Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shakambhari Tatha Vanashankari | Sahasranama Stotram Lyrics in Hindi

Shri Shakambhari Tatha Vanashankari Sahasranamastotram Lyrics in Hindi:

॥ श्रीशाकम्भरी तथा वनशङ्करीसहस्रनामस्तोत्रम् ॥

शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ।
श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः शंसिता
शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥

शूलं पाशकपालचापकुलिशान्बाणान्सृणिं खेटकां
शङ्कं चक्रगदाहिखड्गमभयं खट्वाङ्गदण्डान्धराम् ।
वर्षाभाववशाद्धतान्मुनिगणान्शाकेन या रक्षति
लोकानां जननीं महेशदयितां तां नौमि शाकम्भरीम् ॥ १ ॥

कैलासशिखरासीनं स्कन्दं मुनि गणान्वितम् ।
प्रणम्य शक्रः पप्रच्छ लोकानां हितकाम्यया ॥ २ ॥

शक्र उवाच –
स्कन्द स्कन्द महाबाहो सर्वज्ञ शिवनन्दन ।
नाम्नां सहस्रमाचक्ष्व शाकम्भर्याः सुसिद्धिदम् ॥ ३ ॥

स्कन्द उवाच –
या देवी शतवार्षिक्यामनावृष्ट्यां स्वदेहजैः ।
शाकैरबीभरत्सर्वानृषीन् शक्र शतं समाः ॥ ४ ॥

महासरस्वती सैव जाता शाकम्भरी शिवा ।
नाम्नां सहस्रं तस्यास्ते वक्ष्यामि श्रुणुभक्तितः ॥ ५ ॥

ॐ अस्य श्रीशाकम्भरीसहस्रनाममालामन्त्रस्य महादेवः ऋषिः ।
अनुष्टुप् छन्दः । शाकम्भरी देवता । सौः बीजं । क्लीं शक्तिः ।
ह्रीं कीलकं । मम श्री शाकम्भरीप्रसादसिद्ध्यर्थे
तत्सहस्रनामपारायणे विनियोगः ।

करन्यासः ॥

ॐ सौः चामुण्डायै अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं शताक्ष्यै तर्जनीभ्यां नमः ।
ॐ ह्रीं शाकम्भर्यै मध्यमाभ्यां नमः ।
ॐ सौः चामुण्डायै अनामिकाभ्यां नमः ।
ॐ क्लीं शताक्ष्ये कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं शाकम्भर्यै करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।

ॐ सौः क्लीं ह्रीं ॐ मन्त्रेण दिग्बन्धः । इति ॥

॥ ध्यानम् ॥

सौवर्णसिंहासनसंस्थितां शिवां त्रिलोचना चन्द्रकलावतंसिकाम् ।
शूलं कपालं निजवामहस्तयोस्तदन्ययोः खड्गमभीतिमुद्रिकाम् ॥

पाण्योर्दधानां मणिभूषणाज्ज्वलां सुवाससं माल्यविलेपनाञ्चिताम् ।
प्रसन्नावक्त्रां परदेवता मुदा ध्यायामि भक्त्या वनशङ्करीं हृदि ॥

लमित्यादिपञ्चपूजा –
ॐ सौः क्लीं ह्रीं ॐ ।
ॐ शाकम्भर्यै नमः ।
ह्रीं शाकम्भर्यै नमः ।
ॐ ह्रीं शाकम्भर्यै नमः ।
सौः क्लीं ह्रीं शाकम्भर्यै नमः ।
ॐ सौः क्लीं ह्रीं शाकम्भर्यै नमः ।
ॐ सौः क्लीं ह्रीं शाकम्भर्यै नमः ॐ ।
इत्येषु गुरूपदिष्टं मन्त्रं जपेत् ।

॥ अथ सहस्रनामस्तोत्रम् ॥

ॐ शाकम्भरी शताक्षी च चामुण्डा रक्तदन्तिका ।
महाकाली महाशक्तिर्मधुकैटभनाशिनी ॥ १ ॥

ब्रह्मादितेजः सम्भूता महालक्ष्मीर्वरानना ।
अष्टादशभुजा सम्राण्महिषासुरमर्दिनी ॥ २ ॥

महामाया महादेवी सृष्टिस्थित्यन्तकारिणी ।
कान्तिः कामप्रदा काम्या कल्याणी करुणानिधिः ॥

सिंहस्थिता नारसिंही वैष्णवी विष्णुवल्लभा ।
भ्रामरी रक्तचामुण्डा रक्ताक्षी रक्तपायिनी ॥ ४ ॥

रक्तप्रिया सुरक्तोष्ठी रक्तबीजविनाशिनी ।
सुरक्तवसना रक्तमाल्या रक्तविभूषणा ॥ ५ ॥

रक्तपाणितला रक्तनखी रक्तोत्पलाङ्घ्रिका ।
रक्तचन्दनलिप्ताङ्गी रमणी रतिदायिनी ॥ ६ ॥

सुरभिः सुन्दरी बाला बगला भैरवी समित् ।
चन्द्रलाम्बा सुमङ्गल्या भीमा भयनिवारिणी ॥ ७ ॥

जागृतिः स्वप्नरूपा च सुषुप्तिसुखरूपिणी ।
तुर्योंन्मनी त्रिमात्रा च त्रयी त्रेता त्रिमूर्तिका ॥ ८ ॥

विष्णुमाया विष्णुशक्तिर्विष्णुजिह्वा विनोदिनी ।
छाया शान्तिः क्षमा क्षुत्तृट्तुष्टिः पुष्टिर्धृतिर्भृतिः ॥ ९ ॥

