Shataka

Brihadambarya Shatakam Lyrics in Hindi | Hindu Shataka

Brihadambaryashatakam Lyrics in Hindi:

॥ बृहदम्बार्याशतकम् ॥

श्रीगोकर्णनिकेता श्रीविद्यादिव्यशुक्तिकामुक्ता ।
श्रीकण्ठनित्यमिलिता श्रीचक्रेशी पुरोऽस्तु मे माता ॥ १ ॥

कल्याणं कलयेन्नः कल्यानस्मान् करोतु शतमब्दान् ।
कल्यातङ्कमपास्येत् कल्याणी नः सदैव बृहदम्बा ॥ २ ॥

तरुणारुणप्रकाशं तरुणा वकुलेन भासुरनिवेशम् ।
गुरुणा स्तनेन नमितं गुरुणा सदयेन वस्तुः न कथितम् ॥ ३ ॥

वकुलद्रुमूलसदनां वनजसहाध्यायिपरिलसद्वदनाम् ।
वल्गुस्मितेक्ष्यरदनां वन्दे दृक्तर्जिताम्बुजच्छदनाम् ॥ ४ ॥

एका द्विलोकसुखदा त्र्यक्षर्याख्यापिता चतुःपीठा ।
पञ्चाम्नायशिरःस्था बृहदम्ब त्वं षडध्वजनयित्री ॥ ५ ॥

नासाभासा चम्पकशोभाक्षोभावहास्तु बृहदम्बा ।
पारावारात्मजया सेव्या देव्या गिरां च भव्याय ॥ ६ ॥

कम्बुलसत्कंधरया कैश्यविनिर्धूतनीलकंधरया ।
पाल्ये शोणाधरया पावितवकुलद्रुमूलसद्धरया ॥ ७ ॥

पीनस्तनावनम्रे पादनताम्भोजवासिनीकम्रे ।
वाणीजितसरसाम्रे वाचो वल्गन्तु धाम्नि मे ताम्रे ॥ ८ ॥

वकुलवनीवासिन्या विद्रुमसच्छायचेलवासिन्या ।
हृद्राजीवासिन्या हृदयं शंभोर्हृतं सुवासिन्या ॥ ९ ॥

वन्दे श्रीबृहदम्बां वल्गुगतापास्तराजकादम्बाम् ।
आश्रितजनावलम्बामासेवे कैश्यधूतलोलम्बाम् ॥ १० ॥

केसरसरभासुरया केवलदासीभवत्सुरासुरया ।
कलिता वाणी सुरया कयापि मे भक्तिनम्रभूसुरया ॥ ११ ॥

शिरसा धृतसोमायाः श्रीगोकर्णैकदिव्यधामायाः ।
पदनम्राणां मायाः पापविधात्र्यः कदापि नोमायाः ॥ १२ ॥

आनन्दसारसीमामानङ्गोत्कर्षपोषकापाङ्गाम् ।
आनन्तुं बृहदम्बामानन्त्यं मूर्ध्नि वाञ्छामि ॥ १३ ॥

वकुलाटवीनिविष्टां वन्दकसंरक्षणात्यभिनिविष्टाम् ।
निरवधिकरुणाविष्टां नित्यं सेवेमहीष्टशिपिविष्टाम् ॥ १४ ॥

अभिधायितहृल्लेखामतीतविद्वत्सुकविजनोल्लेखाम् ।
पदपद्मनमल्लेखां पश्यामः शाश्वतीं तटिल्लेखाम् ॥ १५ ॥

करुणामृतवर्षिण्याः सेवकसर्वापराधमर्षिण्याः ।
वकुलविपिनहर्षिण्या वश्याः स्मः शंभुचित्तकर्षिण्याः ॥ १६ ॥

करुणाझरसरसाक्षीमरुणाधरशोभिसुन्दरसुहासाम् ।
तरुनार्धघटितदेहां वरुणालयजेडितां शिवां वृणुमः ॥ १७ ॥

धन्याः के नु मदन्या वलयेऽवन्या यतो वकुलवन्याः ।
मूले मोक्षवदान्या मान्या कन्या गिरोर्हितमान्या मे ॥ १८ ॥

केचित् त्वां कुलमूले साक्षात्कुर्वन्त्यहं वकुलमूले ।
अर्धेश्वरां कतिपये मातः सर्वेश्वरामहं कलये ॥ १९ ॥

वाञ्छितसिद्ध्यै भविता लाञ्छितचिकुरा चकोरवृत्तिकृता ।
काङ्क्षितचरणा सद्भिः कां क्षिप्रं नातनोति संसिद्धिम् ॥ २० ॥

