1000 Names of Shri Shankaracharya Ashtottara | Sahasranamavalih Stotram Lyrics in Hindi
Shrimat Shankaracharya Ashtottarasahasranamavalih Lyrics in Hindi: ॥ श्रीमत् शङ्कराचार्याष्टोत्तरसहस्रनामावलिः ॐ गाढध्वान्तनिमज्जनप्रमुषितप्रज्ञानेत्रं परम् नष्टप्रायमपास्तसर्वकरणं श्वासावशेषं जनम् । द्राक्कारुण्यवशात्प्रबोधयति यो बोधांशुभिः प्राम्शुभिः सोऽयं शङ्करदेशिकेन्द्रसविताऽस्माकं परं दैवतम् ॥ अद्वैतेन्दुकलावतम्सरुचिरो विज्ञानगङ्गाधरो हस्ताब्जाधृत दण्ड खण्ड परशू रुद्राक्षभूषोज्वलः । काषायामलकृत्तिवाससुभगः सम्सारमृत्युञ्जयो द्वैताख्योग्रहलाहलाशनपटुः श्रीशङ्करः पातु नः ॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ जयतु जयतु नित्यं शङ्कराचार्यवर्यो जयतु […]