मतिर्मितिर्नतिर्नीतिः संयतिर्नियति कृतिः ।
स्फूर्तिः कीर्तिः स्तुतिर्जूतिः पूर्तिर्मूर्तिर्निजप्रदा ॥ १० ॥

त्रिशूलधारिणी तीक्ष्णगदिनी खड्गधारिणी ।
पाशिनी त्रासिनी वामा वामदेवी वरानना ॥ ११ ॥

वामाक्षी वारुणीमत्ता वामोरुर्वासवस्तुता ।
ब्रह्मविद्या महाविद्या योगिनी योगपूजिता ॥ १२ ॥

त्रिकूटनिलया नित्या कल्पातीता च कल्पना ।
कामेश्वरी कामदात्री कामान्तककुटुम्बिनी ॥ १३ ॥

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
नानाद्रुमलताकीर्णगिरिमध्यनिवासिनी ॥ १४ ॥

शाकपोषितसर्वर्षिः पाकशासनपूजिता ।
क्लेदिनी भेदिनी भ्रान्तिर्भीतिदा भ्रान्तिनाशिनी ॥ १५ ॥

क्रान्तिः सङ्क्रान्तिरुत्क्रान्तिर्विक्रान्तिः क्रान्तिवर्जिता ।
डिण्डिमध्वनिसंहृष्टा भेरीनादविनोदिनी ॥ १६ ॥

सुतन्त्रीवादनरता स्वरभेदविचक्षणा ।
गान्धर्वशास्त्रनिपूणा नाट्यशास्त्रविशारदा ॥ १७ ॥

हावभावप्रमाणज्ञा चतुःषष्टिकलान्विता ।
पदवाक्यप्रमाणाब्धिपारीणा वादिभङ्गिनी ॥ १८ ॥

सर्वतन्त्रस्वतन्त्रा च मन्त्रशास्त्राब्धिपारगा ।
नानायन्त्र विधानज्ञा सौगतागमकोविदा ॥ १९ ॥

वैखानसाद्यागमज्ञा शैवागम विचक्षणा ।
वामदक्षिणमार्गज्ञा भैरवागमभेदवित् ॥ २० ॥

पञ्चायतनतत्त्वज्ञा पञ्चाम्नायप्रपञ्चवित् ।
राजराजेश्वरी भट्टारिका त्रिपुरसुन्दरी ॥ २१ ॥

महादक्षिणकाली च मातङ्गी मद्यमांसभुक् ।
लुलायबलिसन्तुष्टा मेषच्छागबलिप्रिया ॥ २२ ॥

दीपिकाक्रीडनरता डमड्डमरुनादिनी ।
महाप्रदीपिकादेहलेहनाद्भुतशक्तिदा ॥ २३ ॥

निजावेशवदुन्मत्तभक्तोक्त फलदायिनी ।
उदोउदोमहाध्वान श्रवणासक्तमानसा ॥ २४ ॥

चौडेश्वरी चौडवाद्यप्रवादनपरायणा ।
कपर्दमालाभरणा कपर्दिप्राणवल्लभा ॥ २५ ॥

नग्रस्त्रीवीक्षणरता नग्निकोद्भिन्नयौवना ।
बाला बदरवक्षोजा मध्या बिल्वफलस्तनी ॥ २६ ॥

नारिकेलस्तनी प्रौढा प्रगल्भा च घटस्तनी ।
कात्यायनी नम्रकुचा प्रौढाद्भुतपराक्रमा ।
कदलीवनमध्यस्था कदम्बवनवासिनी ॥ २७ ॥

निजोपकण्ठसम्प्राप्तनदीमाहात्म्यवर्धिनी ।
कावेरी ताम्रपर्णी च कामाक्षी कामितार्थदा ॥ २८ ॥

मूकाम्बिका महाशक्तिः श्रीशैलभ्रमराम्बिका ।
जोगलाम्बा जगन्माता मातापुरनिवासिनी ॥ २९ ॥

जमदग्निप्रिया साध्वी तापसीवेषधारिणी ।
कार्तवीर्यमुखानेकक्षत्रविध्वंसकारिणी ॥ ३० ॥

नानावतारसम्पन्ना नानाविधचरित्रकृत् ।
करवीरमहालक्ष्मीः कोल्हासुरविनाशिनी ॥ ३१ ॥

नागलिङ्गभगाङ्काढ्यमौलिः शक्रादिसंस्तुता ।
दुर्गमासुरसंहर्त्री दुर्गाऽनर्गलशासना ॥ ३२ ॥

नानाविधभयत्रात्री सुत्रामादिसुधाशना ।
नागपर्यंकशयना नागी नागाङ्गनार्चिता ॥ ३३ ॥

हाटकालङ्कृतिमती हाटकेशसभाजिता ।
वाग्देवतास्फूर्तिदात्री त्रातवाग्बीजजापका ॥ ३४ ॥

जप्या जपविधिज्ञा च जपसिद्धिप्रदायिनी ।
मन्त्रशक्तिर्मन्त्रविद्या सुमन्त्रा मान्त्रिकम्प्रिया ॥ ३५ ॥

इन्दुमण्डलपीठस्था सूर्यमण्डलपीठगा ।
चन्द्रशक्तिः सूर्यशक्तिर्ग्रहशक्तिर्ग्रहार्तिहा ॥ ३६ ॥

ग्रहपीडाहरी सौम्या शुभग्रहफलप्रदा ।
ज्योतिर्मण्डलसंस्थाना ग्रहताराधिदेवता ॥ ३७ ॥

सप्तविंशतियोगेशी बवादिकरणेश्वरी ।
प्रभवाद्यब्दशक्तिश्च कालचक्रप्रवर्तिनी ॥ ३८ ॥

सोहंमन्त्रजपाधारा ऊर्ध्वषट्चक्रदेवता ।
इडाख्या पिङ्गलाख्या च सुषुम्ना ब्रह्मरन्ध्रगा ॥ ३९ ॥