अरुणिमसारसमष्टिः संसृतिकूपोत्तरणयष्टिः ।
कलितामृतौघवृष्टिर्बृहदम्बा भातु मे कृपादृष्टिः ॥ २१ ॥

सामजसमानगमना सामसमाजोपगानतुष्टमनाः ।
समजानुपेतचरणा समरसतापन्नपन्नगाभरणा ॥ २२ ॥

विश्वपतिवश्यहृदया नश्वरविश्वासपश्वनाशास्या ।
अश्वमुखस्तवशस्या निःश्वसितानुश्रवास्ति बृहदम्बा ॥ २३ ॥

लघु तव चरणं शरणं तरणं मृत्योर्भजामि बृहदम्ब ।
यावत् तरसा जरसा परसादङ्गानि न कृतानि ॥ २४ ॥

प्रभवति यत्र न गौर्वा नोर्मीणां संकथा न वा जडता ।
कोऽपि वकुलालवाले जयति चिरानन्दसागरोऽपार ॥ २५ ॥

स्थावरराजतनूजा भावरसस्फीतवैखरी जननी ।
पीवरवक्षोजनता धीवरदौहित्रसूक्तिपरिचिन्त्या ॥ २६ ॥

सर्वानन्दनिवासा शक्रशतानन्दमुख्यसुरसेव्या ।
धृतनन्दसूनुदेहा भूमनिजानन्दमेदुरा जयति ॥ २७ ॥

अपहृत्य चित्तशल्यं भक्तिमतामातनोषि कैवल्यम् ।
बृहदम्ब को न्वकल्यं देवान्तरं त्व्या पाल्यम् ॥ २८ ॥

भवनीकृतगोकर्णं भास्वन्मणिकुण्डलस्फुरत्कर्णम् ।
ध्यायामि शोणवर्णं धाम परं भक्तमानसाभ्यर्णम् ॥ २९ ॥

कलिता ललिता कलितापहरा दहरान्तरविचिन्त्या ।
वकुले मुकुलेड्यकुले सदयाभ्युदया किमन्यदेवैर्मे ॥ ३० ॥

वाराणसीनिषेवां वाराश्यवगाहनानि च न तन्याः ।
वारान् बहूनथाङ्घ्र्योर्वारा पूयस्व वकुलमूलेश्याः ॥ ३१ ॥

श्रेयश्च या विधत्ते श्रीबृहदम्बापदाम्बुरुहचिन्ता ।
कलिकलुषणि विभिन्ते मदमपि कार्तान्तमाहन्ता ॥ ३२ ॥

नीवी नवान्यवचसां सा वीणा वाण्यभिपणार्या ।
भावी भवार्तिहरणी देवी दयतां सदैव बृहदम्बा ॥ ३३ ॥

माता सारसनेत्रा मान्या वाराशिकन्यकानेत्रा ।
मृगचक्रवर्तिपत्रा मनसि मम स्तात् स्तनोल्लसत्पत्रा ॥ ३४ ॥

वेलतिगानुकम्पा वकुलवनाम्भोदमञ्जुतरशम्पा ।
भवतप्तामृतझम्पा भवतु हृदिस्था कृतद्विषत्कम्पा ॥ ३५ ॥

पद्यायामाद् यायामाद्यायामम्ब तावकजनानाम् ।
विद्यां ते निरवद्यां विद्यां गोकर्णराज्ञि दयया ते ॥ ३६ ॥

तरणिं तमश्छटानामरणिं ज्ञानानलस्य कलयामि ।
तरणिं भवाम्बुराशेः सरणिं वेद्यागमस्य बृहदम्बाम् ॥ ३७ ॥

वक्षोजभारनमिता लक्षोत्तरवेदगीःप्रमिता ।
इक्षोर्मधुरोक्तिमिता न क्षोभ्या त्वं दयाधुनी स्तिमिता ॥ ३८ ॥

हृदयं पुराणवचसां सदयं दीनावने परं तेजः ।
मदयन्नधरं शंभोस्तदयं यातो जनः शरणम् ॥ ३९ ॥

माङ्कणतीरकुटीरा मेदुरवक्षोजलिप्तपाटीरा ।
पतिधृतचन्द्राण्डीरा ध्येयाम्बा मुक्तिदानशौण्डीरा ॥ ४० ॥

आपन्नरक्षणार्थे चापं पुण्ड्रेक्षुमादधाना सा ।
रोपं च पौष्पमम्बा पापं प्रोत्सारयेन्ममाशेषम् ॥ ४१ ॥

