Templesinindiainfo

Best Spiritual Website

Sri Shankaracharya’s Gitarahasyam Lyrics in Hindi

Gitarahasyam According to Shri Shankaracharya in Hindi:

॥ जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यम् ॥
लेखकः – डाॅ श्रीधरभास्करवर्णेकरः, नागपुरम्
जगद्गुरुश्रीशङ्कराचार्यचरणैः
श्रीमद्भगवद्गीतोपनिषद्भाष्यस्य प्रथमाध्यायारम्भे तथा
द्वितीयाध्यायस्य “अशोच्यानन्वशोचस्त्वम्” इत्यस्मान् श्लोकात् प्राक्
स्वाभिमतं गीतारहस्यं युक्तियुक्तैर्वचोभिः प्रतिपादितम् । “तस्माद्
गीतासु केवलाद् एव तत्त्वज्ञानात् मोक्षप्राप्तिः, न कर्मसमुचितादिति
निश्चितोऽर्थः ।” (अध्याय २) “तस्मात् केवलादेव ज्ञानान्मोक्ष
इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ।” (अध्याय ३)
इत्येतद् गीतारहस्यं सुनिश्चितं प्रतिपाद्य तदेव सर्वत्र गीतासु
प्रकरणशो विभज्य तत्र तत्र दर्शितम् ।

तदिदं जगद्गुरुसम्मतं गीतारहस्यमस्माभिः ४४ कारिकासु संक्षेपत
उपनिबद्धम् । जगद्गुरुसम्मतं गीतारहस्यं सम्यक् स्मृतिगतं
कर्तुमिमाः कारिका अतीवोपकारिण्यो भवेयुरित्याशास्महे ॥

वेदोक्तो द्विविधो धर्मो गीतासु प्रतिपादितः ।
प्रवृत्तिलक्षणो ह्येकश्चान्यो निर्वृत्तिलक्षणः ॥ १ ॥

धर्मस्य द्विविधो हेतुर्जगतः संस्थितिस्तथा ।
प्राणिनोऽभ्युदयश्चान्यो निःश्रेयससमन्वितः ॥ २ ॥

क्षीणे विवेकविज्ञाने विदुषां कामवर्धने ।
ग्लानिमापद्यते धर्मो ह्यधर्मः कामवर्धने ॥ ३ ॥

ब्राह्मण्याधीनमेवेह वर्णाश्रमविभाजनम् ।
ब्राह्मण्ये रक्षिते धर्मो वैदिकः स्यात् सुरक्षितः ॥ ४ ॥

ब्राह्मणत्वं विजानीयाद् भौमं ब्रह्म सनातनम् ।
तद्रक्षणार्थं कृष्णत्वं प्राप नारायणः स्वयम् ॥ ५ ॥

शोकमोहाब्धिनिर्मग्नं पार्थं प्रत्याह केशवः ।
द्विविधं वैदिकं धर्मं सर्वलोकाद्दिधीर्षया ।
प्रचीयते हि धर्मोऽसौ पाल्यते यो गुणाधिकैः ॥ ६ ॥

सङ्ग्रहः सर्ववेदार्थसाराणामीश्वरोदितः ।
व्यासः सप्तशतश्लोकैस्तमेवोपनिबद्धवान् ॥ ७ ॥

निःश्रेयसं परं ज्ञेयं गीताशास्त्रप्रयोजनम् ।
सहेतुकस्य संसारस्यात्यन्तोपरमो हि तत् ॥ ८ ॥

निःश्रेयसं तदाध्यात्मज्ञाननिष्ठास्वरूपिणः ।
प्राप्यते धर्मतः सर्वकर्मसंन्यासापूर्वकात् ॥ ९ ॥

भगवाननुगीतासु गीताधर्मप्रयोजनम् ।
समस्तकर्म संन्यासापरमित्यब्रवीत् स्वयम् ॥ १० ॥

वर्णानामाश्रमाणां योऽभ्युदयैकप्रयोजनः ।
प्रवृत्तिलक्षणो धर्मः स स्वर्गप्राप्तिसाधनम् ॥ ११ ॥

फलाभिसन्धिरहितो ब्रह्मार्पणधिया तथा ।
प्रवृत्तिलक्षणो धर्मोऽनुष्ठेयः सत्वशुद्धये ॥ १२ ॥

सत्त्वशुद्धतया ज्ञाननिष्ठापात्रत्वमाप्तवान् ।
विन्दते परम ज्ञानं निःश्रेयसफलप्रदम् ॥ १३ ॥

प्रवृत्तिलक्षणो धर्मो गीतासु प्रतिपादितः ।
ज्ञानोत्पत्तिनिदानत्वान्निःश्रेयसपरो हि सः ॥ १४ ॥