शिवशक्तिः कुण्डलिनी नाभिमण्डलनिद्रिता ।
योगोद्बुद्धा मुक्तिदात्री सहस्राराब्जपीठगा ॥ ४० ॥

पीयूषवर्षिणी जीवशिवभेदतिनाशिनी ।
नाभौ परा च पश्यन्ती हृदये मध्यमा गले ॥ ४१ ॥

जिह्वाग्रे वैखरीवाणी पञ्चाशन्मातृकात्मिका ।
ओङ्काररूपिणी शब्दसूष्टिरूपाऽर्थरूपिणी ॥ ४२ ॥

मौनशक्तिर्मुनिध्येया मुनिमानससंस्थिता ।
व्यष्टिः समष्टिस्त्रिपुटी तापत्रयविनाशिनी ॥ ४३ ॥

गायत्री व्याहृतिः सन्ध्या सावित्री च पितृप्रसूः ।
नन्दा भद्रा जया रिक्ता पूर्णा विष्टिश्च वैधृतिः ॥ ४४ ॥

श्रुतिः स्मृतिश्च मीमांसा विद्याऽविद्या परावरा ।
सुमेरुश‍ृङ्गनिलया लोकालोकनिवासिनी ॥ ४५ ॥

मानसोत्तरगोत्रस्था पुष्करद्वीपदेवता ।
मन्दराद्रिकृतक्रीडा नीपोपवनवासिनी ॥ ४६ ॥

मणिद्वीपकृतावासा पीतवासः सुपूजिता ।
प्लक्षादिद्वीपगोत्रस्था तत्रत्यजनपूजिता ॥ ४७ ॥

सुराब्धि द्वीपनिलया सुरापानपरायण ।
एकपादेकहस्तैकदृगेकश्रुतिपार्श्विका ॥ ४८ ॥

अर्धनारीश्वरार्धाङ्गी स्यूतालोकोत्तराकृतिः ।
भक्तैकभक्ति संसाध्या ध्यानाधारा परार्हणा ॥ ४९ ॥

पञ्चकोशान्तरगता पञ्चकोशविवर्जिता ।
पञ्चभूतातरालस्था प्रपञ्चातीतवैभवा ॥ ५० ॥

पञ्चीकृतमहाभूतनिर्मितानेकभौतिका ।
सर्वांतर्यामिणी शम्भुकामिनी सिंहगामिनी ॥ ५१ ॥

यामिनीकृतसञ्चारा शाकिन्यादिगणेश्वरी ।
खट्वाङ्गिनी खेटकिनी कुन्तिनी भिन्दिपालिनी ॥ ५२ ॥

वर्मिणी चर्मिणी चण्डी चण्डमुण्डप्रमाथिनी ।
अनीकिनी च ध्वजिनी मोहिन्येजत्पताकिनी ॥ ५३ ॥

अश्विनी गजिनी चाट्टहासिनी दैत्यनाशिनी ।
शुम्भघ्नी च निशुम्भघ्नी धूम्रलोचननाशिनी ॥ ५४ ॥

बहुशीर्षा बहुकुक्षिर्व्यादितास्याऽशितासुरा ।
दंष्ट्रासङ्कटसंलग्नदैत्यसास्रान्त्र मालिनी ॥ ५५ ॥

दैत्यासृङ्मांससन्तृप्ता क्रव्यादकृतवन्दना ।
लम्बकेशी प्रलम्बोष्ठी लम्बकुक्षिर्महाकटी ॥ ५६ ॥

लम्बस्तनी लम्बजिह्वा लम्बपाण्यङ्घ्रिजङ्घिका ।
लम्बोरुर्लम्बजघना कालिका कर्कशात्कृतिः ॥ ५७ ॥

भिन्नभेरीखररवा वारणग्रासकारिणी ।
प्रेतदेहपरीधाना रुण्डकुण्डलमण्डिता ॥ ५८ ॥

गण्डशैलस्पर्धिगण्डा शैलकन्दुकधारिणी ।
शिवदूती घोररूपा शिवाशतनिनादिनी ॥ ५९ ॥

नारायणी जगद्धात्री जगत्पात्री जगन्मयी ।
अल्लांम्बाक्का कामदुघाऽनल्पदा कल्पवल्लिका ॥ ६० ॥

मल्लीमतल्लिका गुञ्जालङ्कृतिः शिवमोहिनी ।
गान्धर्वगानरसिका केकावाक्कीरपालिनी ॥ ६१ ॥

सिनीवाली कुहू राकाऽनुमतिः कौमुदी ककुप् ।
ब्रह्माण्डमण्डपस्थूणा ब्रह्माण्डगृहदेवता ॥ ६२ ॥

महागृहस्थमहिषी पशुपाशविमोचिनी ।
वीरस्थानगता वीरा वीरासनपरिग्रहा ॥ ६३ ॥

दीपस्थानगता दीप्ता दीपोत्सवकुतूहला ।
तीर्थपात्रप्रदा तीर्थकुम्भपूजनसंभ्रमा ॥ ६४ ॥

माहेश्वरजनप्रीता पशुलोकपराङ्मुखी ।
चतुःषष्टिमहातन्त्रप्रतिपाद्यागमाध्वगा ॥ ६५ ॥

शुद्धाचारा शुद्धपूज्या शुद्धपूजा जनाश्रिता ।
अष्टादशमहापीठा श्रीचक्रपरदेवता ॥ ६६ ॥

योगिनीपूजनप्रीता योगिनीचक्रवन्दिता ।
रणत्काञ्चीक्षुद्रघण्टा घण्टाध्वनिविनोदिनी ॥ ६७ ॥

