Templesinindiainfo

Best Spiritual Website

Shri Nrisimhagiri Ashtottara Shatanama Stotram Lyrics in Hindi | Narasimha Slokas

Sri Nrusimha Giri Ashtothara Shatanama Stotram Lyrics in Hindi:

॥ श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम् ॥

ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः ।
ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १ ॥

शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥

शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २ ॥

नारायणप्रवचनो नारायणपरायणः ।
नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३ ॥

दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः ।
श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४ ॥

मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः ।
मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५ ॥

निरञ्जनप्रपीठस्थो निरञ्जनविचारकः ।
निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥ ६ ॥

वेदविद्वेदहृदयो वेदपाठप्रवर्तकः।
वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥ ७ ॥

शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः ।
शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥ ८ ॥

अत्याश्रमाचाररतो भूतिधारणतत्परः ।
सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥ ९ ॥

अक्षमालाधृतग्रीवः काषायपरिवेष्टितः ।
ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥ १० ॥

सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः ।
सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥ ११ ॥

माधुर्यपूर्णचरितो मधुराकारविग्रहः ।
मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥ १२ ॥

मधुरालापचतुरो निग्रहानुग्रहक्षमः ।
आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १३ ॥

आरण्यवार्तिकपरः पुष्पमालाविभूषितः ।
वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥ १४ ॥

सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः ।
दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥ १५ ॥

वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः ।
लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥ १६ ॥

गणेशजययात्रादिप्रतिष्ठापनतत्परः ।
गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥ १७ ॥

सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः ।
गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥ १८ ॥

लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः ।
आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥ १९ ॥

अनन्तश्रद्धापरमप्रकाशानन्दपूजितः ।
जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥ २० ॥

माधवानन्दसंवेष्टा काशिकानन्ददेशिकः ।
वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥ २१ ॥

निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् ।
तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥ २२ ॥

गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा
जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥ २३ ॥

मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः ।
रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥ २४ ॥

शन्दमहेशानन्दाय स्वकीयपददायकः ।
यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥ २५ ॥

उषोत्थानस्नानपूजाजपध्यानप्रचोदकः ।
तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥ २६ ॥

अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः ।
अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥ २७ ॥

विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः ।
काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥ २८ ॥

श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः ।
नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥ २९ ॥

विलयं यान्ति पापानि गुरुनामानुकीर्तनात् ।
मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥ ३० ॥

इति श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम् ॥

Also Read:

Shri Nrisimhagiri Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Nrisimhagiri Ashtottara Shatanama Stotram Lyrics in Hindi | Narasimha Slokas

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top