Templesinindiainfo

Best Spiritual Website

1000 Names of Yamuna or Kalindi | Sahasranama Stotram Lyrics in Hindi

Yamuna or Kalindi Sahasranamastotram Lyrics in Hindi:

॥ श्री यमुना अपरनाम कालिन्दीसहस्रनामस्तोत्रम् ॥
गर्गसंहितातः

मान्धातोवाच
नाम्नां सहस्रं कृष्णायाः सर्वसिद्धिकरं परम् ।
वद मां मुनिशार्दूल त्वं सर्वज्ञो निरामयः ॥ १ ॥

सौभरिरुवाच
नाम्नां सहस्रं कालिन्द्या मान्धातस्ते वदाम्यहम् ।
सर्वसिद्धिकरं दिव्यं श्रीकृष्णवशकारकम् ॥ २ ॥

विनियोगः ॥

अस्य श्रीकालिन्दीसहस्रनामस्तोत्रमन्त्रस्य सौभरिरृषिः ।
श्रीयमुना देवता । अनुष्टुप् छन्दः । मायाबीजमिति कीलकम् ।
रमाबीजमिति शक्तिः । श्री कालिन्दनन्दिनीप्रसादसिद्ध्यर्थे पाठे
विनियोगः ।

अथ ध्यानम् ॥

ॐ श्यामामम्भोजनेत्रां सघनघनरुचिं रत्नमञ्जीरकूजत्
काञ्चीकेयूरयुक्तां कनकमणिमये बिभ्रतीं कुण्डले द्वे ।
भाजच्छीनीलवस्त्रां स्फुरदमलचलद्धारभारां मनोज्ञां
ध्यायेन्मार्तण्डपुत्रीं तनुकिरणचयोद्दीप्तदीपाभिरामाम् ॥ ३ ॥

ॐ कालिन्दी यमुना कृष्णा कृष्णरूपा सनातनी ।
कृष्णवामांससम्भूता परमानन्दरूपिणी ॥ ४ ॥

गोलोकवासिनी श्यामा वृन्दावनविनोदिनी ।
राधासखी रासलीला रासमण्डलमण्डिता ॥ ५ ॥

निकुञ्जमाधवीवल्ली रङ्गवल्लीमनोहरा ।
श्रीरासमण्डलीभूता यूथीभूता हरिप्रिया ॥ ६ ॥

गोलोकतटिनी दिव्या निकुञ्जतलवासिनी ।
दीर्घोर्मिवेगगम्भीरा पुष्पपल्लववासिनी ॥ ७ ॥

घनश्यामा मेघमाला बलाका पद्ममालिनी ।
परिपूर्णतमा पूर्णा पूर्णब्रह्मप्रिया परा ॥ ८ ॥

महावेगवती साक्षान्निकुञ्जद्वारनिर्गता ।
महानदी मन्दगतिर्विरजा वेगभेदिनी ॥ ९ ॥

अनेकब्रह्माण्डगता ब्रह्मद्रवसमाकुला ।
गङ्गा मिश्रा निर्जलाभा निर्मला सरितां वरा ॥ १० ॥

रत्नबद्धोभयतटा हंसपद्मादिसङ्कुला । var तटी
नदी निर्मलपानीया सर्वब्रह्माण्डपावनी ॥ ११ ॥

वैकुण्ठपरिखीभूता परिखा पापहारिणी ।
ब्रह्मलोकागता ब्राह्मी स्वर्गा स्वर्गनिवासिनी ॥ १२ ॥

उल्लसन्ती प्रोत्पतन्ती मेरुमाला महोज्ज्वला ।
श्रीगङ्गाम्भः शिखरिणी गण्डशैलविभेदिनी ॥ १३ ॥

देशान्पुनन्ती गच्छन्ती महती भूमिमध्यगा ।
मार्तण्डतनुजा पुण्या कलिन्दगिरिनन्दिनी ॥ १४ ॥

यमस्वसा मन्दहासा सुद्विजा रचिताम्बरा ।
नीलाम्बरा पद्ममुखी चरन्ती चारुदर्शना ॥ १५ ॥