तौर्यत्रिककलाभिज्ञा मनोज्ञा मञ्जुभाषिणी ।
शिववामाङ्कलसिता सुस्मिता ललितालसा ॥ ६८ ॥

लावण्यभूमिस्तल्लेशनिर्मितामरसुन्दरी ।
श्रीर्धीर्भीर्ह्रीर्नतिर्जातिरीज्याज्या पूज्यपादुका ॥ ६९ ॥

सुरस्रवन्ती यमुना तथा गुप्तसरस्वती ।
गोमती गण्डकी तापी शतद्रुश्च विपाशिका ॥ ७० ॥

सरयूर्नर्मदा गोदा पयोष्णी च पुनः पुना ।
भीमा कृष्णा तुङ्गभद्रा नानातीर्थस्वरूपिणी ॥ ७१ ॥

द्वारका मधुरा माया काश्ययोध्या त्ववन्तिका ।
गया काञ्ची विशाला च मुक्तिक्षेत्रस्वरूपिणी ॥ ७२ ॥

मन्त्रदीक्षा यागदीक्षा योगदीक्षाऽक्षतव्रता ।
अक्षमालाविभेदज्ञाऽऽसनभेदविचक्षणा ॥ ७३ ॥

मातृकान्यासकुशला मन्त्रन्यासविशारदा ।
नानामुद्राप्रभेदज्ञा पञ्चोपास्तिप्रभेदवित् ॥ ७४ ॥

सर्वमन्त्रोपदेष्ट्री च व्याख्यात्री देशिकोत्तरा ।
वाग्वादिनी दुर्विवादिप्रौढवाक्स्तम्भकारिणी ॥ ७५ ॥

स्वतन्त्रयन्त्रणाशक्तिस्तद्यन्त्रितजगत्त्रयी ।
ब्रह्माद्याकर्षिणी शम्भुमोहिन्युच्चाटिनी द्विषाम् ॥ ७६ ॥

सुरासुराणां प्रद्वेषकारिणी दैत्यमारिणी ।
पूरिणी भक्तकामानां श्रितप्रत्यूहवारिणी ॥ ७७ ॥

साधारणी धारिणी च प्रौढवाग्धारिणी प्रधूः ।
प्रभूर्विभूः स्वयम्भूश्च निग्रहानुग्रहक्षमा ॥ ७८ ॥

क्षमाऽक्षमा क्षमाधारा धाराधरनिभद्युतिः ।
कादम्बिनी कालशक्तिः कर्षिणी वर्षिणीर्षिणी ॥ ७९ ॥

अदेवमातृका देवमातृका चोर्वरा कृषिः ।
कृष्टपच्याऽकृष्टपच्याऽनूषराऽधित्यका गुहा ॥ ८० ॥

उपत्यका दरी वन्याऽरण्यानी शैलनिम्नगा ।
केदारभूमिर्व्रीहिला कमलर्धिर्महाफला ॥ ८१ ॥

इक्षुमत्यूर्जिता जम्बूपनसाम्रादिशालिनी ।
अष्टापदखनी रौप्यखनी रत्नखनिः खनिः ॥ ८२ ॥

रुचां भावखनिर्जीवखनिः सौभाग्यसत्खनिः ।
लावण्यस्य खनिर्धैर्यखनिः शौर्यखनिः खनिः ॥ ८३ ॥

गाम्भीर्यस्य विलासस्य खनिः साहित्यसत्खनिः ।
पक्षमासर्तुवर्षाणां खनिः खनिरनेहसाम् ॥ ८४ ॥

खनिश्च युगकल्पानां सूर्यचन्द्रमसोः खनिः ।
खनिर्मनूनामिन्द्राणां खनिः कौतुकसत्खनिः ॥ ८५ ॥

मषी लेखनिका पात्री वर्णपङ्क्तिर्लिपिः कथा ।
कविता काव्यकर्त्री च देशभाषा जनश्रुतिः ॥ ८६ ॥

रचना कल्पनाऽऽचारभटी धाटी पटीयसी ।
अपसव्यलिपिर्देवलिपी रक्षोलिपिर्लिपिः ॥ ८७ ॥

तुलजा रामवरदा शबरी बर्बरालका ।
ज्योतिर्लिङ्गमयी लिङ्गमस्तका लिङ्गधारिणी ॥ ८८ ॥

रुद्राक्षधारिणी भूतिधारिणी लैङ्गिकव्रता ।
विष्णुव्रतपरा विष्णुमुद्रिका प्रियवैष्णवी ॥ ८९ ॥

जैनी दैगम्बरी नानाविधवैदिक मार्गगा ।
पञ्चद्रविडसंसेव्या पञ्चगौडसमर्चिता ॥ ९० ॥

हिङ्गुला शारदा ज्वालामुखी गञ्जाधिदेवता ।
मन्दुरादेवताऽऽलानदेवता गोष्ठदेवता ॥ ९१ ॥

गृहादिदेवतासौधदेवतोद्यानदेवता ।
श‍ृङ्गारदेवता ग्रामदेवता चैत्यदेवता ॥ ९२ ॥

पूर्देवता राजसभादेवताऽशोकदेवता ।
चतुर्दशानां लोकानां देवता परदेवता ॥ ९३ ॥

वापीकूपतडागादिदेवता वनदेवता ।
सृष्टिखेला क्षेमखेला प्रतिसंहारखेलना ॥ ९४ ॥

पुष्पपर्यङ्कशयना पुष्पवत्कुण्डलद्वयी ।
ताम्बूलचर्वणप्रीता गौरी प्रथमपुष्पिणी ॥ ९५ ॥