दक्षा निरर्गला सा दातुं स्वर्गं त्रिवर्गमपवर्गम् ।
बृहदम्बा महदन्तर्वासा भासारुणा जयति ॥ ४२ ॥

वारिदसोदरचिकुरां वदनपराभूतविस्फुरन्मुकुराम् ।
सुन्दरहासाङ्कूरां सेवेऽम्बां वाग्जितामृतासाराम् ॥ ४३ ॥

बिन्दुत्रयात्मकतया कलयन्ति त्वामपारकरुणाब्धिम् ।
ये बृहदम्ब भवाब्धिर्विदुषां तेषां कति पृषन्ति ॥ ४४ ॥

नीवारशूकशाता नीहारांशुच्छटाशीता ।
बालादित्यशताभा मूलाधारात् समुद्यता भासि ॥ ४५ ॥

विश्वप्रथानिदानं वेदशिरःस्फूर्जदपदानम् ।
बृहदम्बिकाभिधानं बहुशः सेवेय मङ्गलविधानम् ॥ ४६ ॥

आलोलनीलवेणी फालोत्सङ्गानुषङ्गिदिव्यमणी ।
कालोन्मिषत्कुवलयच्छायादायादलोचनद्वितया ॥ ४७ ॥

मणिताटङ्कसमुद्यद्घृणिगणनीराजितकपोलम् ।
नासाग्रलम्बिमुक्ताभासा संपृक्तमन्दहासरुचिः ॥ ४८ ॥

अरुणाधरजितबिम्बा वक्त्रपराभूतशीतकरबिम्बा ।
पीनोन्नतस्तनभरा पाशसृणीष्विक्षुचापकरा ॥ ४९ ॥

शिञ्जितमञ्जीरलसन्मञ्जुलचरणाब्जनम्रसुरलोका ।
बृहदम्बा मम हृदये निवसतु वात्सल्यशीतलालोका ॥ ५० ॥

भानव्या या नव्या मानव्याघातभीतया दीप्त्या ।
आतन्वीत सुतन्वी सा तन्वीड्या श्रियं तवाम्ब तनूः ॥ ५१ ॥

इच्छात्तविश्वशिल्पां पञ्चब्रह्मप्रकल्पितसुतल्पाम् ।
वन्दीकृतादिजल्पां वन्दे देवीं दयोदयानल्पाम् ॥ ५२ ॥

केचिन्मदालसाक्षं कालोन्मीलत्कुवालजयदक्षम् ।
गात्रं तवापरोक्षं कुर्युर्बृहदम्ब दुष्कृतविपक्षम् ॥ ५३ ॥

शयधृतचारुविपञ्ची श्रोणीबिम्बावलम्बिमणिकाञ्ची ।
गोकर्णेश्यघवञ्ची दृष्टा चेत् को न भक्तिरोमाञ्ची ॥ ५४ ॥

कालं प्रयाप्य मेऽलं भारैर्दुःस्थैरचारुकुचभारैः ।
क्षामैरशुकश्यामैरन्यैर्देवैरधूतनतदैन्यैः ॥ ५५ ॥

सोमार्धसल्ललामा सा मामव्यात् सुवकुलवनदामा ।
कामारिदिव्यरामा परमा संविद् घनश्यामा ॥ ५६ ॥

कोमलवाकुलमूला स्तोमलसत्कुन्तलाधिगोकर्णम् ।
यामलवर्ण्या कापि श्यामलवर्णा विभाति गुरुमूर्तिः ॥ ५७ ॥

प्रवहत्करुणापाङ्गं प्रत्यग्राम्भोदमेचकश्यामम् ।
विश्वाधिकान्तरङ्गं वकुलवने भाति पालितपाङ्गम् ॥ ५८ ॥

शिखिपिञ्छं तापिञ्छं सभयं धम्मिल्लशोभया स्वभया ।
आदधती दधतीन्दुं माङ्कणरोधोऽङ्कणे जयत्यम्बा ॥ ५९ ॥

वामकुचचुम्बिवीणामर्धोन्मीलन्मनोज्ञट्टक्कोणाम् ।
विश्वावनप्रवीणां वकुलाटव्यां नमामि रममाणाम् ॥ ६० ॥

अंसानुषङ्गिचूली संसारापारवारिधेराली ।
शं सा ददातु काली कंसारीड्या सदात्तवकुलाली ॥ ६१ ॥

वीणावादिनि शर्मास्वादिनि कर्माद्रिभेदिनि स्यान्मे ।
विश्वाकारिणि चन्द्रालंकारिणि बोधकारिणि प्रेम ॥ ६२ ॥