रम्भोरूः पद्मनयना माधवी प्रमदोत्तमा ।
तपश्चरन्ती सुश्रोणी कूजन्नूपुरमेखला ॥ १६ ॥

जलस्थिता श्यामलाङ्गी खाण्डवाभा विहारिणी ।
गाण्डीविभाषिणी वन्या श्रीकृष्णाम्बरमिच्छती ॥ १७ ॥

द्वारकागमना राज्ञी पट्टराज्ञी परङ्गता ।
महाराज्ञी रत्नभूषा गोमतीतीरचारिणी ॥ १८ ॥

स्वकीया स्वसुखा स्वार्था स्वीयकार्यार्थसाधिनी ।
नवलाङ्गाऽबला मुग्धा वराङ्गा वामलोचना ॥ १९ ॥

अज्ञातयौवनाऽदीना प्रभा कान्तिर्द्युतिश्छविः ।
सोमाभा परमा कीर्तिः कुशला ज्ञातयौवना ॥ २० ॥

नवोढा मध्यगा मध्या प्रौढिः प्रौढा प्रगल्भका ।
धीराऽधीरा धैर्यधरा ज्येष्ठा श्रेष्ठा कुलाङ्गना ॥ २१ ॥

क्षणप्रभा चञ्चलार्चा विद्युत्सौदामिनी तडित् ।
स्वाधीनपतिका लक्ष्मीः पुष्टा स्वाधीनभर्तृका ॥ २२ ॥

कलहान्तरिता भीरुरिच्छा प्रोत्कण्ठिताऽऽकुला ।
कशिपुस्था दिव्यशय्या गोविन्दहृतमानसा ॥ २३ ॥

खण्डिताऽखण्डशोभाढ्या विप्रलब्धाऽभिसारिका ।
विरहार्ता विरहिणी नारी प्रोषितभर्तृका ॥ २४ ॥

मानिनी मानदा प्राज्ञा मन्दारवनवासिनी ।
झङ्कारिणी झणत्कारी रणन्मञ्जीरनूपुरा ॥ २५ ॥

मेखला मेखलाकाञ्ची श्रीकाञ्ची काञ्चनामयी ।
कञ्चुकी कञ्चुकमणिः श्रीकण्ठाढ्या महामणिः ॥ २६ ॥

श्रीहारिणी पद्महारा मुक्ता मुक्ताफलार्चिता ।
रत्नकङ्कणकेयूरा स्फरदङ्गुलिभूषणा ॥ २७ ॥

दर्पणा दर्पणीभूता दुष्टदर्पविनाशिनी ।
कम्बुग्रीवा कम्बुधरा ग्रैवेयकविराजिता ॥ २८ ॥

ताटङ्किनी दन्तधरा हेमकुण्डलमण्डिता ।
शिखाभूषा भालपुष्पा नासामौक्तिकशोभिता ॥ २९ ॥

मणिभूमिगता देवी रैवताद्रिविहारिणी ।
वृन्दावनगता वृन्दा वृन्दारण्यनिवासिनी ॥ ३० ॥

वृन्दावनलता माध्वी वृन्दारण्यविभूषणा ।
सौन्दर्यलहरी लक्ष्मीर्मथुरातीर्थवासिनी ॥ ३१ ॥

विश्रान्तवासिनी काम्या रम्या गोकुलवासिनी ।
रमणस्थलशोभाढ्या महावनमहानदी ॥ ३२ ॥

प्रणता प्रोन्नता पुष्टा भारती भारतार्चिता ।
तीर्थराजगतिर्गोत्रा गङ्गासागरसङ्गमा ॥ ३३ ॥

सप्ताब्धिभेदिनी लोला सप्तद्वीपगता बलात् ।
लुठन्ती शैलभिद्यन्ती स्फुरन्ती वेगवत्तरा ॥ ३४ ॥

काञ्चनी काञ्चनीभूमिः काञ्चनीभूमिभाविता ।
लोकदृष्टिर्लोकलीला लोकालोकाचलार्चिता ॥ ३५ ॥

शैलोद्गता स्वर्गगता स्वर्गार्च्या स्वर्गपूजिता ।
वृन्दावनवनाध्यक्षा रक्षा कक्षा तटी पटी ॥ ३६ ॥

असिकुण्डगता कच्छा स्वच्छन्दोच्छलिताद्रिजा ।
कुहरस्था रयप्रस्था प्रस्था शान्तेतरातुरा ॥ ३७ ॥