कल्याणीयुगसम्पन्ना कामसञ्जीवनी कला ।
कलाकलापकुशला कलातीता कलात्मिका ॥ ९६ ॥

महाजाङ्गलकी कालभुजङ्गविषनाशिनी ।
चिकित्सा वैद्यविद्या च नानामयनिदानवित् ॥ ९७ ॥

पित्तप्रकोपशमनी वातघ्नी कफनाशिनी ।
आमज्वरप्रकोपघ्नी नवज्वरनिवारिणी ॥ ९८ ॥

अर्शोघ्नी शूलशमनी गुल्मव्याधिनिवारिणी ।
ग्रहणीनिग्रहकरी राजयक्ष्मविनाशिनी ॥ ९९ ॥

मेहघ्नी पाण्डुरोगघ्नी क्षयापस्मारनाशिनी ।
उपदंशहरी श्वासकासच्छर्दिनिवारिणी ॥ १०० ॥

प्लीहप्रकोपसंहर्त्री पामाकण्डूविनाशिनी ।
दद्रुकुष्ठादिरोगघ्नी नानारोगविनाशिनी ॥ १०१ ॥

यक्षराक्षसवेतालकूष्माडग्रहभेदिनी ।
बालग्रहघ्नी चण्डालग्रहचण्डग्रहार्दिनी ॥ १०२ ॥

भूतप्रेतपिशाचघ्नी नानाग्रहविमर्दिनी ।
शाकिनीडाकिनीलामदस्त्रीग्रहनिषूदिनी ॥ १०३ ॥

अभिचारकदुर्बाधोन्मथिन्युन्मादनाशिनी ।
नानाविषार्तिसंहर्त्री दुष्टदृष्ट्यार्तिनाशिनी ॥ १०४ ॥

दुष्टस्थानस्थितार्कादिग्रहपीडाविनाशिनी ।
योगक्षेमकरी पुष्टिकरी तुष्टिकरीष्टदा ॥ १०५ ॥

धनदा धान्यदा गोदा वासोदा बहुमानदा ।
कामितार्थप्रदा शन्दा चतुर्विधतुमर्थदा ॥ १०६ ॥

ब्रह्ममान्या विष्णुमान्या शिवमान्येन्द्रमानिता ।
देवर्षिमान्या ब्रह्मर्षिमान्या राजर्षिमानिता ॥ १०७ ॥

जगन्मान्या जगद्धात्री त्र्यम्बका त्र्यम्बकाङ्गना ।
गुहेभवक्त्रजननी भद्रकाल्यमयङ्करी ॥ १०८ ॥

सती दाक्षायणी दक्षा दक्षाध्वरनिषूदिनी ।
उमा हिमाद्रिजाऽपर्णा कर्णपूराञ्चितानना ॥ १०९ ॥

क्षोणीधरनितम्बाम्बा बिम्बाभरदनच्छदा ।
कुन्दकोरकनीकाशरदपङ्क्तिः सुनासिका ॥ ११० ॥

नासिकामौक्तिकमणिप्रभामलरदच्छदा ।
सुमन्दहसितालोकविमुह्यच्छम्भु मानसा ॥ १११ ॥

मानसौकोगतिः सिञ्जन्मञ्जीरादिविभूषणा ।
काञ्चीक्कणत्क्षुद्रघण्टा कलधौतघटस्तनी ॥ ११२ ॥

मुक्ताविद्रुमहारश्रीराजन्कुचतटस्थली ।
ताटङ्कयुगसत्कान्तिविलसद्गण्डदर्पणा ॥ ११३ ॥

धम्मिल्लप्रोत सौवर्णकेतकीदलमण्डिता ।
शिवार्पितस्वलावण्यतारुण्यकिलिकिञ्चिता ॥ ११४ ॥

सग्रैवेयकचिन्ताकविभ्राजत्कम्बुकन्धरा ।
सखीस्कन्धासक्तबाहुलतासुललिताङ्गिका ॥ ११५ ॥

नितम्बकुचभारार्तकृशमध्यसुमध्यमा ।
नाभीसरोवरोद्भूतरोमावलिविराजिता ॥ ११६ ॥

त्रिवलीराजललितगौरवर्णतलोदरी ।
चामरग्राहिणीवीज्यमानेन्दुद्युतिचामरा ॥ ११७ ॥

महाकुरबकाशोकपुष्पवचयलालसा ।
स्वतपःसुफलीभूतवरोत्तममहेश्वरी ॥ ११८ ॥

हिमाचलतपःपुण्यफलभूतसुताकृतिः ।
त्रैलोक्यरमणीरत्ना शिवचिच्चन्द्रचन्द्रिका ॥ ११९ ॥

कीर्तिज्योत्स्नाधवलितानेकब्रह्माण्डगोलिका ।
शिवजीवातुगुलिकालसदङ्गुलिमुद्रिका ॥ १२० ॥

प्रीतिलालितसत्पुत्रगजाननषडानना ।
गङ्गासापत्न्यजनितेर्यायतेक्षणशोणिमा ॥ १२१ ॥

शिववामाङ्कपर्यंङ्ककृतासनपरिग्रहा ।
शिवदृष्टिचकोरीष्टमुखपूर्णेन्दुमण्डला ॥ १२२ ॥

उरोजशैलयुगलभ्रमच्छिवमनोमृगा ।
ब्रह्मविष्णुमुखाशेषवृन्दारकनभस्कृता ॥ १२३ ॥

अपाङ्गाङ्गणसन्तिष्ठन्निग्रहानुग्रहद्वयी ।
सनत्कुमारदुर्वासः प्रमुखोपासकार्थिता ॥ १२४ ॥

हादिकूटत्रयोपास्या कादिकूटत्रयार्चिता ।
मृद्वीकमधुपानाद्युद्बोधधूर्णितलोचना ॥ १२५ ॥

