Templesinindiainfo

Best Spiritual Website

Sri Chandra Stotram Lyrics in Hindi

Sri Chandra Stotram in Hindi:

॥ श्री चन्द्र स्तोत्रम् ॥
ध्यानम् ।
श्वेताम्बरान्विततनुं वरशुभ्रवर्णं ।
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ॥

दोर्भ्यां धृताभयवरं वरदं सुधाम्शुं ।
श्रीवत्समौक्तिकधरं प्रणमामि नित्यम् ॥

वासुदेवस्य नयनं शङ्करस्य विभूषणं ।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥

श्वेतच्छत्रधरं वन्दे सर्वाभरणभूषितं ।

आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशगश्च ।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे गदाधरोनो वतु रोहिणीशः ॥

चन्द्रं नमामि वरदं शङ्करस्य विभूषणं ।
कलानिधिं कान्तिरूपं केयूरमकुटोज्ज्वलम् ॥

वरदं वन्द्यचरणं वासुदेवस्य लोचनं ।
सर्वलोकासेचनकं चन्द्रं तं प्रणतोस्म्यहम् ॥

सर्वञ्जगज्जीवयति सुधारसमयैः करैः ।
सोम देहि ममारोग्यं सुधापूरितमण्डल ।

राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः ।
ओषधीनां चाऽधिपतिः रक्षमां रजनीपते ॥

कल्याणमूर्ते वरद करुणारसवारिधे ।
कलशोदधिसञ्जातकलानाथ कृपां कुरु ॥

क्षीरार्णवसमुद्भूत चिन्तामणि सहोद्भव ।
कामितार्थान् प्रदेहि त्वं कल्पद्रुम सहोदर ॥

श्वेताम्बरः श्वेतविभूषणाढ्यः ।
गदाधरः श्वेतरुचिर्द्विबाहुः ॥

चन्द्रः सुधात्मा वरदः किरीटी ।
श्रेयांसि मह्यं प्रददातु देवः ॥

क्षयापस्मारकुष्ठादि तापज्वरनिवारणं ।
सर्वसम्पदमाप्नोति स्तोत्रपाठान्नसम्शयः ॥

इदं निशाकरस्तोत्रं यः पठेत्सततं नरः ।
उपद्रवात्समुच्येत नात्रकार्या विचारणा ॥

Also Read:

Sri Chandra Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Chandra Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top