अम्बुच्छटा सीकराभा दर्दुरा दर्दुरीधरा ।
पापाङ्कुशा पापसिंही पापद्रुमकुठारिणी ॥ ३८ ॥

पुण्यसङ्घा पुण्यकीर्तिः पुण्यदा पुण्यवर्धिनी ।
मधोर्वननदीमुख्या तुला तालवनस्थिता ॥ ३९ ॥

कुमुद्वननदी कुब्जा कुमुदाम्भोजवर्धिनी ।
प्लवरूपा वेगवती सिंहसर्पादिवाहिनी ॥ ४० ॥

बहुली बहुदा बह्वी बहुला वनवन्दिता ।
राधाकुण्डकलाराध्या कृष्णाकुण्डजलाश्रिता ॥ ४१ ॥

ललिताकुण्डगा घण्टा विशाखाकुण्डमण्डिता ।
गोविन्दकुण्डनिलया गोपकुण्डतरङ्गिणी ॥ ४२ ॥

श्रीगङ्गा मानसीगङ्गा कुसुमाम्बर भाविनी ।
गोवर्धिनी गोधनाढ्या मयूरी वरवर्णिनी ॥ ४३ ॥

सारसी नीलकण्ठाभा कूजत्कोकिलपोतकी ।
गिरिराजप्रभूर्भूरिरातपत्रातपत्रिणी ॥ ४४ ॥

गोवर्धनाङ्का गोदन्ती दिव्यौषधिनिधिः श्रुतिः । var श‍ृतिः
पारदी पारदमयी नारदी शारदी भृतिः ॥ ४५ ॥

श्रीकृष्णचरणाङ्कस्था कामा कामवनाञ्चिता ।
कामाटवी नन्दिनी च नन्दग्राममहीधरा ॥ ४६ ॥

बृहत्सानुद्युतिः प्रोता नन्दीश्वरसमन्विता ।
काकली कोकिलमयी भाण्डारकुशकौशला ॥ ४७ ॥

लोहार्गलप्रदाकारा काश्मीरवसनावृता ।
बर्हिषदी शोणपुरी शूरक्षेत्रपुराधिका ॥ ४८ ॥

नानाभरणशोभाढ्या नानावर्णसमन्विता ।
नानानारीकदम्बाढ्या नानावस्त्रविराजिता ॥ ४९ ॥

नानालोकगता वीचिर्नानाजलसमन्विता ।
स्त्रीरत्नं रत्ननिलया ललनारत्नरञ्जिनी ॥ ५० ॥

रङ्गिणी रङ्गभूमाढ्या रङ्गा रङ्गमहीरुहा ।
राजविद्या राजगुह्या जगत्कीर्तिर्घनापहा ॥ ५१ ॥

विलोलघण्टा कृष्णाङ्गी कृष्णदेहसमुद्भवा ।
नीलपङ्कजवर्णाभा नीलपङ्कजहारिणी ॥ ५२ ॥

नीलाभा नीलपद्माढ्या नीलाम्भोरुहवासिनी ।
नागवल्ली नागपुरी नागवल्लीदलार्चिता ॥ ५३ ॥

ताम्बूलचर्चिता चर्चा मकरन्दमनोहरा ।
सकेसरा केसरिणी केशपाशाभिशोभिता ॥ ५४ ॥

कज्जलाभा कज्जलाक्ता कज्जलीकलिताञ्जना ।
अलक्तचरणा ताम्रा लालाताम्रकृताम्बरा ॥ ५५ ॥

सिन्दूरिता लिप्तवाणी सुश्रीः श्रीखण्डमण्डिता ।
पाटीरपङ्कवसना जटामांसीरुचाम्बरा ॥ ५६ ॥

आगर्य्यगरुगन्धाक्ता तगराश्रितमारुता ।
सुगन्धितैलरुचिरा कुन्तलालिः सुकुन्तला ॥ ५७ ॥

शकुन्तलाऽपांसुला च पातिव्रत्यपरायणा ।
सूर्यकोटिप्रभा सूर्यकन्या सूर्यसमुद्भवा ॥ ५८ ॥

