Templesinindiainfo

Best Spiritual Website

Shri Mahakala Kakaradi Ashtottarashatanama Stotram Lyrics in Hindi | Sri Durga Devi Slokam

Sri Mahakala Kakaradi Ashtottara Shatanama Stotram Lyrics in Hindi:

श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रम्
कैलासशिखरे रम्ये सुखासीनं जगद्गुरुम् ।
प्रणम्य परया भक्त्या पार्वती परिपृच्छति ॥ १ ॥

श्रीपार्वत्युवाच –
त्वत्तः श्रुतं पुरा देव भैरवस्य महात्मनः ।
नाम्नामष्टोत्तरशतं ककारादिमभीष्टदम् ॥ २ ॥

गुह्याद्गुह्यतरं गुह्यं सर्वाभीष्टार्थसाधकम् ।
तन्मे वदस्व देवेश! यद्यहं तव वल्लभा ॥ ३ ॥

श्रीशिवोवाच –
लक्षवारसहस्राणि वारिताऽसि पुनः पुनः ।
स्त्रीस्वभावान्महादेवि! पुनस्तत्त्वं तु पृच्छसि ॥ ४ ॥

रहस्यातिरहस्यं च गोप्याद्गोप्यं महत्तरम् ।
तत्ते वक्ष्यामि देवेशि! स्नेहात्तव शुचिस्मिते ॥ ५ ॥

कूर्चयुग्मं महाकाल प्रसीदेति पदद्वयम् ।
लज्जायुग्मं वह्निजाया राजराजेश्वरो महान् ॥ ६ ॥

मन्त्रः –
“ह्रूं ह्रूं महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ।”
मन्त्रग्रहणमात्रेण भवेत्सत्यं महाकविः ।
गद्यपद्यमयी वाणी गङ्गा निर्झरणी यथा ॥

विनियोगः –
ॐ अस्य श्रीराजराजेश्वर श्रीमहाकाल
ककाराद्यष्टोत्तरशतनाममालामन्त्रस्य श्रीदक्षिणाकालिका ऋषिः,
विराट् छन्दः, श्रीमहाकालः देवता, ह्रूं बीजं, ह्रीं शक्तिः,
स्वाहा कीलकं, सर्वार्थसाधने पाठे विनियोगः ।

ऋष्यादिन्यासः –
श्रीदक्षिणाकालिका ऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे ।
श्रीमहाकाल देवतायै नमः हृदि । ह्रूं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः । स्वाहा कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।

करन्यासः एवं हृदयादिन्यासः –
ॐ ह्रां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः, शिरसे स्वाहा ।
ॐ ह्रूं मध्यमाभ्यां नमः, शिखायै वषट् ।
ॐ ह्रैं अनामिकाभ्यां नमः, कवचाय हुम् ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् ।

ध्यानम् –
कोटि कालानलाभासं चतुर्भुजं त्रिलोचनम् ।
श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ॥

पञ्चप्रेतस्थितं देवं त्रिशूलं डमरुं तथा ।
खड्गं च खर्परं चैव वामदक्षिणयोगतः ॥

विश्चतं सुन्दरं देहं श्मशानभस्मभूषितम् ।
नानाशवैः क्रीडमानं कालिकाहृदयस्थितम् ॥

लालयन्तं रतासक्तं घोरचुम्बनतत्परम् ।
गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ॥

जटापटल शोभाढ्यं सर्वशून्यालयस्थितम् ।
सर्वशून्यमुण्डभूषं प्रसन्नवदनं शिवम् ॥

अथ स्तोत्रम् ।
ॐ कूं कूं कूं कूं शब्दरतः क्रूं क्रूं क्रूं क्रूं परायणः ।
कविकण्ठस्थितः कै ह्रीं ह्रूं कं कं कवि पूर्णदः ॥ १ ॥

कपालकज्जलसमः कज्जलप्रियतोषणः ।
कपालमालाऽऽभरणः कपालकरभूषणः ॥ २ ॥

कपालपात्रसन्तुष्टः कपालार्घ्यपरायणः ।
कदम्बपुष्पसम्पूज्यः कदम्बपुष्पहोमदः ॥ ३ ॥

कुलप्रियः कुलधरः कुलाधारः कुलेश्वरः ।
कौलव्रतधरः कर्म कामकेलिप्रियः क्रतु ॥ ४ ॥

कलह ह्रींमन्त्रवर्णः कलह ह्रींस्वरूपिणः ।
कङ्कालभैरवो देवः कङ्कालभैरवेश्वरः ॥ ५ ॥