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ।
हेतुः प्रवृत्तिधर्मस्य गीतावाक्येऽत्र दृश्यते ॥ १५ ॥

तं शाश्वतं वैदिकमेव धर्म
द्विधा हि निःश्रेयसमात्रहेतुम् ।
तथा परं ब्रह्म च केशवाख्यं
गीतामहाशास्त्रमभिव्यनक्ति ॥ १६ ॥

यो हि सम्यग विजानीते गीताशास्त्रार्थमान्तरम् ॥

समस्तपुरुषार्थानां स सिद्धिमधिगच्छति ॥ १७ ॥

(गीता-द्वितीयाध्यायप्रास्ताविकम्)
शोकमोहादयो दोषाः संसारोत्पत्तिहेतवः ।
विषादयोगो बोद्धव्यस्तदुत्पत्तिप्रबुद्धये ॥ १८ ॥

विवेकः शोकमोहाभ्यां विज्ञानं चाभिभूयते ।
ततः स्वधर्मं सन्त्यज्य प्रतिषिद्धे प्रवर्तते ॥ १९ ॥

यथा स्वयं प्रवृत्तोऽपि क्षात्रधर्म निजेऽर्जुनः ।
उपरम्य ततो मेने परधर्मं हितावहम् ॥ २० ॥

स्वधर्मेऽपि प्रवृत्तानां प्रवृत्तिः प्रायशो नृणाम् ।
फलाभिसन्धिसहिता साहङ्कारा च दृश्यते ।
फलाभिलाषाऽहङ्कारौ धर्मदोषकरावुभौ ॥ २१ ॥

सकामकर्मतो बुद्धिर्जायते पापपुण्ययोः ।
तत एव हि संसारे जीवोऽयं परिवर्तते ॥ २२ ॥

इष्टजन्मसुखानिष्टजन्मदुःखाप्तिलक्षणः
संसारः परिहर्तव्यः शोकमोहसमुद्भवः ॥ २३ ॥

समस्तकर्मसंन्यासापूर्वकादतिनिर्मलात् ।
आत्मज्ञानादृते नैव निवृत्तिः शोकमोहयोः ॥ २४ ॥

निमित्तीकृत्य तत् पार्थं शोकमोहसमाकुलम् ।
भगवानदिशद् गीतां सर्वानुग्रहहेतवे ॥ २५ ॥

(पूर्वपक्षः)
कुरु कर्मेति ब्रुवतोऽभिप्रायः श्रीहरेः स्फुटो नूनम् ।
ज्ञानाद्धि कर्मसहितात् कैवल्यप्राप्तिरिति वदन्त्येके ॥ २६ ॥

धर्म्यं युद्धमकृत्वा पापं स्यादिति निवेदयन् कृष्णः ।
श्रौतं स्मार्तं हिंसाक्रूरं कर्मापि मुक्तये प्राह ॥ २७ ॥

(उत्तरपक्षः)
कैवल्यप्राप्तये ज्ञान-कर्मयोगसमुच्चयम् ।
ये दर्शयन्ति गीतासु तेषां हि तद्सन्मतम् ॥ २८ ॥

साङ्ख्य-योगाभिधं बुद्धिद्वयं लोकेषु वर्तते ।
ज्ञान-कर्माभिधा द्वेधा निष्ठा गीतोदिता ततः ॥ २९ ॥

षड्विक्रियाविहीनत्वादकर्तात्मैति या मतिः ।
सा साङ्ख्यबुद्धिः साङ्ख्याख्यज्ञानिनामुचिता मम ॥ ३० ॥

प्रायेण साङ्ख्यबुद्धेः प्राग् योगबुद्धिः प्रजायते ।
ययात्मा देहसम्भिन्नः कर्ता भोक्तेति भासते ॥ ३१ ॥

धर्माधर्मविवेकेन मोक्षसाधनकर्मणाम् ।
निरन्तरमनुष्ठानं तद् योग इति कथ्यते ॥ ३२ ॥

योगबुद्धि समाश्रित्य येऽन्तःकरणशुद्धये ॥

योगाख्यं कर्म कुर्वन्ति ते योगिन इति स्मृताः ॥ ३३ ॥

ज्ञान-कर्मामिधं निष्ठाद्वयं प्राहेश्वरः पृथक् ।
पश्यन्नेकत्र पुरुषे वृद्धिद्वयमसम्भवम् ॥ ३४ ॥

बृहदारण्यकेऽप्येतद् निष्ठाद्वयमुदीरितम् ।
यत्राकामस्य संन्यासाः प्रोक्तं कर्म च काम्यतः ॥ ३५ ॥

यदि स्यात् सम्मतः श्रौतकर्मज्ञानसमुच्चयः ।
गीतासु नोपपद्येत विभागवचनं तदा ।
ज्यायसी चेदिति प्रश्नः पार्थस्यापि न युज्यते ॥ ३६ ॥

असम्भवमनुष्ठानमेकेन ज्ञानकर्मणोः ।
न चेदिदं हरेरुक्तं श्रृणुयादर्जुनः कथम् ॥ ३७ ॥

अश्रुतं च कथं बुद्धेर्ज्यायस्त्वं कर्मणोऽर्जुनः ।
ज्यायसीत्यादिभिर्वाक्यैर्मृषाऽध्यारोपयेत् प्रभौ ॥ ३८ ॥

उक्तः स्याद् यदि सर्वेषां ज्ञानकर्मसमुच्चयः ।
पार्थस्यापि कृते तर्हि स एव हि निवेदितः ॥ ३९ ॥

उभयोरुपदेशेऽपि प्रश्नोत्तरसमाश्रितः ॥

‘यच्छ्रेय एतयोरेक”मिति नैवोपपद्यते ॥ ४० ॥

शीतं च मधुरं चान्नं भोक्तव्यं पित्तशान्तये ।
इत्युक्तेऽन्यतरश्रेयोजिज्ञासा नोपपद्यते ॥ ४१ ॥

पार्थप्रश्नोऽथ कल्प्येत कृष्णोक्तानवधारणात् ।
तदुत्तरे कथं नोक्तो बुद्धि-कर्म-समुच्चयः ॥ ४२ ॥

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्तेति चोत्तरम् ।
पृष्टादननुरूपं तन्नेश्वरस्योपपद्यते ॥ ४३ ॥

समुच्चयस्तथा बुद्धेः श्रौतवत् स्मार्तकर्मणा ।
नाभिप्रेतोऽन्यथा सर्व विभागवचनं वृथा ॥ ४४ ॥

युद्ध कर्म क्षत्रियस्य स्मार्त मित्यपि जाननः ।
उपालम्भो वृथा ‘घोरे कर्मणी’त्यर्जुनस्य च ॥ ४५ ॥

तस्माद् गीतासु नैवेषन्मात्रेणापि प्रदर्श्यताम् ।
कर्मणा द्विविधेनात्मज्ञानस्य हि समुच्चयः ॥ ४६ ॥

कर्मण्यभिप्रवृत्तस्याज्ञानरागादिदोषतः ।
सत्वशुद्धतया ज्ञानं सर्वं ब्रह्मेति जायते ॥ ४७ ॥

निवृत्तं ज्ञान्नतो यस्य कर्म वा तत्प्रयोजनम् ।
स हि कर्म प्रवृत्तश्चेल्लोकसङ्ग्रहहेतवे ।
तस्मिन्नपि न सम्भाव्यो ज्ञानकर्मसमुच्चयः ॥ ४८ ॥

यथा भगवति क्षात्रकर्मज्ञानसमुच्चयः ।
न सम्भवति निष्कामे तथा तादृशि पण्डिते ॥ ४९ ॥

न करोमीति तत्त्वज्ञो मन्यते भगवत्समः ।
फलं च नाभिसन्धत्ते क्रियमाणस्य कर्मणः ॥ ५० ॥

काम्ये यज्ञे प्रवृत्तस्य कामे सामिकृते हते ।
क्रियमाणः पुनर्यज्ञो निष्कामः खलु जायते ।
प्रमाणं भगवद्वाक्य- “कुर्वन्नपि न लिप्यते” ॥ ५१ ॥

“कर्मणैव हि संसिद्धिमास्थिता जनकादयः” ।
वाक्यमेवंविधं ज्ञेयं प्रविभज्यैव तत्त्वतः ॥ ५२ ॥

अथ चेज्जनकाद्यास्ते नैव तत्त्वविदो मताः ।
कर्मणा चित्तशुद्धिं ते प्राप्ता इत्यवगम्यताम् ॥ ५३ ॥

“योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये” ।
इत्यस्मिन् भगवद्वाक्ये ज्ञेयं कर्मप्रयोजनम् ॥ ५४ ॥

न हि निःश्रेयसप्राप्तिर्ज्ञान-कर्मसमुच्चयात् ।
अभिप्रायेण गीतायास्तत्त्वज्ञानात्तु केवलात् ॥ ५५ ॥

इति श्रीश्रीधरभास्करवर्णेकरः विरचितं
जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यं सम्पूर्णम् ।

Also Read:

Sri Shankaracharya’s Gitarahasyam Lyrics in
Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Shankaracharya’s Gitarahasyam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top