Templesinindiainfo

Best Spiritual Website

108 Names of Sri Subrahmanya Siddhanama | Ashtottara Shatanamavali Lyrics in Hindi

Subramanya Siddhanama Ashtottarashata Namavali in Hindi:

॥ श्रीसुब्रह्मण्यसिद्धनामाष्टोत्तरशतनामावलिः ॥

ॐ श्रीगणेशाय नमः ।

ॐ ह्रीम् सुब्रह्मण्याय नमः । ज्ञानशक्तये ।
अचिन्त्याय । दहरालयाय । चिच्छिवाय ।
चिद्धनाय । चिदाकारमहीद्वीपमध्यदेशसदालयाय ।
चिदब्धिमथनोत्पन्नचित्सारमणिमण्डलाय ।
चिदानन्दमहासिन्धुमध्यरत्नशिखामणये ।
विज्ञानकोशविलसदानन्दमृतमण्डलाय ।
वाचामगोचरानन्तशुद्धचैतन्यविग्रहाय ।
मूलकन्दस्थचिद्देशमहाताण्डवपण्डिताय ।
षट्कोणमार्गविलसत्परमण्डलमण्डिताय ।
द्वादशारमहापद्मस्थितचिद्व्योमभासुराय ।
त्रिकोणाख्यमहापीठस्थितचिद्बिन्दुनायकाय ।
बिन्दुमण्डलमध्यस्थचिद्विलासप्रकाशकाय ।
षट्कोणमन्दिरोद्भासिमध्यस्तम्भाशिरोमणये ।
प्रथमाक्षरनिर्दिष्टपरमार्थार्थविग्रहाय ।
अकारादिक्षकारान्तमातृकाक्षर सङ्गताय ।
अकाराख्यप्रकाशात्ममहालक्ष्यार्थविग्रहाय नमः ॥ २० ॥

ॐ हकाराख्यविमर्शात्ममहालक्ष्यार्थविग्रहाय नमः ।
ग्रन्थित्रयमहाभेदचतुराय । सद्गुरवे ।
हृदयाम्बुजमध्यस्थविरजव्योमनायकाय । शान्ताद्रिनिलयाय ।
अखण्डाकारकज्ञानलक्षणाय । सजातीयविजातीयस्वगतभेदरहिताय ।
ब्रह्मविद्यास्वरूपहैमवतीतनूजाय । चिदग्निसम्भूताय ।
भूमानन्दपरिपूर्णाचलविराजिताय । महावाक्योपदेष्ट्रे ।
शिवगुरवे । मूलाधारमुखोत्पन्नब्रह्मरन्ध्रचिदालयाय ।
मध्यनाडीमहामार्गस्थितमण्डलमध्यगाय ।
हंसमार्गैकनिरतज्ञानमण्डलचिद्रसाय ।
सदोदितमहाप्रज्ञाकाराय । सहस्रारकमलान्तस्थबिन्दुकूटमहागुरवे ।
स्वात्मन्यारोपितसमस्त जगदाधाराय ।
सर्वाधिष्ठानचिन्मात्रस्थानमध्यविराजिताय ।
सर्वोपनिषदुद्घुष्टमहाकीर्तिधराय नमः ॥ ४० ॥

ॐ स्वसाम्राज्यसुखासीनस्वयञ्ज्योतिः स्वरूपाय नमः ।
कार्यसहितमायाविध्वंसकाय ।
सर्ववेदान्तसिद्धान्तमहासाम्राज्यदीक्षिताय ।
सालम्बननिरालम्बवृत्तिमध्यस्थरूपकाय ।
मोक्षलक्ष्मीप्रदात्रे । शुद्धचैतन्यकान्तारसिद्धाय ।
भानूकूटप्रतीकाशचित्पर्वतशिखामणये ।
भावाभावकलातीतशून्यग्राममहेश्वराय ।
कल्पितपञ्चकृत्याधिपतये ।
ब्रह्मविद्यामयग्रामचिदालयमहाप्रभवे ।
प्रत्यग्भूतमहामौनगोचराय । शुद्धचिद्रसाय ।
हृदयग्रन्थिभेदविद्याविशारदाय । कामाद्यरिषड्वर्गनाशकाय ।
सर्वज्ञत्वादिगुणमुर्तीकृतषडाननाय ।
कर्मब्रह्मस्वरूपवेदविलसितचरणाय ।
अत्यन्तनिर्मलाकारचैतन्यगिरिमध्यगाय ।
अद्वैतपरमानन्दचिद्विलासमहानिधये । मण्डलत्रयभासकाय ।
अनेककोटिब्रह्माण्डधारिणे नमः ॥ ६० ॥

