Templesinindiainfo

Best Spiritual Website

Devi Shatakam Lyrics in Hindi | Hindu Shataka

Devishatakam Lyrics in Hindi:

॥ देवीशतकम् ॥

श्रीगणेशाय नमः ।
अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् ।
या च मातेव भजते प्रणते मानवे दयाम् ॥ १ ॥

नतापनीतक्लेशायाः सुरारिजनतापनी ।
न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ २ ॥

वक्त्रपद्मा विधेर्भान्ति यया सर्गलयो दया ।
या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥ ३ ॥

याश्रिता पावनतया यातनाच्छिदनीचया ।
याचनीया धिया मायायामायासं स्तुता श्रिया ॥ ४ ॥

नमांसि ध्वंसमायान्ति अस्याः स्तुत्यादरेण वः ।
तस्याः सिद्ध्यै धियां मातुः कल्पन्तां पादरेणवः ॥ ५ ॥

ऋषीणां सादयामास या तमांसि त्रयीमयी ।
पायाद्वः सा दयामाधिच्छिदं जगति बिभ्रती ॥ ६ ॥

स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया ।
यां चाच्युतोऽपि तुष्टाव तुष्टा वः साऽस्तु पार्वती ॥ ७ ॥

या दमावनयागेन स्वाराथा नयसारया ।
हरिकैतवहास्याय सायामा विजिता यया ॥ ८ ॥

यायताजिविमया सा यस्या हा बत कैरिह ।
या रसायनधारा स्वा न गेयानवमा दया ॥ ९ ॥

सा बुद्धिरुत्तमालोकः सतामार्या पुनातु वः ।
यद्भक्तेरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥ १० ॥

अयुद्ध साधुत्राणाय सामरा या सहारिणा ।
खङ्गेन दीप्रा देवानां सामरायासहारिणा ॥ ११ ॥

चरणाघातनिहतकासरा च रणाजिरे ।
रराज या नयजयैरराजसजनानता ॥ १२ ॥

सावताद्वोऽम्बिकाऽभ्यर्च्यनामा न न यशोभितः ।
तनोति प्रणतो यस्या ना माननयशोभितः ॥ १३ ॥

संयतं याचमानेन यस्याः प्रापि द्विषा वधः ।
संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४ ॥

या दमानवमानन्दपदमाननमानदा ।
दानमानक्षमानित्यधनमानवमानिता ॥ १५ ॥

सा रक्षतादपारा ते रसकृद्गौरबाधिका ।
सारक्षतादपारातेरसकृद्गौरवाधिका ॥ १६ ॥

अनुत्तमोहराशयो भवन्ति यामनाश्रिताः ।
अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७ ॥

अनन्तरागतापायास्तारयित्री भवापदः ।
अनन्तरागतापायाः सा वो गौरी हियात्क्रियाः ॥ १८ ॥

यामायासजिदासक्तशोकजालस्य पातिनी ।
या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९ ॥

सामरागमनायासं त्यक्त्वा सार्धं सुरारिभिः ।
सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥ २० ॥

सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया ।
सामोदया जयाशा तैर्गीर्वाणैर्गर्वतो जहे ॥ २१ ॥

ययायायाय्यया यूयं यो योऽयं येययैय याम् ।
ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२ ॥

साऽव्याद्गौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति ।
शरणं यां नरो गच्छन्न रोगच्छन्दमेति च ॥ २३ ॥

कृतास्पदा यथा सम्पदघानि सुरवैरिषु ।
हन्ति या वाङ्मयी दूरादघानि सुरवैरिषुः ॥ २४ ॥

जितानया या नताजितारसाततसारता ।
न सावना नावसानयातनारिरिना तया ॥ २५ ॥

मनोभवारातिमनोभिरामया जरामयापाकरणैकदक्षया ।
मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया ॥ २६ ॥

समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया ।
स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः ॥ २७ ॥

सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा
जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा ।
सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा
पायादक्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥ २८ ॥

उपासते कृष्टिकृतोदयां यां जना सदाराधनमीहमानाः ।
शम्भोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥ २९ ॥

यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः ।
अघानि यस्य प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥ ३० ॥

यस्याः प्रभावो द्युसदां विपक्षसेना वधानन्दयिताहरस्य ।
मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१ ॥

सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् ।
स्वापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२ ॥

सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् ।
स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३ ॥

सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमाहवोद्यता ।
शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ ३४ ॥

वक्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा ।
कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥ ३५ ॥

हिते हितेऽस्तु ते स्तुते जिताजितामितामिता ।
जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६ ॥

सक्तिं वः सुकृतार्जने विदधती सत्रां यतां त्रायतां
दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा ।
साधूत्साहविधानसक्तमनसां मुख्या ततो ख्याततां
संस्मृत्यैव – – – मत्सरभरस्फीतापदां तापदाम् ॥ ३७ ॥

या मूर्तिं किमपि स्मरारिवपुषा धत्ते समायोजितां
यां दृष्ट्वैव विनाशमाप सहसा शुम्भः समायोऽजिताम् ।
या नम्रैः सुरसिद्धिकिं‍नरनरैः खेदं विना शस्यते
सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८ ॥

सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा
स्वैरं स्वैरंशसर्गैर्गहनतममहामोहहार्दं हरन्ती ।
शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव
स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९ ॥

सुरसुरचितचितनवनवभवभवनानादरादरायेथे ।
लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४० ॥

या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् ।
विदधे यच्चापस्य न च क्रेङ्कारोऽपि तानवं नारीणाम् ॥ ४१ ॥

या हन्तां च प्रयाता विहाथसा कंसमाह तारातिबलेन ।
कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ॥ ४२ ॥

तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया ।
ख्याति यया जनतोज्ज्वलविवेकशोभातिभद्राकालीनतया ॥ ४३ ॥

तां स्मरत था स्मृतैव हि मानवतामरसमानता राति बलात् ।
यत्प्रणतं श्रीः श्रयते मानवतामरसमान ताराति बलात् ॥ ४४ ॥

अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या ।
अनवरागसमुद्भवदेह तामवनतोऽस्मि जगात्प्रियतां सतीम् ॥ ४५ ॥

मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना
नुन्नेनोनमने निमानममुना नो नाम नानानुमे ।
मौनेनामममाननिम्नमननान्नानामिनानूनिमे
सुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥ ४६ ॥

तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या ।
सुघीरस्यति धीरस्य महामोहमयीं त्वचम् ॥ ४७ ॥

यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् ।
नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८ ॥

यदानतोऽयदानतो न यात्ययं नयात्ययम् ।
शिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥ ४९ ॥

सरस्वतिप्रसादं मे स्थिति चित्तसरस्वति ।
सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ५० ॥

त्वद्भक्तिभावितधियो जगतामत्र ये त्रये ।
जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ ५१ ॥

जगतः सातिरेका त्वं गतिरस्य स्थिराधिका ।
तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ ५२ ॥

त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते ।
सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ ५३ ॥

जयन्ति भक्ता वित्तेशसमरायस्तबाहवे ।
तुभ्यन्नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४ ॥

सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे ।
द्विषामरीणा त्वं सेनां वाहिनीमुदकम्पयः ॥ ५५ ॥

दूरागतरसा धन्यः सेवतेयस्तव स्तुतीः ।
दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ ५६ ॥

मोहं हत्वास्पदं यासि सात्त्वमम्बरवासिना ।
या न संस्तूयसे केन सा त्वम्बरवसिना ॥ ५७ ॥

प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली ।
प्रज्ञात्मनेनविमला स्मिता दृश्यसि विद्वताम् ॥ ५८ ॥

भवानि ये निरन्तरं तव प्रणामलालसाः ।
मनस्तमोमलालसा भवन्ति नैय तु क्वचित् ॥ ५९ ॥

विभावनाकुला त्वयि क्रमेण देवि भावना ।
वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ ६० ॥

महोऽदयानामवधी रणेन महोदयानामवधीरणेन ।
महोदयानामव धीरणेजमहोदयानामवधीरणेन ॥ ६१ ॥

न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् ।
नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ ६२ ॥

प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् ।
त्वात्प्रासादाज्जनः सारभारतीव्रतमेत्ययम् ॥ ६३ ॥

शास्त्रप्रभावहसिताः सतां या निर्मला गिरः ।
शास्त्रप्रभावहसितास्त्वमम्बतिमिरच्छिदः ॥ ६४ ॥