अव्यक्तभाषणा चेटीदत्तवीटीग्रहालसा ।
गायन्ती विलसन्ती च लिखन्ती प्रियलेखना ॥ १२६ ॥

उल्लसन्ती लसन्ती च दोलान्दोलनतुष्टिभाक् ।
विपञ्चीवादनरता सप्तस्वरविभेदवित् ॥ १२७ ॥

गन्धर्वीकिन्नरीविद्याधरीयक्षसुरीनुता ।
अमरीकबरीभृङ्गीस्थगिताङ्घ्रिसरोरुहा ॥ १२८ ॥

गन्धर्वगानश्रवणानन्दान्दोलितमस्तका ।
तिलोत्तमोर्वशीरम्भानृत्यदर्शनजातमुत् ॥ १२९ ॥

अचिन्त्यमहिमाऽचिन्त्यगरिमाऽचिन्त्यलाधवा ।
अचिन्त्यविभवाऽचिन्त्यविक्रमाऽचिन्त्यसद्गुणा ॥ १३० ॥

स्तुतिः स्तव्या नतिर्नम्या गतिर्गम्या महासती ।
अनसूयाऽरुन्धती च लोपामुद्राऽदितिर्दितिः ॥ १३१ ॥

सप्तसंस्थास्वरूपा चारणिः स्रुग्वेदिका ध्रुवा ।
इडा प्रणीता पात्री च स्वधास्वाहाऽऽहुतिर्वपा ॥ १३२ ॥

कव्यरूपा हव्यरूपा यज्ञपात्रस्वरूपिणी ।
शङ्कराहोपुरुषिका गायत्रीगर्भवल्लभा ॥ १३३ ॥

चतुर्विंशत्यक्षरात्मपरोरजसिसावदोम् ।
वेदप्रसूर्वेदगर्भा विश्वामित्रर्षिपूजिता ॥ १३४ ॥

ऋग्यजुः सामत्रिपदा महासवितृदेवता ।
द्विजत्वसिद्धिदात्री च साङ्ख्यायनसगोत्रिका ॥ १३५ ॥

गातृदुर्गतिसंहर्त्री च गातृस्वर्गापवर्गदा ।
भृगुवल्ली ब्रह्मवल्ली कठवल्ली परात्परा ॥ १३६ ॥

कैवल्पोपनिषद्ब्रह्मोपनिषन्मुण्डकोपनिषत् ।
छान्दोग्योपनिषच्चैव सर्वोपनिषदात्मिका ॥ १३७ ॥

तत्त्वमादिमहावाक्यरूपाखण्डार्थबोधकृत् ।
उपक्रमादिषड्लिङ्गमहातात्पर्यबोधिनी ॥ १३८ ॥

जहत्स्वार्थाजहत्स्वार्थभागत्यागाख्यलक्षणा ।
असत्ख्यातिश्च सत्ख्यातिर्मिथ्याख्यातिः प्रभाऽप्रभा ॥ १३९ ॥

अस्तिभातिप्रियात्मा च नामरूपस्वरूपिणी ।
षण्मतस्थापनाचार्यमहादेवकुटुम्बिनी ॥ १४० ॥

भ्रान्तिर्भान्तिहरी भ्रान्तिदायिनी भ्रान्तिकारिणी ।
विकृतिर्निकृतिश्चापि कृतिश्चोपकृतिस्तथा ॥ १४१ ॥

सकृतिः सत्कृतिः पापकृतिः सुकृतिरुत्कृतिः ।
आकृतिर्व्याकृतिः प्रायश्चित्तिर्वित्तिः स्थितिर्गतिः ॥ १४२ ॥

नवकुण्डी पञ्चकुण्डी चतुष्कुण्ड्येककुण्डिका ।
देवसेनादैत्यसेनारक्षः सेनादिभेदभाक् ॥ १४३ ॥

महिषास्योद्गतोद्दण्डदैत्यवेतण्डरुण्डहृत् ।
दैत्यसेनातृणारण्यज्वाला ज्योतिःस्वरूपिणी ॥ १४४ ॥

चण्डमुण्ड महादैत्यरुण्डडकन्दुकखेलकृत् ।
पशुदेहासृक्पललतृप्ता दक्षिणकालिका ॥ १४५ ॥

तदञ्चत्प्रेततद्रुण्डमाला व्यालविभूषणा ।
हलदंष्ट्रा शङ्कुरदा पीतानेकसुराघटा ॥ १४६ ॥

नेत्रभ्रमिपराभूतरथचक्रद्वयभ्रमिः ।
व्यायामाग्राह्यवक्षोजन्यक्कृतेभेन्द्रकुम्भिका ॥ १४७ ॥

मातृमण्डलमध्यस्था मातृमण्डलपूजिता ।
घण्टाघणघणध्वानप्रीता प्रेतासनस्थिता ॥ १४८ ॥

महालसा च मार्तण्डभैरवप्राणवल्लभा ।
राजविद्या राजसती राजस्त्री राजसुन्दरी ॥ १४९ ॥

गजराजादिरलकापुरीस्था यक्षदेवता ।
मत्स्यमूर्तिः कूर्ममूर्तिः स्वीकृतक्रोडविग्रहा ॥ १५० ॥

नृसिंहमूर्तिर्रत्युग्रा धृतवामनविग्रहा ।
श्रीजामदग्न्यमूर्तिश्च श्रीराममूर्तिर्हतास्रपा ॥ १५१ ॥

कृष्णमूर्तिर्बुद्धमूर्तिः कल्किमूर्तिरमूर्तिका ।
विराण्मूर्तिर्जगन्मूर्तिर्जगज्जन्मादिकारिणी ॥ १५२ ॥

