३६.१९ ॥

तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् ।
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥ २.३६.२० ॥

छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः ।

श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥ २.३६.२१ ॥

वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ।
श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः ॥ २.३६.२२ ॥

चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः ।
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥ २.३६.२३ ॥

यमुनावेगसंहारी बलभद्रप्रियानुजः ।
पूतनाजीवितहरः शकटासुरभञ्जनः ॥ २.३६.२४ ॥

नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः ।
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥ २.३६.२५ ॥

नवनीतलवाहारी मुचुकुन्दप्रसादकृत् ।
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥ २.३६.२६ ॥

शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः ।
वत्सपालनसञ्चारी धेनुकासुरमर्द्दनः ॥ २.३६.२७ ॥

तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः ।
उत्तालतालभेत्ता च तमालश्यामला कृतिः ॥ २.३६.२८ ॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ।
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २.३६.२९ ॥

वनमाली पीतवासाः पारिजातापहरकः ।
गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥ २.३६.३० ॥

अजो निरञ्जनः कामजनकः कञ्जलोचनः ।
मधुहा मथुरानाथो द्वारकानाथको बली ॥ २.३६.३१ ॥

वृन्दावनान्तसञ्चारी तुलसीदामभूषणः ।
स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ॥ २.३६.३२ ॥

कुब्जाकृष्टाम्बरधरो मायी परमपूरुषः ।
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ २.३६.३३ ॥

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।
अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ २.३६.३४ ॥

शिशुपालशिरस्छेत्ता दुर्योधनकुलान्तकृत् ।
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ २.३६.३५ ॥

सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ।
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ २.३६.३६ ॥

जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः ।
वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ २.३६.३७ ॥

युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ २.३६.३८ ॥

कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः ।
दामोदरो यज्ञभोक्ता दानवेद्रविनाशनः ॥ २.३६.३९ ॥

नारायणः परं ब्रह्म पन्नगाशनवाहनः ।
जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ २.३६.४० ॥

पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ।
सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः ॥ २.३६.४१ ॥

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।
कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २.३६.४२ ॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् ।
कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥ २.३६.४३ ॥

अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् ।
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २.३६.४४ ॥

पठतां श‍ृण्वतां चैव कोटिकोटिगुणं भवेत् ।
पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ २.३६.४५ ॥

धनावहं दरिद्राणां जयेच्छूनां जयावहम् ।
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥ २.३६.४६ ॥

बालरोगग्रहादीनां शमनं शान्तिकारकम् ।
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ २.३६.४७ ॥

असिद्धसाधकं भद्रे जपादिकरमात्मनाम् ।
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥ २.३६.४८ ॥

नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ।
इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् ॥ २.३६.४९ ॥

सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् ।
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥ २.३६.५० ॥

निषेव्य भोगानन्तेऽपि कृष्णासायुज्यमाप्नुयात् ।
verses 21 through 50 also appear in NaradapancharAtra

अगस्त्य उवाच
एतावदुक्तो भागवाननन्तो मूर्त्तिस्तु संकर्षणसंज्ञिता विभो ॥ २.३६.५१ ॥

धराधरोऽलं जगतां धरायै निर्दिश्य भूयो विरराम मानदः ।
ततस्तु सर्वे सनकादयो ये समास्थितास्तत्परितः कथादृताः ।
आनन्दपूर्णाम्बुनिधौ निमग्नाः सभाजयामासुरहीश्वरं तम् ॥ २.३६.५२ ॥

ऋषय ऊचुः
नमो नमस्तेऽखिलविश्वाभावन प्रपन्नभक्तार्त्तिहराव्ययात्मन् ।
धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते ॥ २.३६.५३ ॥

कृष्णामृतं नः परिपायितं विभो विधूतपापा भवता कृता वयम् ।
भवादृशा दीनदयालवो विभो समुद्धरन्त्येव निजान्हि संनतान् ॥ २.३६.५४ ॥

एवं नमस्कृत्य फणीशपादयोर्मनो विधायाखिलकामपूरयोः ।
प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः ॥ २.३६.५५ ॥

इति तेऽभिहितं राम स्तोत्रं प्रेमामृताभिधम् ।
कृष्णस्य राधाकान्तस्य सिद्धिदम् ॥ २.३६.५६ ॥ incomplete metrically
इदं राम महाभाग स्तोत्रं परमदुर्लभम् ।
श्रुतं साक्षाद्भगवतः शेषात्कथयतः कथाः ॥ २.३६.५७ ॥

यावन्ति मन्त्रजालानि स्तोत्राणि कवचानि च ॥ २.३६.५८ ॥

त्रैलोक्ये तानि सर्वाणि सिद्ध्यन्त्येवास्य शीलनात् ।
वसिष्ठ उवाच
एवमुक्त्वा महाराज कृष्णप्रेमामृतं स्तवम् ।
यावद्व्यरंसीत्स मुनिस्तावत्स्वर्यानमागतम् ॥ २.३६.५९ ॥

चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः ।
अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा ।
अगस्त्यचरणौ नत्वा समारुरुहतुर्मुदा ॥ २.३६.६० ॥

दिव्यदेहधरौ भूत्वा शङ्खचक्रादिचिह्नितौ ।
गतौ च वैष्णवं लोकं सर्वदेवनमस्कृतम् ।
पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा ॥ २.३६.६१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
भार्गवचरिते षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥

Also Read:

Shri Krrishna Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Krrishna Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top