शमीह ते समानतो विभावितोऽत्रसन्न यः ।
विभावितोऽत्र सन्नयः शमीहते स मानतः ॥ ६५ ॥

मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः ।
मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ॥ ६६ ॥

भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् ।
संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७ ॥

यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः ।
स्वच्छलो भक्तियोगस्ते स्वच्छलोकविवेकसूः ॥ ६८ ॥

के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे ।
केवलं ते वितन्वन्त आसते विमलां धियम् ॥ ६९ ॥

देवि निर्दग्धकामस्य त्वं निरावरणात्मनः ।
हरस्य शुभसन्तानं तेनासौ भ्राजते तथा ॥ ७० ॥

द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः ।
स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥ ७१ ॥

ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा
स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा ।
नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी-
र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ॥ ७२ ॥

स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या
धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना ।
सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरास्वा
ज्ञातायत्तादरस्वैरवनमनिधिर्या वरिष्ठानियोज्या ॥ ७३ ॥

अलोलकमले चित्तललामकमलालये ।
पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४ ॥

दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि ।
अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥ ७५ ॥

महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ॥ ७६ ॥

वन्द्या प्रभातसन्ध्येव सूर्यालोकप्रवर्तिनी ।
निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ ७७ ॥

संवादिसारसम्पत्तीसदागोरिजयेसुदे ।
तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८ ॥

आगममणिसुदमहिमसमसंमदकृदपरजस्सु ।
किर सविभयवदितो समय उज्जलभावसहस्सु ॥ ७९ ॥

त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः ।
तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ ८० ॥

सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः ।
ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥ ८१ ॥

हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः ।
वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२ ॥

सदाप्नोति यतिर्ज्योतिस्तादृशं स्वत्प्रभावतः ।
प्रभावतः समो येन कल्पते मोहनुत्तितः ॥ ८३ ॥

त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः ।
संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥ ८४ ॥

परमा या तपोवृत्तिरार्यायास्तं स्मृतिं जनाः ।
परमायात पोषाय धियां शरणमादृताः ॥ ८५ ॥

प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः ।
भान्ति त्वत्त्रिशिखस्येव शिखानामसमाश्रयः ॥ ८६ ॥

यच्चेष्टया तव स्फीतमुदारवसु धामतः ।
यच्चेतो यात्यवहितमुदा रवसुधामतः ॥ ८७ ॥

सुरदेशस्य ते कीर्तिं मण्डनत्वं नयन्ति यैः ।
वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८ ॥

तत्त्वं वीतावतततुत्तत्वं ततवती ततः ।
वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥ ८९ ॥

तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः ।
त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥ ९० ॥

सुमातरक्षयालोक रक्षयात्तमहामनाः ।
त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ ९१ ॥

ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुषामितः ।
सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥ ९२ ॥

सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः ।
ततास्तितैत्ति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥ ९३ ॥

त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः ।
सदा त्वया सगन्धर्वं समिद्धमरिनुत्तितः ॥ ९४ ॥

यतो याति ततोऽत्येति यया तां तायतां यतैः ।
मातामितोत्तमतमा तमोतीतां मतिं मम ॥ ९५ ॥

महत्तां त्वं श्रिता दासजनं मोहच्छिदा वस ।
यच्छद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ ९६ ॥

त्वां साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु ।
प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ ९७ ॥

आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा ।
भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥ ९८ ॥

हन्त्र्यो रुषः क्षमा एता सन्दक्षोभास्तमुन्नतः ।
सतेहितः सेवते ताः सततं यः स ते हितः ॥ ९९ ॥

करोषि तात्स्त्वमुत्खातमोहस्थाने स्थिरा मतीः ।
पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १०० ॥

देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया ।
देशितानुपमामाधादतो नोणसुतो नुतिम् ॥ १०१ ॥

हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो
दुर्वारारिपरिक्षयं विदधती ध्यातैव लर्वाणसूः ।
देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना
देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥ १०२ ॥

क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु-
र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् ।
दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः
स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३ ॥

येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी ।
तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४ ॥

इति श्रीमदानन्दवर्धनाचार्यविरचितं देवीशतकं सम्पूर्णम् ॥

Devi Shatakam Lyrics in Hindi | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top