कोटिसूर्यप्रतीकाशा सूर्यजा सूर्यनन्दिनी ।
संज्ञा संज्ञासुता स्वेच्छा संज्ञामोदप्रदायिनी ॥ ५९ ॥

संज्ञापुत्री स्फुरच्छाया तपन्ती तापकारिणी ।
सावर्ण्यानुभवा वेदी वडवा सौख्यप्रदायिनी ॥ ६० ॥

शनैश्चरानुजा कीला चन्द्रवंशविवर्धिनी ।
चन्द्रवंशवधूश्चन्द्रा चन्द्रावलिसहायिनी ॥ ६१ ॥

चन्द्रावती चन्द्रलेखा चन्द्रकान्तानुगांशुका ।
भैरवी पिङ्गलाशङ्की लीलावत्यागरीमयी ॥ ६२ ॥

धनश्रीर्देवगान्धारी स्वर्मणिर्गुणवर्धिनी ।
व्रजमल्लार्यन्धकरी विचित्रा जयकारिणी ॥ ६३ ॥ var व्रज
गान्धारी मञ्जरी टोढी गुर्जर्यासावरी जया ।
कर्णाटी रागिणी गौडी वैराटी गारवाटिका ॥ ६४ ॥

चतुश्चन्द्रकला हेरी तैलङ्गी विजयावती ।
ताली तालस्वरा गानक्रिया मात्राप्रकाशिनी ॥ ६५ ॥

वैशाखी चञ्चला चारुर्माचारी घुङ्घटी घटा ।
वैरागरी सोरठी सा कैदारी जलधारिका ॥ ६६ ॥

कामाकरश्रीकल्याणी गौडकल्याणमिश्रिता ।
रामसञ्जीवनी हेला मन्दारी कामरूपिणी ॥ ६७ ॥

सारङ्गी मारुती होढा सागरी कामवादिनी ।
वैभासी मङ्गला चान्द्री रासमण्डलमण्डना ॥ ६८ ॥ var वैभासा
कामधेनुः कामलता कामदा कमनीयका ।
कल्पवृक्षस्थली स्थूला क्षुधा सौधनिवासिनी ॥ ६९ ॥

गोलोकवासिनी सुभ्रूर्यष्टिभृद्द्वारपालिका ।
श‍ृङ्गारप्रकरा श‍ृङ्गा स्वच्छाक्षय्योपकारिका ॥ ७० ॥

पार्षदा सुमुखी सेव्या श्रीवृन्दावनपालिका ।
निकुञ्जभृत्कुञ्जपुञ्जा गुञ्जाभरणभूषिता ॥ ७१ ॥

निकुञ्जवासिनी प्रेष्या गोवर्धनतटीभवा ।
विशाखा ललिता रामा नीरजा मधुमाधवी ॥ ७२ ॥ var नीरुजा
एकानेकसखी शुक्ला सखीमध्या महामनाः ।
श्रुतिरूपा ऋषिरूपा मैथिलाः कौशलाः स्त्रियः ॥ ७ ॥

अयोध्यापुरवासिन्यो यज्ञसीताः पुलिन्दकाः ।
रमा वैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ॥ ७४ ॥

ऊर्ध्ववैकुण्ठवासिन्यो दिव्याजितपदाश्रिताः ।
श्रीलोकाचलवासिन्यः श्रीसख्यः सागरोद्भवाः ॥ ७५ ॥

दिव्या अदिव्या दिव्याङ्गा व्याप्तास्त्रिगुणवृत्तयः ।
भूमिगोप्यो देवनार्यो लता ओषधिवीरुधः ॥ ७६ ॥

जालन्धर्यः सिन्धुसुताः पृथुबर्हिष्मतीभवाः ।
दिव्याम्बरा अप्सरसः सौतला नागकन्यकाः ॥ ७७ ॥

परं धाम परं ब्रह्म पौरुषा प्रकृतिः परा ।
तटस्था गुणभूर्गीता गुणागुणमयी गुणा ॥ ७८ ॥

चिद्घना सदसन्माला दृष्टिर्दृश्या गुणाकरा ।
महत्तत्त्वमहङ्कारो मनो बुद्धिः प्रचेतना ॥ ७९ ॥

