Templesinindiainfo

Best Spiritual Website

Matripanchakam Lyrics in Hindi | मातृपञ्चकम्

मातृपञ्चकम् Lyrics:


श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

मातृगायत्री
ॐ मातृदेव्यै च विद्महे । वरदायै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

लक्ष्मीं वरदपत्नीं च क्षान्तां सुप्रियसेविताम् ।
वीणासङ्गीतलोलां च मन्मातरं नमाम्यहम् ॥ १॥

अन्नपूर्णां बुभुक्षाहां स्वस्तिवाचास्पदां वराम् ।
सत्कारुण्यगुणामम्बां मन्मातरं नमाम्यहम् ॥ २॥

रोगपीडापहश्लोकां रोगशोकोपशामनीम् ।
श्लोकप्रियां स्तुतां स्तुत्यां मन्मातरं नमाम्यहम् ॥ ३॥

रामकृष्णप्रियां भक्तां रामायणकथाप्रियाम् ।
श्रीमद्भागवतप्रीतां मन्मातरं नमाम्यहम् ॥ ४॥

त्यागराजकृतिप्रीतां पुत्रीपुष्पाप्रियस्तुताम् ।
शतायुर्मङ्गलाशीदां मन्मातरं नमाम्यहम् ॥ ५॥

मङ्गलं मम मात्रे च लक्ष्मीनाम्न्यै सुमङ्गलम् ।
मङ्गलं प्रियदात्र्यै च मनोगायै सुमङ्गलम् ॥ ६॥

इति मातृपञ्चकं पुत्र्या पुष्पया प्रीत्या
मातरि लक्ष्म्यां समर्पितम् ।
ॐ शुभमस्तु ।

Matripanchakam Lyrics in Hindi | मातृपञ्चकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top