कादम्बरीपानरतः तथा कादम्बरीकलः ।
करालभैरवानन्दः करालभैरवेश्वरः ॥ ६ ॥

करालः कलनाधारः कपर्दीशवरप्रदः ।
करवीरप्रियप्राणः करवीरप्रपूजनः ॥ ७ ॥

कलाधारः कालकण्ठः कूटस्थः कोटराश्रयः ।
करुणः करुणावासः कौतुकीकालिकापतिः ॥ ८ ॥

कठिनः कोमलः कर्णः कृत्तिवासकलेवरः ।
कलानिधिः कीर्तिनाथः कामेन हृदयङ्गमः ॥ ९ ॥

कृष्णः काशीपतिः कौलः कुलचूडामणिः कुलः ।
कालाञ्जनसमाकारः कालाञ्जननिवासनः ॥ १० ॥

कौपीनधारी कैवर्तः कृतवीर्यः कपिध्वजः ।
कामरूपः कामगतिः कामयोगपरायणः ॥ ११ ॥

कामसम्मर्दनरतः कामगृहनिवासनः ।
कालिकारमणः कालिनायकः कालिकाप्रियः ॥ १२ ॥

कालीशः कालिकाकान्तः कल्पद्रुमलतामतः ।
कुलटालापमध्यस्थः कुलटासङ्गतोषितः ॥ १३ ॥

कुलटाचुम्बनोद्युक्तः कुलटाकुचमर्दनः ।
केरलाचारनिपुणः केरलेन्द्रगृहस्थितः ॥ १४ ॥

कस्तूरीतिलकानन्दः कस्तूरीतिलकप्रियः ।
कस्तूरीहोमसन्तुष्टः कस्तूरीतर्पणोद्यतः ॥ १५ ॥

कस्तूरीमार्जनोद्युक्तः कस्तूरीकुण्डमज्जनः ।
कामिनीपुष्पनिलयः कामिनीपुष्पभूषणः ॥ १६ ॥

कामिनीकुण्डसंलग्नः कामिनीकुण्डमध्यगः ।
कामिनीमानसाराध्यः कामिनीमानतोषितः ॥ १७ ॥

काममञ्जीररणितः कामदेवप्रियातुरः ।
कर्पूरामोदरुचिरः कर्पूरामोदधारणः ॥ १८ ॥

कर्पूरमालाऽऽभरणः कूर्परार्णवमध्यगः ।
क्रकसः क्रकसाराध्यः कलापपुष्परूपकः ॥ १९ ॥

कुशलः कुशलाकर्णी कुक्कुरासङ्गतोषितः ।
कुक्कुरालयमध्यस्थः काश्मीरकरवीरभृत् ॥ २० ॥

कूटस्थः क्रूरदृष्टिश्च केशवासक्तमानसः ।
कुम्भीनसविभूषाढ्यः कुम्भीनसवधोद्यतः ॥ २१ ॥

फलश्रुतिः –
नाम्नामष्टोत्तरशतं स्तुत्वा महाकालदेवम् ।
ककारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥ १ ॥

य इदं पठते प्राप्तः त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥ २ ॥

लभते ह्यचलां लक्ष्मीं देवानामपि दुर्लभाम् ।
पूजाकाले जपान्ते च पठनीयं विशेषतः ॥ ३ ॥

यः पठेत्साधकाधीशः कालीरूपो हि वर्षतः ।
पठेद्वा पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥ ४ ॥

वाचकं तोषयेद्वापि स भवेद् भैरवी तनुः ।
पश्चिमाभिमुखं लिङ्गं वृषशून्यं शिवालयम् ॥ ५ ॥

तत्र स्थित्वा पठेन्नाम्नां सर्वकामाप्तये शिवे ।
भौमवारे निशीथे च अष्टम्यां वा निशामुखे ॥ ६ ॥

माषभक्तबलिं छागं कृसरान्नं च पायसम् ।
मद्यं मीनं शोणितं च दुग्धं मुद्रागुडार्द्रकम् ॥ ७ ॥

बलिं दत्वा पठेत्तत्र कुबेरादधिको भवेत् ।
पुरश्चरणमेतस्य सहस्रावृत्तिरुच्यते ॥ ८ ॥

महाकालसमो भूत्वा यः पठेन्निशि निर्भयः ।
सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ॥ ९ ॥

मुक्तकेशो दिशावासः ताम्बूलपूरिताननः ।
कुजवारे मध्यरात्रौ होमं कृत्वा श्मशानके ॥ १० ॥

पृथ्वीशाकर्षणं कृत्वा मात्र कार्या विचारणा ।
ब्रह्माण्डगोले देवेशि! या काचिज्जगतीतले ॥ ११ ॥

समस्ता सिद्धयो देवि! वाचकस्य करे स्थिता ।
भस्माभिमन्त्रितं कृत्वाग्रहस्ते च विलेपयेत् ॥ १२ ॥

भस्म संलेपनाद्देवि! सर्वग्रहविनाशनम् ।
वन्ध्या पुत्रप्रदं देवि! नात्र कार्या विचारणा ॥ १३ ॥

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
स्वयोनिरिव गोप्तव्यं न देयं यस्य कस्यचित् ॥ १४ ॥

इति श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Shri Mahakala Kakaradi Ashtottarashatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Mahakala Kakaradi Ashtottarashatanama Stotram Lyrics in Hindi | Sri Durga Devi Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top