Sri Vallabhashtakam 2 Lyrics in Hindi:
श्रीवल्लभाष्टकम् २
प्रथयितुमच्युतचरणाम्बुजरसपानैकसंश्रयं वर्त्म ।
श्रीमल्लक्ष्मणतनुजो जगति श्रीवल्लभो जयति ॥ १॥
यदनुग्रहेण जन्तून् व्रजमतिरप्यात्मनो मनुते ।
निःसाधनानसाध्यो जगति श्रीवल्लभो जयति ॥ २॥
विश्वोद्धारविचारप्रकटितकरुणोत्तरङ्गपाथोभिः ।
दिशि दिशि विदितविभूतिर्जगति श्रीवल्लभो जयति ॥ ३॥
मायामताद्रिपक्षं सर्वं ब्रह्मेति वादवज्रेण ।
चिच्छेदाद्भुतवीर्यो जगति श्रीवल्लभो जयति ॥ ४॥
वितरति कृष्णकथामृतधनमविनाश्यं सुदुर्लभं बहुलम् ।
अर्थिषु तदुदितकीर्तिर्जगति श्रीवल्लभो जयति ॥ ५॥
कमलाकरयुगलालितविमलाशयसेविताङ्घ्रियुग्मः ।
अचलाचलबहुचरितो जगति श्रीवल्लभो जयति ॥ ६॥
नाशयति शब्दसृष्टेर्यत्तज्ज्ञनांशुमांस्तमोऽज्ञानम् ।
अघतूलराशिदहनो जगति श्रीवल्लभो जयति ॥ ७॥
सहजासुरजनताया दुःखोदर्काय वक्रतर्केण ।
अविदितमार्गदिगर्को जगति श्रीवल्लभो जयति ॥ ८॥
इति श्रीदेवकीनन्दनजीकृतं श्रीवल्लभाष्टकम् २ सम्पूर्णम् ।