Templesinindiainfo

Best Spiritual Website

Shri Varaha Ashtottara Shataanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Sri Varahashtottara Shataanama Stotram Lyrics in Hindi:

श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

श्रीमुष्णमाहात्म्यतः
शङ्करः
नारायण मम ब्रूहि येन तुष्टो जगत्पतिः ।
तूर्णमेव प्रसन्नात्मा मुक्तिं यच्छति पापहा ॥ १ ॥

सदा चञ्चलचित्तानां मानवानां कलौ युगे ।
जपे च देवपूजायां मनो नैकत्र तिष्ठति ॥ २ ॥

तादृशा अपि वै मर्त्या येन यान्ति परां गतिम् ।
अन्येषां कर्मणां पुर्तिर्येन स्यात् फलितेन च ॥ ३ ॥

तादृक् स्तोत्रं मम ब्रूहि महापातकनाशनम् ।
एकैकं च वराहस्य नाम वेदाधिकं किल ॥ ४ ॥

तादृशानि च नामानि वराहस्य महात्मनः ।
सन्ति चेद्ब्रूहि विश्वात्मन् श्रेतुं कौतूहलं हि मे ॥ ५ ॥

श्रीनारायणः
श‍ृणु शङ्कर वक्ष्यामि वराहस्तोत्रमुत्तमम् ।
दुष्टग्रहकुठारोऽयं महापापदवानलः ॥ ६ ॥

महाभयगिरीन्द्राणाम् कुलिशं मुक्तिदं शुभम् ।
कामधुक् कामिनामेतद्भक्तानां कल्पपादपः ॥ ७ ॥

वक्ष्यामि परमं स्तोत्रं यत्सुगोप्यं दुरात्मनाम् ।
नारायण ऋषिश्चात्र श्रीवराहश्च देवता ॥ ८ ॥

छन्दोऽनुष्टुप् च हुं बीजं ह्रीं शक्तिः क्लीं च कीलकम् ।
वराहप्रीतिमुद्दिश्य विनियोगस्तु निर्वृतौ ॥ ९ ॥

न्यसेद्धृदयं द्रेकारं वराहाय च मूर्धनि ।
नमो भगवते पश्चाच्छिखायां विन्यसेद्बुधः ॥ १० ॥

ज्ञानात्मने च नेत्राभ्यां कवचाय बलात्मने ।
भूर्भुवः सुव इत्यस्त्राय फटित्यन्तं न्यसेद्बुधः ॥ ११ ॥

यज्ञाय यज्ञरूपाय यज्ञाङ्गाय महात्मने ।
नमो यज्ञभुजे यज्ञकृते यज्ञेश्वराय च ॥ १२ ॥

यज्ञस्य फलदात्रे च यज्ञगुह्याय यज्वने ।
एभिर्नामपदैर्दिव्यैरङ्गुलिन्यासमाचरेत् ॥ १३ ॥

अन्नदात्रे नम इति करपृष्ठं च मार्जयेत् ।
नमः श्वेतवराहाय स्वाहान्तेन महामतिः ॥ १४ ॥

व्यापकन्यासकृत्पश्चाद्ध्यायेद्देवमधोक्षजम् ।
ध्यानम्-
ॐ श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं
दंष्ट्राकरालवदनं धराय समेतम् ।
ब्रह्मादिभिः सुरगणैः परिसेव्यमानं
ध्यायेद्वराहवपुषं निगमैकवेद्यम् ॥ १५ ॥

श्रीवराहो महीनाथः पूर्णानन्दो जगत्पतिः ।
निर्गुणो निष्कलोऽनन्तो दण्डकान्तकृदव्ययः ॥ १६ ॥

हिरण्याक्षान्तकृद्देवः पूर्णषाड्गुण्यविग्रहः ।
लयोदधिविहारी च सर्वप्राणिहिते रतः ॥ १७ ॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
वेदान्तवेद्यो वेदी च वेदगर्भः सनातनः ॥ १८ ॥

सहस्राक्षः पुण्यगन्धः कल्पकृत् क्षितिभृद्धरिः ।
पद्मनाभः सुराध्यक्षो हेमाङ्गो दक्षिणामुखः ॥ १९ ॥

महाकोलो महाबाहुः सर्वदेवनमस्कृतः ।
हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः ॥ २० ॥

यज्ञभृद्यज्ञकृत्साक्षी यज्ञाङ्गो यज्ञवाहनः ।
हव्यभुघव्यदेवश्च सदाव्यक्तः कृपाकरः ॥ २१ ॥

देवभूमिगुरुः कान्तो धर्मगुह्यो वृषाकपिः ।
स्रुवत्तुण्डो वक्रदंष्ट्रो नीलकेशो महाबलः ॥ २२ ॥

पूतात्मा वेदनेता च वेदहर्तृशिरोहरः ।
वेदादिकृद्वेदगुह्यः सर्ववेदप्रवर्तकः ॥ २३ ॥

गभीराक्षस्त्रिधर्मा च गम्भीरात्मा महेश्वरः ।
आनन्दवनगो दिव्यो ब्रह्मनासासमुद्भवः ॥ २४ ॥

