Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Shankaracharya Ashtottara | Sahasranamavalih Stotram Lyrics in Hindi

Shrimat Shankaracharya Ashtottarasahasranamavalih Lyrics in Hindi:

॥ श्रीमत् शङ्कराचार्याष्टोत्तरसहस्रनामावलिः

ॐ गाढध्वान्तनिमज्जनप्रमुषितप्रज्ञानेत्रं परम्
नष्टप्रायमपास्तसर्वकरणं श्वासावशेषं जनम् ।
द्राक्कारुण्यवशात्प्रबोधयति यो बोधांशुभिः प्राम्शुभिः
सोऽयं शङ्करदेशिकेन्द्रसविताऽस्माकं परं दैवतम् ॥

अद्वैतेन्दुकलावतम्सरुचिरो विज्ञानगङ्गाधरो
हस्ताब्जाधृत दण्ड खण्ड परशू रुद्राक्षभूषोज्वलः ।
काषायामलकृत्तिवाससुभगः सम्सारमृत्युञ्जयो
द्वैताख्योग्रहलाहलाशनपटुः श्रीशङ्करः पातु नः ॥

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥

जयतु जयतु नित्यं शङ्कराचार्यवर्यो
जयतु जयतु तस्याद्वैतविद्यानवद्या ।
जयतु जयतु लोके तच्चरित्रं पवित्रं
जयतु जयतु भक्तिस्तत्पदाब्जे जनानाम् ॥

ॐ श्री श्रीमत्कैलासनिलयाय नमः ।
ॐ पार्वतीप्राणवल्लभाय नमः ।
ॐ ब्रह्मादिसुरसम्पूज्याय नमः ।
ॐ भक्तत्राणपरायणाय नमः ।
ॐ बौद्धाक्रान्तमहीत्राणासक्तहृदे नमः ।
ॐ सुरसंस्तुताय नमः ।
ॐ कर्मकाण्डाविष्करणदक्षस्कन्दानुमोदकाय नमः ।
ॐ नरदेहादृतमतये नमः ।
ॐ संचोदितसुरावलये नमः ।
ॐ तिष्याब्धत्रिकसाहस्रपरतो लब्धभूतलाय नमः ॥ १० ॥

ॐ कालटीक्षेत्रनिवसदार्याम्बागर्भसंश्रयाय नमः ।
ॐ शिवादिगुरुवंशाब्धिराकापूर्णसुधाकराय नमः ।
ॐ शिवगुर्वात्मजाय नमः ।
ॐ श्रीमते नमः ।
ॐ सच्छिवांशावतारकाय नमः ।
ॐ पितृदत्तान्वर्थभूतशङ्कराख्यसमुज्वलाय नमः ।
ॐ ईश्वराब्धवसन्तर्तुराधाशुक्लसमुद्भवाय नमः ।
ॐ आर्द्रानक्षत्रसंयुक्तपञ्चमीभानुसंजनये नमः ।
ॐ विद्याधिराजसत्पौत्राय नमः ।
ॐ विद्वन्मानसहर्षदाय नमः ॥ २० ॥

ॐ प्रथमाब्धसमभ्यस्ताशेषभाषालिपिक्रमाय नमः ।
ॐ वत्सरत्रितयादर्वाग्जनकावाप्तमुण्डनाय नमः ।
ॐ तृतीयवत्सरप्राप्ततातविश्लेषकर्दमाय नमः ।
ॐ मातृशोकापहारिणे नमः ।
ॐ मातृशुश्रूषणादराय नमः ।
ॐ मातृदेवाय नमः ।
ॐ मातृगुरवे नमः ।
ॐ मातृताताय नमः ।
ॐ बाललीलादर्शनोत्थहर्षपूरितमातृकाय नमः ।
ॐ सनाभिजनतो मात्राकारितद्विजसंस्कृतये नमः ॥ ३० ॥

ॐ विद्यागुरुकुलावासाय नमः ।
ॐ गुरुसेवापरायणाय नमः ।
ॐ त्रिपुण्ड्रविलसद्भालाय नमः ।
ॐ धृतमौञ्जीमृगाजिनाय नमः ।
ॐ पालाशदण्डपाणये नमः ।
ॐ पीतकौपीनवासिताय नमः ।
ॐ बिसतन्तुसदृक्षाग्र्यसूत्रशोभितकंधराय नमः ।
ॐ संध्याग्निसेवानिरताय नमः ।
ॐ नियमाध्यायतत्पराय नमः ।
ॐ भैक्ष्याशिने नमः ॥ ४० ॥

ॐ परमानन्दाय नमः ।
ॐ सदा सर्वानन्दकराय नमः ।
ॐ द्वित्रिमासाभ्यस्तविद्यासमानीकृतदेशिकाय नमः ।
ॐ अभ्यस्तवेदवेदाङ्गाय नमः ।
ॐ निखिलागपारगाय नमः ।
ॐ दरिद्रब्राह्मणीदत्तभिक्षामलकतोषिताय नमः ।
ॐ निर्भाग्यब्राह्मणीवाक्यश्रवणाकुलमानसाय नमः ।
ॐ द्विजदारिद्र्यविश्रांतिवाञ्छासंस्मृतभार्गवये नमः ।
ॐ स्वर्णधारास्तुतिप्रीतरमानुग्रहभाजनाय नमः ।
ॐ स्वर्णामलकसद्वृष्टिप्रसादानन्दितद्विजाय नमः ॥ ५० ॥

ॐ तर्कशास्त्रविशारदाय नमः ।
ॐ सांख्यशास्त्रविशारदाय नमः ।
ॐ पातञ्जलनयाभिज्ञाय नमः ।
ॐ भाट्टघट्टार्थतत्वविदे नमः ।
ॐ सम्पूर्णविद्याय नमः ।
ॐ सश्रीकाय नमः ।
ॐ दत्तदेशिकदक्षिणाय नमः ।
ॐ मातृसेवनसंसक्ताय नमः ।
ॐ स्ववेश्मनिलयाय नमः ।
ॐ सरिद्वर्तातपविश्रांतमातृदुःखापनोदकाय नमः ।
ॐ वीजनाद्युपचाराप्तमातृसौख्यसुखोदयाय नमः ।
ॐ सरिद्वेश्मोपसदनस्तुतिनन्दितनिमज्ञाय नमः ॥ ६० ॥

ॐ पूर्णादत्तवरोल्लासिगृहान्तिकसरिद्वराय नमः ।
ॐ आनन्दाश्चर्यभरितचित्तमातृप्रसादभुवे नमः ।
ॐ केरलाधिपसत्पुत्रवरदानसुरद्रुमाय नमः ।
ॐ केरलाधीशरचितनाटकत्रयतोषिताय नमः ।
ॐ राजोपनीतसौवर्णतुच्छीकृतमहामतये नमः ।
ॐ स्वनिकेतसमायातदधीच्यत्र्यादिपूजकाय नमः ।
ॐ आत्मतत्वविचारेण नन्दितातिथिमण्डलाय नमः ।
ॐ कुम्भोद्भवज्ञातवृत्तशोकविह्वलमातृकाय नमः ॥ ७० ॥

ॐ सुतत्वबोधानुनयमातृचिन्तापनोदकृते नमः ।
ॐ तुच्छसंसारविद्वेष्ट्रे नमः ।
ॐ सत्यदर्शनलालसाय नमः ।
ॐ तुर्याश्रमासक्तमतये नमः ।
ॐ मातृशासनपालकाय नमः ।
ॐ पूर्णानदीस्नानवेळा नक्रग्रस्तपदाम्बुजाय नमः ।
ॐ सुतवात्सल्यशोकार्तजननीदत्त शासनाय नमः ।
ॐ प्रैषोच्चारसंत्यक्तनक्रपीडाय नमः ।
ॐ जितेन्द्रियाय नमः ॥ ८० ॥

ॐ जननीपादपाथोजरजःपूतकलेवराय नमः ।
ॐ गुरूपसदानाकाङ्क्षिणे नमः ।
ॐ अर्थिताम्बानुशासनाय नमः ।
ॐ प्रतिज्ञातप्रसूदेहसंस्कारौजस्विसत्तमाय नमः ।
ॐ चिन्तनामात्रसानिध्यबोधनाश्वासिताम्बकाय नमः ।
ॐ सनाभिजनविन्यस्तमातृकाय नमः ।
ॐ ममतापहृते नमः ।
ॐ लब्धमात्राशीर्वचस्काय नमः ।
ॐ मातृगेहाद्विनिर्गताय नमः ।
ॐ सरित्तरङ्गसंत्रासानङ्गवाणीविबोधिताय नमः ॥ ९० ॥

ॐ स्वभुजोद्धृतगोपालमूर्तिपीडापहारकाय नमः ।
ॐ ईतिबाधाविनिर्मुक्तदेशाधिष्ठितमूर्तिकाय नमः ।
ॐ गोविन्दभगवत्पाददर्शनोद्यतमानसाय नमः ।
ॐ अतिक्रान्तमहामार्गाय नमः ।
ॐ नर्मदातटसंश्रिताय नमः ।
ॐ त्वङ्गत्तरङ्गसन्दोहरेवास्नायिने नमः ।
ॐ धृताम्बराय नमः ।
ॐ भस्मोद्धूलितसर्वाङ्गाय नमः ।
ॐ कृतसायह्निकक्रियाय नमः ।
ॐ गोविन्दार्यगुहान्वेषतत्पराय नमः ॥ १०० ॥

ॐ गुरुभक्तिमते नमः ।
ॐ गुहादर्शनसंजातहर्षपूर्णाश्रुलोचनाय नमः ।
ॐ प्रदक्षिणीकृतगुहाय नमः ।
ॐ द्वारन्यस्तनिजाङ्गकाय नमः ।
ॐ बद्धमूर्धाञ्जलिपुटाय नमः ।
ॐ स्तवतोषितदेशिकाय नमः ।
ॐ विज्ञापितस्वात्मवृत्ताय नमः ।
ॐ अर्थितब्रह्मदर्शनाय नमः ।
ॐ स्तवप्रीतगुरुन्यस्तपादचुम्बितमस्तकाय नमः ।
ॐ आर्यपादमुखावाप्तमहावाक्यचतुष्टयाय नमः ॥ ११० ॥

ॐ आचार्यबोधितात्मार्थाय नमः ।
ॐ आचार्यप्रीतिदायकाय नमः ।
ॐ गोविन्दभगवत्पादपाणिपङ्कजसंभवाय नमः ।
ॐ निश्चिन्ताय नमः ।
ॐ नियताहाराय नमः ।
ॐ आत्मतत्वानुचिन्तकाय नमः ।
ॐ प्रावृत्कालिकमार्गस्थप्राणिहिंसाभयार्दिताय नमः ।
ॐ आचार्याङ्घ्रिकृतावासाय नमः ।
ॐ आचार्याज्ञानुपालकाय नमः ।
ॐ पञ्चाहोरात्रवर्षाम्बुमज्जज्जनभयापहृते नमः ॥ १२० ॥

ॐ योगसिद्धिगृहीतेन्दुभवापूरकमण्डलाय नमः ।
ॐ व्युत्थितार्यश्रुतिचरस्ववृत्तपरितोषिताय नमः ।
ॐ व्याससूक्तिप्रत्यभिज्ञाबोधितात्मप्रशंसनाय नमः ।
ॐ देशिकादेशवशगाय नमः ।
ॐ सूत्रव्याकृतिकौतुकिने नमः ।
ॐ गुर्वनुज्ञातविश्वेशदिदृक्षागमनोत्सुकाय नमः ।
ॐ अवाप्तचन्द्रमौळीशनगराय नमः ।
ॐ भक्तिसंयुताय नमः ।
ॐ लसद्दण्डकराय नमः ।
ॐ मुण्डिने नमः ॥ १३० ॥

ॐ धृतकुण्डाय नमः ।
ॐ धृतव्रताय नमः ।
ॐ लज्जावरककौपीनकंथाच्छादितविग्रहाय नमः ।
ॐ स्वीकृताम्बुपवित्राय नमः ।
ॐ पादुकालसदङ्घ्रिकाय नमः ।
ॐ गङ्गावारिकृतस्नानाय नमः ।
ॐ प्रसन्नहृदयाम्बुजाय नमः ।
ॐ अभिषिक्तपुरारातये नमः ।
ॐ बिल्वतोषितविश्वपाय नमः ।
ॐ हृद्यपद्यावलीप्रीतविश्वेशाय नमः ