Templesinindiainfo

Best Spiritual Website

Sri Narasimha Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Narasimha Ashtottara Shatanama stotram in Hindi:

॥ श्री नृसिंह अष्टोत्तरशतनाम स्तोत्रम् ॥
नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवस्स्तम्भजश्चोग्रलोचनः ॥ १ ॥

रौद्रस्सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥ २ ॥

पञ्चाननः परब्रह्म चाऽघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ ३ ॥

निटिलाक्षस्सहस्राक्षो दुर्निरीक्षः प्रतापनः ।
महादम्ष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥ ४ ॥

हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥ ५ ॥

करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिम्शुमारस्त्रिलोकात्मा ईशस्सर्वेश्वरो विभुः ॥ ६ ॥

भैरवाडम्बरो दिव्यश्चाऽच्युतः कवि माधवः ।
अधोक्षजोऽक्षरश्शर्वो वनमाली वरप्रदः ॥ ७ ॥

विश्वम्भरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः ।
अनघास्त्रो नखास्त्रश्च सूर्यज्योतिस्सुरेश्वरः ॥ ८ ॥

सहस्रबाहुःस्सर्वज्ञस्सर्वसिद्धिप्रदायकः ।
वज्रदम्ष्ट्रो वज्रनखो महानन्दः परन्तपः ॥ ९ ॥

सर्वमन्त्रैकरूपश्च सर्वयन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तस्सुव्यक्तो भक्तवत्सलः ॥ १० ॥

वैशाखशुक्लभूतोत्थः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥ ११ ॥

वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥ १२ ॥

जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परञ्ज्योतिर्निर्गुणश्च नृकेसरी ॥ १३ ॥

परतत्त्वः परन्धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहस्सर्वात्मा धीरः प्रह्लादपालकः ॥ १४ ॥

इदं श्रीमन्नृसिंहस्य नाम्नामष्टोत्तरं शतं ।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥ १५ ॥

इति श्रीनृसिंहपूजाकल्पे श्री लक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् ।

Also Read:

Sri Narasimha Ashtottara Shatanama stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Narasimha Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top