अरुणांशुकामुपासे निगमं शुकरूपिणं दधतीम् ।
ददतीमाशुकवित्वं स्वांशुकदर्थीकृतातसीं जननीम् ॥ ६३ ॥

सज्जनकृतवरिवस्यं सारसपरिहाससादरनिजास्यम् ।
गान्धर्वस्य रहस्यं किंचन कुर्यान्मदाशास्यम् ॥ ६४ ॥

दूर्वाश्यामलकाये दुर्वासोमुख्यमौनिगणसेव्ये ।
अर्वास्यवर्णितगुणे कुर्वाशापूर्तिमद्य बृहदम्ब ॥ ६५ ॥

लीलालोला वकुलाटव्यामव्याच्छुकाभिरामकरा ।
वीणाक्काणाभिरता माता भूताधिपस्य दयिता नः ॥ ६६ ॥

दुरितेभ्यो न कृतेभ्यो नापि कृतान्ताद् बिभेमि दुर्दान्तात् ।
दृष्टा दयासमष्टिर्वकुलवने श्यामलाकृतिर्येन ॥ ६७ ॥

धन्योऽहं धन्योऽहं वंशद्वितयी मदीक्षिता धन्या ।
परिपणमाम्नायानां श्यामलमालोकि वकुलमूले यत् ॥ ६८ ॥

वित्तादिभिर्नराणां मत्तानां दुर्लभा विना भक्तिम् ।
तत्तादृशानुभावा सत्ता काचिद् विभाति गोकर्णे ॥ ६९ ॥

परिहृतसर्वविकल्पा परिधृतशीतांशुकोरकाकल्पा ।
बालदिवाकरकल्पा बृहदम्बा पातु सत्यसंकल्पा ॥ ७० ॥

चम्पकनीपरसालाः सन्त्येवान्ये रसास्थले सालाः ।
वकुले तु मेऽस्ति भक्तिर्यस्मिन् दृष्टे स्मृता भवत्यम्बा ॥ ७१ ॥

भ्रमरीविभ्रमकबरीं भ्रूभ्रमणेनैव पञ्चकृत्यकरीम् ।
संवित्सुखामृतझरीं संसेवेऽम्बां भवाम्बुराशितरीम् ॥ ७२ ॥

कुमुदेशपाकचूडं कलितसुरोद्यानमालिकापीडम् ।
अञ्चितवकुलाक्रीडं किंचिदुपासे दयानिवहनीडम् ॥ ७३ ॥

सरले सरले विरले तरले हृन्नेत्रकुचसीम्नि ।
वस्तुनि मेऽस्तु निवास्तुनि करुणायाश्चित्तवृत्तिरपतन्द्रा ॥ ७४ ॥

कं गणयेऽन्यमुपास्यं मङ्कणकासारतीरकौतुकिनः ।
अङ्गणवाकुलसुमनोरिङ्खणसौरभ्यनिर्भराद्धाम्नः ॥ ७५ ॥

वेशन्ततुल्यनाभी वासन्तस्फारपुष्पशुभवेणी ।
सीमन्तभासिवुसृणा सा हन्त प्रेक्षिताद्य बृहदम्बा ॥ ७६ ॥

श्रुतिलासिकालिरङ्गायितस्वमहिमाक्षिनिर्जितकुरङ्गा ।
प्रोद्यत्कृपातरङ्गा पायादम्बा मृगेश्वरतुरङ्गा ॥ ७७ ॥

निबिडघनस्तनकुम्भा निजवेणीन्यस्तशीतकरडिम्भा ।
निवसितवरकौसुम्भा निवसतु चित्ते जगद्धितारम्भा ॥ ७८ ॥

गम्भीरनाभिकुहरां कुम्भीन्द्रस्पर्धिमुग्धसंचाराम् ।
तां भीमस्य न भामां कुम्भीपाकेच्छवो भजन्त्यज्ञाः ॥ ७९ ॥

वाह्यापि नो पुराण्या तत्त्वविपण्या यदुच्चतागण्या ।
सा वर्ण्यास्तु शरण्या कस्य धरण्यामुमाखिलवरेण्या ॥ ८० ॥

गोकर्णेशयसेव्यां गोकर्णेशप्रियां प्रणमन् ।
गोकर्णे वस तूष्णीं गोकर्णे भ्रामकांस्तु जप मन्त्रान् ॥ ८१ ॥