चेतोवृत्तिः स्वान्तरात्मा चतुर्धा चतुरक्षरा ।
चतुर्व्यूहा चतुर्मूर्तिर्व्योम वायुरदो जलम् ॥ ८० ॥

मही शब्दो रसो गन्धः स्पर्शो रूपमनेकधा ।
कर्मेन्द्रियं कर्ममयी ज्ञानं ज्ञानेन्द्रियं द्विधा ॥ ८१ ॥

त्रिधाधिभूतमध्यात्ममधिदैवमधिस्थितम् ।
ज्ञानशक्तिः क्रियाशक्तिः सर्वदेवाधिदेवता ॥ ८२ ॥

तत्त्वसङ्घा विराण्मूर्तिर्धारणा धारणामयी ।
श्रुतिः स्मृतिर्वेदमूर्तिः संहिता गर्गसंहिता ॥ ८३ ॥

पाराशरी सैव सृष्टिः पारहंसी विधातृका ।
याज्ञवल्की भागवती श्रीमद्भागवतार्चिता ॥ ८४ ॥

रामायणमयी रम्या पुराणपुरुषप्रिया ।
पुराणमूर्तिः पुण्याङ्गी शास्त्रमूर्तिर्महोन्नता ॥ ८५ ॥

मनीषा धिषणा बुद्धिर्वाणी धीः शेमुषी मतिः ।
गायत्री वेदसावित्री ब्रह्माणी ब्रह्मलक्षणा ॥ ८६ ॥

दुर्गाऽपर्णा सती सत्या पार्वती चण्डिकाम्बिका ।
आर्या दाक्षायणी दाक्षी दक्षयज्ञविघातिनी ॥ ८७ ॥

पुलोमजा शचीन्द्राणी वेदी देववरार्पिता ।
वयुनाधारिणी धन्या वायवी वायुवेगगा ॥ ८८ ॥

यमानुजा संयमनी संज्ञा छाया स्फुरद्द्युतिः ।
रत्नदेवी रत्नवृन्दा तारा तरणिमण्डला ॥ ८९ ॥

रुचिः शान्तिः क्षमा शोभा दया दक्षा द्युतिस्त्रपा ।
तलतुष्टिर्विभा पुष्टिः सन्तुष्टिः पुष्टभावना ॥ ९० ॥

चतुर्भुजा चारुनेत्रा द्विभुजाष्टभुजा बला ।
शङ्खहस्ता पद्महस्ता चक्रहस्ता गदाधरा ॥ ९१ ॥

निषङ्गधारिणी चर्मखड्गपाणिर्धनुर्धरा ।
धनुष्टङ्कारिणी योद्ध्री दैत्योद्भटविनाशिनी ॥ ९२ ॥

रथस्था गरुडारूढा श्रीकृष्णहृदयस्थिता ।
वंशीधरा कृष्णवेषा स्रग्विणी वनमालिनी ॥ ९३ ॥

किरीटधारिणी याना मन्दा मन्दगतिर्गतिः ।
चन्द्रकोटिप्रतीकाशा तन्वी कोमलविग्रहा ॥ ९४ ॥

भैष्मी भीष्मसुता भीमा रुक्मिणी रुक्मरूपिणी ।
सत्यभामा जाम्बवती सत्या भद्रा सुदक्षिणा ॥ ९५ ॥

मित्रविन्दा सखीवृन्दा वृन्दारण्यध्वजोर्ध्वगा ।
श‍ृङ्गारकारिणी श‍ृङ्गा श‍ृङ्गभूः श‍ृङ्गदाऽऽशुगा ॥ ९६ ॥

तितिक्षेक्षा स्मृतिः स्पर्धा स्पृहा श्रद्धा स्वनिर्वृतिः ।
ईशा तृष्णाभिधा प्रीतिर्हिता याञ्चा क्लमा कृषिः ॥ ९७ ॥

आशा निद्रा योगनिद्रा योगिनी योगदा युगा ।
निष्ठा प्रतिष्ठा समितिः सत्त्वप्रकृतिरुत्तमा ॥ ९८ ॥

तमःप्रकृतिर्दुर्मर्षा रजःप्रकृतिरानतिः ।
क्रियाऽक्रियाकृतिर्ग्लानिः सात्त्विक्याध्यात्मिकी वृषा ॥ ९९ ॥

