Templesinindiainfo

Best Spiritual Website

Sri Swarna Akarshana Bhairava Stotram Lyrics in Sanskrit

Shri Swarna Akarshana Bhairava Stotram in Sanskrit:

॥ श्री स्वर्णाकर्षण भैरव स्तोत्रम् ॥
ओं अस्य श्री स्वर्णाऽकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥

ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥

ध्यानम् ।
पारिजातद्रुम कान्तारे स्थिते माणिक्य मण्डपे
सिंहासन गतं वन्दे भैरवं स्वर्णदायकं ।

गाङ्गेय पात्रं डमरूं त्रिशूलं
वरं करः सन्दधतं त्रिनेत्रं
देव्यायुतं तप्त स्वर्णवर्ण
स्वर्णाकर्षण भैरवमाश्रयामि ॥

मन्त्रः ।
ओं ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षण भैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐं ।

स्तोत्रं ।
ओं नमस्ते भैरवाय ब्रह्म विष्णु शिवात्मने।
नमः त्रैलोक्य वन्द्याय वरदाय वरात्मने ॥ १ ॥

रत्नसिंहासनस्थाय दिव्याभरण शोभिने ।
दिव्यमाल्य विभूषाय नमस्ते दिव्यमूर्तये ॥ २ ॥

नमस्ते अनेक हस्ताय अनेक शिरसे नमः ।
नमस्ते अनेक नेत्राय अनेक विभवे नमः ॥ ३ ॥

नमस्ते अनेक कण्ठाय अनेकाम्शाय ते नमः ।
नमस्ते अनेक पार्श्वाय नमस्ते दिव्य तेजसे ॥ ४ ॥

अनेकाऽयुधयुक्ताय अनेक सुरसेविने ।
अनेक गुणयुक्ताय महादेवाय ते नमः ॥ ५ ॥

नमो दारिद्र्यकालाय महासम्पत्प्रदायिने ।
श्री भैरवी सम्युक्ताय त्रिलोकेशाय ते नमः ॥ ६ ॥

दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ ७ ॥

सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्य चक्षुषे ।
अजिताय नमस्तुभ्यं जितमित्राय ते नमः ॥ ८ ॥

नमस्ते रुद्ररूपाय महावीराय ते नमः ।
नमोऽस्त्वनन्त वीर्याय महाघोराय ते नमः ॥ ९ ॥

नमस्ते घोर घोराय विश्वघोराय ते नमः ।
नमः उग्राय शान्ताय भक्तानां शान्तिदायिने ॥ १० ॥

गुरवे सर्वलोकानां नमः प्रणव रूपिणे ।
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ॥ ११ ॥

नमस्ते कामराजाय योषित कामाय ते नमः ।
दीर्घमायास्वरूपाय महामायाय ते नमः ॥ १२ ॥

सृष्टिमाया स्वरूपाय निसर्ग समयाय ते ।
सुरलोक सुपूज्याय आपदुद्धारणाय च ॥ १३ ॥

नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ॥ १४ ॥

नमो अजामलवध्याय नमो लोकेष्वराय ते ।
स्वर्णाऽकर्षण शीलाय भैरवाय नमो नमः ॥ १५ ॥

मम दारिद्र्य विद्वेषणाय लक्ष्याय ते नमः ।
नमो लोकत्रयेशाय स्वानन्द निहिताय ते ॥ १६ ॥

नमः श्री बीजरूपाय सर्वकामप्रदायिने ।
नमो महाभैरवाय श्री भैरव नमो नमः ॥ १७ ॥

धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ।
नमः प्रसन्न (रूपाय) आदिदेवाय ते नमः ॥ १८ ॥

नमस्ते मन्त्ररूपाय नमस्ते मन्त्ररूपिणे ।
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ॥ १९ ॥

नमः सुवर्णवर्णाय महापुण्याय ते नमः ।
नमः शुद्धाय बुद्धाय नमः संसार तारिणे ॥ २० ॥

नमो देवाय गुह्याय प्रचलाय नमो नमः ।
नमस्ते बालरूपाय परेषां बलनाशिने ॥ २१ ॥

नमस्ते स्वर्णसंस्थाय नमो भूतलवासिने ।
नमः पातालवासाय अनाधाराय ते नमः ॥ २२ ॥

नमो नमस्ते शान्ताय अनन्ताय नमो नमः ।
द्विभुजाय नमस्तुभ्यं भुजत्रय सुशोभिने ॥ २३ ॥

नमोऽणिमादि सिद्धाय स्वर्णहस्ताय ते नमः ।
पूर्णचन्द्र प्रतीकाश वदनाम्भोज शोभिने ॥ २४ ॥

नमस्तेऽस्तु स्वरूपाय स्वर्णालङ्कार शोभिने ।
नमः स्वर्णाऽकर्षणाय स्वर्णाभाय नमो नमः ॥ २५ ॥

नमस्ते स्वर्णकण्ठाय स्वर्णाभ अम्बरधारिणे ।
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ॥ २६ ॥

नमः स्वर्णाभपादाय स्वर्णकाञ्ची सुशोभिने ।
नमस्ते स्वर्णजङ्घाय भक्तकामदुधात्मने ॥ २७ ॥

नमस्ते स्वर्णभक्ताय कल्पवृक्ष स्वरूपिणे ।
चिन्तामणि स्वरूपाय नमो ब्रह्मादि सेविने ॥ २८ ॥

कल्पद्रुमाद्यः संस्थाय बहुस्वर्ण प्रदायिने ।
नमो हेमाकर्षणाय भैरवाय नमो नमः ॥ २९ ॥

स्तवेनानेन सन्तुष्टो भव लोकेश भैरव ।
पश्य मां करुणाद्रुष्ट्या शरणागतवत्सल ॥ ३० ॥

श्री महाभैरवस्य इदं स्तोत्रमुक्तं सुदुर्लभं ।
मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ ३१ ॥

यः पठेन्नित्यं एकाग्रं पातकै स प्रमुच्यते ।
लभते महतीं लक्ष्मीं अष्टैश्वर्यं अवाप्नुयात् ॥ ३२ ॥

चिन्तामणिं अवाप्नोति धेनु कल्पतरुं धृवं ।
स्वर्णराशिं अवाप्नोति शीघ्रमेव न सम्शयः ॥ ३३ ॥

त्रिसन्ध्यं यः पठेत् स्तोत्रं दशावृत्या नरोत्तमः ।
स्वप्ने श्री भैरवः तस्य साक्षात् भूत्वा जगद्गुरुः ॥ ३४ ॥

स्वर्णराशि ददात्यस्यै तत्‍क्षणं नात्र सम्शयः ।
अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥ ३५ ॥

लभते सकलान् कामान् सप्ताहान् नात्र सम्शयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनाः ॥ ३६ ॥

लोकत्रयं वशीकुर्यात् अचलां लक्ष्मीं अवाप्नुयात् ।
न भयं विद्यते क्वापि विषभूतादि सम्भवम् ॥ ३७ ॥

म्रियते शत्रवः तस्य अलक्ष्मी नाशं आप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ ३८ ॥

अष्ट पञ्चात्वर्णाद्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्य दुःखशमनः स्वर्णाकर्षण कारकः ॥ ३९ ॥

य एन सञ्चयेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरव सायुज्यं स अनन्तकाले लभेत् धृवम् ॥ ४० ॥

इति रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रं सम्पूर्णम् ॥

Also Read:

Sri Swarna Akarshana Bhairava Stotram in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Swarna Akarshana Bhairava Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top