आधाराधेयसम्बन्धहीना तदुभयात्मिका ।
निर्गुणा निष्क्रियाऽसङ्गा धर्माधर्मविवर्जिता ॥ १५३ ॥

मायासम्बन्धरहितासच्चिदानन्दविग्रहा ।
जगत्तरङ्गजलधिरूपा चीत्कृतिभेदभाक् ॥ १५४ ॥

महातत्त्वात्मिका वैकाराहङ्कारस्वरूपिणी ।
रजोहङ्काररूपा च तमोहङ्काररूपिणी ॥ १५५ ॥

आकाशरूपिणी वायुरूपिण्यग्निस्वरूपिणी ।
अम्बात्मिका भूस्वरूपा पञ्चज्ञानेन्द्रियात्मिका ॥ १५६ ॥

कर्मेन्द्रियात्मिका प्राणापानव्यानादिरूपिणी ।
नागकूर्मादिरूपा च सर्वनाडीविहारिणी ॥ १५७ ॥

आधारचक्राधिष्ठात्री स्वाधिष्ठानप्रतिष्ठिता ।
मणिपूरकसंस्थानाऽनाहताब्जाधिदेवता ॥ १५८ ॥

विशुद्धचक्रपीठस्थाऽऽज्ञाचक्रपरमेश्वरी ।
द्विपत्री षोडशदली तथा द्वादशपत्रिका ॥ १५९ ॥

प्रदलद्दशपत्री च षड्दली च चतुर्दली ।
वासान्तमातृका बादिलान्तवर्णाधिदेवता ॥ १६० ॥

डादिफान्ताक्षरवती कादिठान्ताक्षरेश्वरी ।
षोडशस्वरबीजेशी स्पर्शोष्मान्तःस्थदेवता ॥ १६१ ॥

हक्षाक्षरद्वयीरूपा पञ्चाशन्मातृकेश्वरी ।
सहस्राराब्जपीठस्था शिवशक्तिर्विमुक्तिदा ॥ १६२ ॥

पञ्चाम्नायशिवप्रोक्ता मन्त्रबीजाधिदेवता ।
सौःक्लींह्रींबीजफलदा महाप्लक्षसरस्वती ॥ १६३ ॥

नवार्णवा सप्तशती मालामन्त्रस्वरूपिणी ।
अर्गलेशी कीलकेशी कवचेशी त्रिमूर्तिका ॥ १६४ ॥

सकारादिहकारान्तमहमन्त्राधिदेवता ।
सकृत्सप्तशतीपाठप्रीता प्रोक्तफलप्रदा ॥ १६५ ॥

कुमारीपूजनोद्यन्मुच्चिरण्टीपूजनोत्सुका ।
विप्रपूजनसन्तुष्टा नित्यश्रीर्नित्यमङ्गला ॥ १६६ ॥

जयदादिमचारित्रा श्रीद मध्यचरित्रिका ।
विद्यादोत्तमचारित्रा कामितार्थप्रदायिका ॥ १६७ ॥

इष्टकृष्णाष्टमी चेष्टनवमी भूतपूर्णिमा ।
इष्टशुक्रारदिवसा धूतदीपद्वयोत्सुका ॥ १६८ ॥

नवरात्रोत्सवासक्ता पूजाहोमबलिप्रिया ।
इष्टेक्षुकूष्माण्डफलाहूतिरिष्टफलाहुतिः ॥ १६९ ॥

प्रतिमासूत्कृष्टपुण्या च महायन्त्रार्चनाविधिः ।
कात्यायनी कामदोग्ध्री खेचरी खड्गचर्मधृक् ॥ १७० ॥

गजास्यमाता घटिका चण्डिका चक्रधारिणी ।
छाया छविमयी छन्ना जरामृत्युविवर्जिता ॥ १७१ ॥

झल्लीझङ्कारमुदिता झञ्झावातझणत्कृतिः ।
टङ्कहस्ता टणच्चापठद्वयी पल्लवोन्मनुः ॥ १७२ ॥

डमरुध्वानमुदिता डाकिनीशाकिनीश्वरी ।
ढुण्ढिराजस्य जननी ढकावाद्यविलासिनी ॥ १७३ ॥

तरिका तारिका तारा तन्वङ्गी तनुमध्यमा ।
धूपीकृतासुरा दीर्घवेणी दृप्ता सुरार्तिहृत् ॥ १७४ ॥

धूम्रवर्णा धूम्रकेशी धूम्राक्षप्राणहारिणी ।
नगेशतनया नारी मतल्ली पट्टिहेतिका ॥ १७५ ॥

पाताललोकाधिष्ठात्री फेरूकृतमहासुरा ।
फणीन्द्रशयना बोधदायिनी बहुरूपिणी ॥ १७६ ॥

भामिनी भासिनी भ्रान्तिकरी भ्रान्तिविनाशिनी ।
मातङ्गी मदिरामत्ता माधवी माधवप्रिया ॥ १७७ ॥

यायजूकार्चिता योगिध्येया योगीशवल्लभा ।
राकाचन्द्रमुखी रामा रेणुका रेणुकात्मजा ॥ १७८ ॥

लोकाक्षी लोहिता लज्जा वामाक्षी वास्तुशान्तिदा ।
शातोदरी शाश्वतिका शातकुम्भविभूषणा ॥ १७९ ॥

षडास्यमाता षट्चक्रवासिनी सर्वमङ्गला ।
स्मेरानना सुप्रसन्ना हरवामाङ्कसंस्थिता ॥ १८० ॥

हारिवन्दितपादाब्जा ह्रींबीजभुवनेश्वरी ।
क्षौमाम्बरेन्दुगोक्षीरधवला वनशङ्करी ॥ १८१ ॥

( ॥ षडङ्गन्यासध्यान मानसोपचार पूजनम् ॥)