सेवा शिखामणिर्वृद्धिराहूतिः सुमतिर्द्युभूः ।
राज्जुर्द्विदाम्नी षड्वर्गा संहिता सौख्यदायिनी ॥ १०० ॥

मुक्तिः प्रोक्तिर्देशभाषा प्रकृतिः पिङ्गलोद्भवा ।
नागभावा नागभूषा नागरी नगरी नगा ॥ १०१ ॥

नौर्नौका भवनौर्भाव्या भवसागरसेतुका ।
मनोमयी दारुमयी सैकती सिकतामयी ॥ १०२ ॥

लेख्या लेप्या मणिमयी प्रतिमा हेमनिर्मिता ।
शैला शैलभवा शीला शीलारामा चलाऽचला ॥ १०३ ॥ var शीकराभा
अस्थिता स्वस्थिता तूली वैदिकी तान्त्रिकी विधिः ।
सन्ध्या सन्ध्याभ्रवसना वेदसन्धिः सुधामयी ॥ १०४ ॥

सायन्तनी शिखावेद्या सूक्ष्मा जीवकला कृतिः ।
आत्मभूता भाविताऽण्वी प्रह्वा कमलकर्णिका ॥ १०५ ॥

नीराजनी महाविद्या कन्दली कार्यसाधिनी ।
पूजा प्रतिष्ठा विपुला पुनन्ती पारलौकिकी ॥ १०६ ॥

शुक्लशुक्तिर्मौक्तिका च प्रतीतिः परमेश्वरी ।
विराजोष्णिग्विराड्वेणी वेणुका वेणुनादिनी ॥ १०७ ॥

आवर्तिनी वार्तिकदा वार्त्ता वृत्तिर्विमानगा ।
सासाढ्यरासिनी सासी रासमण्डलमण्डली ॥ १०८ ॥

गोपगोपीश्वरी गोपी गोपीगोपालवन्दिता ।
गोचारिणी गोपनदी गोपानन्दप्रदायिनी ॥ १०९ ॥

पशव्यदा गोपसेव्या कोटिशो गोगणावृता ।
गोपानुगा गोपवती गोविन्दपदपादुका ॥ ११० ॥

वृषभानुसुता राधा श्रीकृष्णवशकारिणी ।
कृष्णप्राणाधिका शश्वद्रसिका रसिकेश्वरी ॥ १११ ॥

अवटोदा ताम्रपर्णी कृतमाला विहायसी ।
कृष्णा वेणी भीमरथी तापी रेवा महापगा ॥ ११२ ॥

वैयासकी च कावेरी तुङ्गभद्रा सरस्वती ।
चन्द्रभागा वेत्रवती गोविन्दपदपादुका ॥ ११३ ॥

गोमती कौशिकी सिन्धुर्बाणगङ्गातिसिद्धिदा ।
गोदावरी रत्नमाला गङ्गा मन्दाकिनी बला ॥ ११४ ॥

स्वर्णदी जाह्नवी वेला वैष्णवी मङ्गलालया ।
बाला विष्णुपदीप्रोक्ता सिन्धुसागरसङ्गता ॥ ११५ ॥

गङ्गासागर शोभाढ्या सामुद्री रत्नदा धुनी ।
भागीरथी स्वर्धुनी भूः श्रीवामनपदच्युता ॥ ११६ ॥

लक्ष्मी रमा रामणीया भार्गवी विष्णुवल्लभा ।
सीतार्चिर्जानकी माता कलङ्करहिता कला ॥ ११७ ॥

कृष्णपादाब्जसम्भूता सर्वा त्रिपथगामिनी ।
धरा विश्वम्भराऽनन्ता भूमिर्धात्री क्षमामयी ॥ ११८ ॥

स्थिरा धरित्री धरणिरुर्वी शेषफणस्थिता ।
अयोध्या राघवपुरी कौशिकी रघुवंशजा ॥ ११९ ॥

मथुरा माथुरी पन्था यादवी ध्रुवपूजिता ।
मयायुर्बिल्वनीला द्वार्गङ्गाद्वारविनिर्गता ॥ १२० ॥

कुशावर्तमयी ध्रौव्या ध्रुवमण्डलमध्यगा । var मण्डलनिर्गता
काशी शिवपुरी शेषा विन्ध्या वाराणसी शिवा ॥ १२१ ॥

अवन्तिका देवपुरी प्रोज्ज्वलोज्जयिनी जिता ।
द्वारावती द्वारकामा कुशभूता कुशस्थली ॥ १२२ ॥

महापुरी सप्तपुरी नन्दिग्रामस्थलस्थिता ।
शास्त्रग्रामशिलादित्या शम्भलग्राममध्यगा ॥ १२३ ॥

वंशा गोपालिनी क्षिप्रा हरिमन्दिरवर्तिनी ।
बर्हिष्मती हस्तिपुरी शक्रप्रस्थनिवासिनी ॥ १२४ ॥

दाडिमी सैन्धवी जम्बुः पौष्करी पुष्करप्रसूः ।
उत्पलावर्तगमना नैमिषी निमिषावृता ॥ १२५ ॥

कुरुजाङ्गलभूः काली हैमावत्यर्बुदा बुधा ।
शूकरक्षेत्रविदिता श्वेतवाराहधारिता ॥ १२६ ॥

सर्वतीर्थमयी तीर्था तीर्थानां कीर्तिकारिणी ।
हारिणी सर्वदोषाणां दायिनी सर्वसम्पदाम् ॥ १२७ ॥

वर्धिनी तेजसां साक्षाद्गर्भवासनिकृन्तनी ।
गोलोकधामधनिनी निकुञ्जनिजमञ्जरी ॥ १२८ ॥

सर्वोत्तमा सर्वपुण्या सर्वसौन्दर्यश‍ृङ्खला ।
सर्वतीर्थोपरिगता सर्वतीर्थाधिदेवता ॥ १२९ ॥

श्रीदा श्रीशा श्रीनिवासा श्रीनिधिः श्रीविभावना ।
स्वक्षा स्वङ्गा शतानन्दा नन्दा ज्योतिर्गणेश्वरी ॥ १३० ॥

पह्लश्रुति
नाम्नां सहस्रं कालिन्द्याः कीर्तिदं कामदं परम् ।
महापापहरं पुण्यमायुर्वर्धनमुत्तमम् ॥ १३१ ॥

एकवारं पठेद्रात्रौ चौरेभ्यो न भयं भवेत् ।
द्विवारं प्रपठेन्मार्गे दस्युभ्यो न भयं क्वचित् ॥ १३२ ॥

द्वितीयां तु समारभ्य पठेत्पूर्णावधिं द्विजः ।
दशवारमिदं भक्त्या ध्यात्वा देवो कलिन्दजाम् ॥ १३३ ॥

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत्पुत्रं विद्यार्थी पण्डितो भवेत् ॥ १३४ ॥

मोहनं स्तम्भनं शश्वद्वशीकरणमेव च ।
उच्चाटनं पातनं च शोषणं दीपनं तथा ॥ १३५ ॥

उन्मादनं तापनं च निधिदर्शनमेव च ।
यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति मानवः ॥ १३६ ॥

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।
वैश्यो निधिपतिर्भूयाच्छूद्रः श्रुत्वा तु निर्मलः ॥ १३७ ॥

पूजाकाले तु यो नित्यं पठते भक्तिभावतः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १३८ ॥

शतवारं पठेन्नित्यं वर्षावधिमतः परम् ।
पटलं पद्धतिं कृत्वा स्तवं च कवचं तथा ॥ १३९ ॥

सप्तद्वीपमहीराज्यं प्राप्नुयान्नात्र संशयः ।
निष्कारणं पठेद्यस्तु यमुनाभक्तिसंयुतः ॥ १४० ॥

त्रैवर्ग्यमेत्य सुकृती जीवन्मुक्तो भवेदिह ॥ १४१ ॥

निकुञ्जलीलाललितं मनोहरं
कलिन्दजाकूललताकदम्बकम् ।
वृन्दावनोन्मत्तमिलिन्दशब्दितं
व्रजेत्स गोलोकमिदं पठेच्च यः ॥ १४२ ॥

॥ इति गर्गसंहितायां श्रीयमुनासहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Yamuna or Kalindi:

1000 Names of Yamuna or Kalindi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Yamuna or Kalindi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top