1000 Names of Srirama | Sahasranama Stotram Lyrics in Hindi
ShriramaSahasranamastotram Lyrics in Hindi: ॥ श्रीरामसहस्रनामस्तोत्रं अनन्तसुतश्रीदिवाकरविरचितम् ॥ अनन्तसुतश्रीदिवाकरघैसासशास्त्रिविरचितं प्रज्ञागोदावरीतीरे चेतःपर्णकुटीकृते । वैदेहीशक्तिसंयुक्तं तपस्यालक्ष्मणद्वयम् ॥ पञ्चेन्द्रियपञ्चवटीनिवासस्थं धनुर्धरम् । ध्यायाम्यात्मस्वरूपं तं राघवं भयनाशनम् ॥ वाल्मीकि-भरद्वाज-दिवाकराः ऋषयः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता । प्रातर्ध्येयः सदाभद्रो भयभञ्जनकोविदः इति बीजम् । सूक्ष्मबुद्धिर्महातेजा अनासक्तः प्रियाहवः इति शक्तिः । वर्धिष्णुर्विजयी प्राज्ञो रहस्यज्ञो विमर्शविदिति कीलकम् । श्रीरामसहस्रनामस्तोत्रस्य जपे विनियोगः । कदाचित्पूर्णसङ्कल्पो वाल्मीकिकविरात्मवान्। ध्यायन् […]