अथ फलश्रुतिः ।
इतीदं वनशङ्कर्याः प्रोक्तं नामसहस्रकम् ।
शान्तिदं पुष्टिदं पुण्यं महाविपत्तिनाशनम् ॥ १ ॥

दारिद्र्यदुःखशमनं नानारोगनिवारणम् ।
इदं स्तोत्रं पठेद्भक्त्या यस्त्रिसन्ध्यं नरः शुचिः ॥ २ ॥

नारी वा नियता भक्त्या सर्वान्कामानवाप्नुयात् ।
अस्य स्तोत्रस्य सततं यत्र पाठः प्रवर्तते ॥ ३ ॥

तस्मिन्नगृहे महालक्ष्मीः स्वभर्त्रा सह मोदते ।
नानेन सदृशं स्तोत्रं भुक्तिमुक्तिप्रदायकम् ॥ ४ ॥

विद्यतेऽन्यसत्यमेतत् शक्र वच्मि पुनः पुनः ।
बकवन्ध्या काकवन्ध्या नारीस्तोत्रमिदं पठेत् ॥ ५ ॥

वषेणैकेन सा पुत्रं लभेन्नात्रास्ति संशयः ।
सामान्यकार्यसिद्धिस्तु शतावर्तनतो भवेत् ॥ ६ ॥

महाकार्यस्य सिद्धिस्तु सहस्रावर्तनाद्ध्रुवम् ।
न तत्र पीडा जायेत भूतप्रेतग्रहोद्भवा ॥ ७ ॥

लोकवश्यं राजवश्यं स्तोत्रस्य पठनाद्भवेत् ।
शत्रवः संक्षयं यान्ति दस्यवः पिशुनास्तथा ॥ ८ ॥

नैव शाकम्भरीभक्ताः सीदन्ति बलसूदन ।
शाकम्भरी स्वभक्तानामवित्री जननी यथा ॥ ९ ॥

यद्यत्कार्यं समुद्दिश्य ध्यायन् शाकम्भरीं हृदि ।
स्तोत्रमेतत्पठेत्तस्य तत्कार्यं च प्रसिद्ध्यति ॥ १० ॥

मुच्यते बन्धनाद्बद्धो रोगी मुच्येत रोगतः ।
ऋणवानृणतो मुच्येन्नात्र कार्या विचारणा ॥ ११ ॥

पौषे मासि सिते पक्षे प्रारभ्य तिथिमष्टमीम् ।
देव्याः आराधनं कुर्यादन्वहं पूर्णिमावधि ॥ १२ ॥

सशाकैरुत्तमान्नैश्च ब्राह्मणांश्च सुवासिनीः ।
सन्तर्पयेद्यथाशक्ति देवीं सम्पूज्य भक्तितः ॥ १३ ॥

वित्तशाठ्यं न कुर्वीत शाकम्भर्याः समर्चने ।
तस्मै प्रसन्ना भक्ताय दद्यात्कामानभीप्सितान् ॥ १४ ॥

विद्यार्थी प्राप्नुयाद्विद्यां धनार्थी चाप्नुयाद्धनम् ।
दारार्थी प्राप्नुयाद्दारानपत्यार्थी तदाप्नुयात् ॥ १५ ॥

आप्नुयान्मन्दबुद्धिस्तु ग्रन्थधारणपाटवम् ।
अस्य स्तोत्रस्य पाठेन प्राप्नुयाद्यद्यदीप्सितम् ॥ १६ ॥

अयुतावर्तनादस्य स्तोत्रस्य बलसूदन ।
पश्येच्छाकम्भरीं साक्षात्तद्भक्तो नात्र संशयः ॥ १७ ॥

होमं च कुर्याद्विधिवत्पायसेन ससर्पिषा ।
सौभाग्यद्रव्ययुक्तेन सेक्षुकूष्माण्डकेन च ॥ १८ ॥

सुवासिनीः कुमारीश्च ब्राह्मणांश्च दिने दिने ।
सम्भोजयेत्सदन्नेन ससितामधुसर्पिषा ॥ १९ ॥

दद्यात्तेभ्यश्च ताभ्यश्च वस्त्रालङ्कारदक्षिणाः ।
तस्मै शाकम्भरी दद्यात्पुरुषार्थचतुष्टयम् ॥ २० ॥

आचन्द्रार्कं तस्य वशः स्थास्यत्यत्र गुणी सुखी ।
शाकम्भर्यै नम इति यस्तु मन्त्रं षडक्षरम् ॥ २१ ॥

भक्त्या जपेन्नरस्तस्य सर्वत्र जयमङ्गलम् ।
शाकम्भर्या इदं शक्र दिव्यं नामसहस्रकम् ॥ २२ ॥

गुरुभक्ताय शान्ताय देयं श्रद्धालवे त्वया ।
त्वमप्याखण्डल सदा पठेदं स्तोत्रमुत्तमम् ॥ २३ ॥

शत्रून् जेष्यसि सङ्ग्रामे सर्वान्कामानवाप्स्यसि ।
इति श्रुत्वा स्कन्दवाक्यं शक्रः सन्तुष्टमानसः ॥ २४ ॥

प्रणम्य गुहमापृष्ट्वा सगणः स्वदिवं ययौ ॥ २५ ॥

सूत उवाच –
दुर्भिक्षे ऋषिपोषिण्याः शाकम्भर्याः प्रकीर्तितम् ।
इदं नामसहस्रं वः किं भूयः श्रोतुमिच्छथ ॥ २६ ॥

॥ इति श्रीस्कन्दपुराणे शाकम्भरी तथा वनशङ्करी सहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Shakambhari Tatha Vanashankari:

1000 Names of Sri Shakambhari Tatha Vanashankari | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shakambhari Tatha Vanashankari | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top