विन्धुतीरनिवासी च क्षेमकृत्सात्त्वतां पतिः ।
इन्द्रत्राता जगत्त्राता महेन्द्रोद्दण्वर्गहा ॥ २५ ॥

भक्तवश्यो सदोद्युक्तो निजानन्दो रमापतिः ।
स्तुतिप्रियः शुभाङ्गश्च पुण्यश्रवणकीर्तनः ॥ २६ ॥

सत्यकृत्सत्यसङ्कल्पः सत्यवाक्सत्यविक्रमः ।
सत्येन गूढः सत्यात्मा कालातीतो गुणाधिकः ॥ २७ ॥

परं ज्योतिः परं धाम परमः पुरुषः परः ।
कल्याणकृत्कविः कर्ता कर्मसाक्षी जितेन्द्रियः ॥ २८ ॥

कर्मकृत्कर्मकाण्डस्य सम्प्रदायप्रवर्तकः ।
सर्वान्तकः सर्वगश्च सर्वार्थः सर्वभक्षकः ॥ २९ ॥

सर्वलोकपतिः श्रीमान् श्रीमुष्णेशः शुभेक्षणः ।
सर्वदेवप्रियः साक्षीत्येतन्नामाष्टकं शतम् ॥ ३० ॥

सर्ववेदाधिकं पुण्यं वराहस्य महात्मनः ।
सततं प्रातरुत्थाय सम्यगाचम्य वारिणा ॥ ३१ ॥

जितासनो जितक्रोधः पश्चान्मन्त्रमुदीरयेत् ।
ब्राह्मणो ब्रह्मविद्यां च क्षत्रियो राज्यमाप्नुयात् ॥ ३२ ॥

वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ।
सद्यो रोगाद्विमुच्येत शतवारं पठेद्यदि ॥ ३३ ॥

सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् ।
सद्यो रोगाद्विमुच्येत शतवारं पठेद्यदि ॥ ३३ ॥

सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् ।
बालरोगग्रहाद्याश्च नश्यन्त्येव न संशयः ॥ ३४ ॥

राजद्वारे महाघोरे सङ्ग्रामे शत्रुसङ्कटे ।
स्तोत्रमेतन्महापुण्यं पठेत्सद्यो भयापहम् ॥ ३५ ॥

इत्येतद्धारयेद्यस्तु करे मूर्ध्नि हृदन्तरे ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ३६ ॥

राजप्रसादजनकं सर्वलोकवशङ्करम् ।
आभिचरिककृत्यान्तं महाभयनिवारणम् ॥ ३७ ॥

शतवारं पठेद्यस्तु मुच्यते व्याधिबन्धनात् ।
यः पठेत्त्रिषु कालेषु स्तोत्रमेतज्जितेन्द्रियः ॥ ३८ ॥

वैकुण्ठवासमाप्नोति दशपुर्वैर्दशापरैः ।
अश्वत्थमूलेऽर्कवारे स्थित्वा स्तोत्रं पठेद्यदि ॥ ३९ ॥

अपस्मारविनाशः स्यात्क्षयरोगश्च नश्यति ।
मध्याह्ने तु गुरोर्वारे जलमध्ये शतं जपेत् ॥ ४० ॥

कुष्ठव्याधिविनाशः स्यात् ज्ञानं चैवाधिगच्छाति ।
प्रातः प्रातः पठेद्यस्तु स्तोत्रमेतच्छुभावहम् ॥ ४१ ॥

अन्त्यकाले स्मृतिर्विष्णोर्भवेत् तस्य महात्मनः ।
अष्टोत्तरशतैर्दिव्यैर्नामभिः किटिरूपिणः ॥ ४२ ॥

तुलसीमर्पयेद्यस्तु स मुक्तो नास्ति संशयः ।
पूजाकाले वराहस्य नाम्नामष्टोत्तरं शतम् ॥ ४३ ॥

जप्त्वाऽथ जापयित्वा वा साम्राज्यमधिगच्छाति ।
निष्कामो मोक्षमाप्नोति नात्र कार्या विचारणा ॥ ४४ ॥

अष्टोत्तरसहस्रं तु यः पठेन्नियतेन्द्रियः ।
पायसेन तथा हुत्वा वन्ध्या पुत्रवती भवेत् ॥ ४५ ॥

नमः श्वेतवराहाय भूधराय महात्मने ।
निरञ्जनाय सत्याय सात्त्वतां पतये नमः ॥ ४६ ॥

इति मन्त्रं पठेन्नित्यमन्ते मोक्षमवाप्नुयात् ॥ ४७ ॥

इति श्रीवराहपुराणे श्रीमुष्णमाहात्म्ये नवमोऽध्यायः ।
नीलवराहपरब्रह्मणे नमः ।

इति श्रीवराहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Shri Varaha Ashtottara Shataanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Varaha Ashtottara Shataanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top