ॐ सर्वात्मकाय नमः । तत्वमस्यादिमहावाक्यलक्ष्यार्थस्वरूपाय ।
अविमुक्तमहापीठस्थितचिद्रूपविग्रहाय ।
अमितानन्दबोधान्तनादान्तस्थितमण्डलाय ।
अखण्डशुद्धचैतन्यस्वरूपाय ।
लोकालोककलैकमत्यपरमार्थस्वरूपाय ।
आदिमध्यान्तरहितब्रह्मानन्दनिधये ।
आधारमार्गसीमान्तवासिने । निस्तरङ्गसुखार्णवाय ।
अवाङ्मनसगोचराय । नित्यशुद्धबुद्धमुक्तसत्यस्वरूपाय ।
चिद्दीपमङ्गलज्योतिः स्वरूपाय । षट्चक्रनगरविभवेश्वराय ।
सकललोकैकनेत्रे । निष्प्रपञ्चाय । निराधाराय ।
सकलाधारस्वरूपाय । भक्तमानसरञ्जकाय ।
बाह्यानुविद्धसमाधिनिष्ठात्मगोचरवृत्तिस्वरूपदेवसेनासमेताय ।
आन्तरानुविद्धसमाधिनिष्ठात्मगोचरवृत्तिस्वरूपवल्लीपतये नमः ॥ ८० ॥

ॐ अनाहतमहाचक्रस्थिताय नमः । अवस्थात्रयसाक्षिणे ।
सहस्रकोटितपनसङ्काशाय । संसारमायादुःखौघभेषजाय ।
शुद्धचित्तस्वरूपमयूराधिष्ठानाय ।
चराचरस्थूलसूक्ष्मकल्पकाय ।
ब्रह्मादिकीटपर्यन्तव्यापकाय । समस्तलोकगीर्वाणशरण्याय ।
सनकादिसमायुक्तप्रज्ञानघनविग्रहाय ।
अनन्तवेदवेदान्तसंवेद्याय । धर्मार्थकामकैवल्यदायकाय ।
सकलवेदसारप्रणवलक्ष्यार्थनिजस्वरूपाय ।
अप्राकृतमहादिव्यपुरुषाय । अज्ञानतिमिरध्वान्तभास्कराय ।
अव्ययानन्दविज्ञानसुखदाय । अचिन्त्यदिव्यमहिमारञ्जिताय ।
परानन्दस्वरूपार्थबोधकाय ।
षडम्बुरुहचक्रान्तः स्फूर्तिसौदामिनीप्रभाय ।
षड्विधैक्यानुसन्धानपरहृद्व्योमसंस्थिताय ।
निस्त्रैगुण्यमहामार्गगामिने नमः ॥ १०० ॥

ॐ नित्यपूर्णचिदाकाशस्थितचिन्मण्डलाय नमः ।
कार्यकारणनिर्मुक्ताय । नादबिन्दुकलातीताय ।
शिवाब्धिमथनोत्पन्नानन्दपीयूषविग्रहाय ।
परिपूर्णपरानन्दप्रज्ञानघनलक्षणाय ।
अखण्डैकरसस्फूर्तिप्रवाहाश्रयाय । नामरूपविवर्जिताय ।
श्रीपरब्रह्मणे नमः ॥ १०८ ॥

इति आत्मनाथ प्रणीतः श्रीसुब्रह्मण्यसिद्धनामाष्टोत्तरशतनामावलिः
समाप्ता ।

Also Read:

108 Names of Sri Subrahmanya Siddhanama | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Sri Subrahmanya Siddhanama | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top