क्षुद्रार्थदानशीला न द्रागाराधिताः प्रसीदन्ति ।
निद्रालसास्त्वदन्ये तद्राज्ञि त्वां भजे वकुलवन्याः ॥ ८२ ॥

आगमकोटिनिरुक्तामाब्रह्मस्तम्बरक्षणासक्ताम् ।
आर्यामनादिमुक्तामालोके केसराटवीसक्ताम् ॥ ८३ ॥

सेवे किंचन दिव्यं भावे तेजः समस्तसंसेव्यम् ।
धीवेदिमेत्य हृद्यं संवेद्याख्यं दहेन्ममाभव्यम् ॥ ८४ ॥

वाणी चाम्बुधिकन्या सा वृणुते तं बलादिवानन्या ।
किंचित् त्वया जनन्या कटाक्षितो यः कियत्यथ स्त्र्यन्या ॥ ८५ ॥

शक्तः कोऽपि यदीयां लङ्घितुमाज्ञां न लोकेषु ।
यस्याज्ञां बृहदम्बा साध्यास्ते कस्ततो ह्यधिकः ॥ ८६ ॥

अष्टापदादि सर्वं लोष्टाभिन्नं सदाभिपश्यन्तः ।
अष्टात्मनः प्रणयिनीं शिष्टाः पश्यन्त्यनन्यतया ॥ ८७ ॥

दाहं भवानलोत्थं व्याहन्तुं वाकुलाटवीं देवीम् ।
सोऽहं भजामि भक्त्या याहंतारूपिनीति गुरुणोक्ता ॥ ८८ ॥

कुलदैवतं मदीयं कुलकुण्डाभ्यन्तरैकवास्तव्यम् ।
कुलपर्वतेशभाग्यं कुलायमीक्षेऽनुपाधिकरुणायाः ॥ ८९ ॥

अग्नाविष्णुमुखेड्या भग्नाशेषार्तिरात्मभक्तानाम् ।
भुग्नालका मदीये लग्ना चित्ते चकास्तु बृहदम्बा ॥ ९० ॥

अव्याजभूतकरुणा भव्यापाङ्गप्रकल्पितत्राणा ।
अव्याद्विलिप्तघुसृणा स्तव्या श्रुत्या सदाप्तगोकर्णा ॥ ९१ ॥

अम्भोजतुल्यनयनामङ्कालंकारिणीं त्रिनेत्रस्य ।
अङ्गीकृतादिमरसाम्बां गोकर्णनायिकां सेवे ॥ ९२ ॥

भार्यामनादियूनोऽहार्याधीशान्ववायमणिभूषाम् ।
आर्यामुपाध्वमनिशं कार्याकार्यावमर्शनिष्णाताः ॥ ९३ ॥

वरदे सुरदेशिकवाङ्निकरासुकरानुवर्णने धाम्नि ।
करवै मुरवैरिमुखैः शिरसा सुरसार्थकैर्नते चेतः ॥ ९४ ॥

मङ्कणकासारझरीसमीरधारामनोहरोदारे ।
मिलदलिलोलन्मुकुले वकुलवने लालसीति सकलेशी ॥ ९५ ॥

पश्यल्ललाटदारान् परिपूर्णानन्दसंविदाकारान् ।
कठिनघनस्तनभारान् कलये गोकर्णपावनागारान् ॥ ९६ ॥

गोकर्णेशमहिष्या व्याकर्तुं को गुणान् भवेदीशः ।
स्वीकर्तुं हृदि वा तान् श्रीकर्कास्यं तमेकमपहाय ॥ ९७ ॥

तुष्टा श्रीबृहदम्बा कष्टानुन्मूलयेत् कृपादृष्ट्या ।
इष्टानि च प्रदद्यान्मृष्टां प्रतिभां परत्र च श्रेयः ॥ ९८ ॥

वन्दे विश्वविधात्रीं वन्दे विद्याचिमुक्तिफलदात्रीम् ।
वन्दे वकुलवनेशीं वन्दे गोकर्णवल्लभसुकेशीम् ॥ ९९ ॥

जयति स्फारदयार्द्रा गोकर्णाधीशवल्लभा जयति ।
जयति प्रसादसुमुखी श्रीरघुनाथेन्द्रपूजिता जयति ॥ १०० ॥

आख्यां सकृद् यदीयामाख्यायाशेषवाञ्छितं लभते ।
तस्याः स्तुतिप्रियायाः यः स्यात् स्तोत्रं पठन् स पूर्णार्थः ॥ १०१ ॥

॥ इति श्रीबृहदम्बाशतकं संपूर्णम् ॥

Add Comment

Click here to post a comment