Templesinindiainfo

Best Spiritual Website

Sri Shiva Navaratna Stava Lyrics in Sanskrit

Shri Shiva Navaratna Stava in Sanskrit:

॥ श्री शिव नवरत्न स्तवः ॥
बृहस्पतिरुवाच –
नमो हराय देवाय महामाया त्रिशूलिने ।
तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ ॥

नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये ।
नमो देवाधिदेवाय नमो वेदान्तदायिने ॥ २ ॥

नमः पराय रुद्राय सुपाराय नमो नमः ।
विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ ३ ॥

नमो भक्त भवच्छेद कारणायाऽमलात्मने ।
कालकालाय कालाय कालातीताय ते नमः ॥ ४ ॥

जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः ।
नमः पाषण्डभङ्गाय नमः पापहराय ते ॥ ५ ॥

नमः पर्वतराजेन्द्र कन्यकापतये नमः ।
योगानन्दाय योगाय योगिनाम्पतये नमः ॥ ६ ॥

प्राणायामपराणां तु प्राणरक्षाय ते नमः ।
मूलाधारे प्रविष्टाय मूलदीपात्मने नमः ॥ ७ ॥

नाभिकं ते प्रविष्टाय नमो हृद्देशवर्तिने ।
सच्चिदानन्दपूर्णाय नमस्साक्षात्परात्मने ॥ ८ ॥

नमश्शिवायाद्भुतविक्रमाय ते
नमश्शिवायाद्भुतविग्रहाय ते ।
नमश्शिवायाखिलनायकाय ते
नमश्शिवायामृतहेतवे नमः ॥ ९ ॥

सूत उवाच –
य इदं पठते नित्यं स्तोत्रं भक्त्या सुसम्युतः ।
तस्य मुक्तिः करस्था स्याच्छङ्करप्रियकारणात् ॥ १० ॥

विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् ।
वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ११ ॥

तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः ।
पठन्तु भवनाशार्थमिदं वो भवनाशनम् ॥ १२ ॥

इति श्रीस्कान्देमहापुराणे सूतसंहितायां बृहस्पतिकृत शिवनवरत्नस्तवः ।

Also Read:

Sri Shiva Navaratna Stava Lyrics in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Shiva Navaratna Stava Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top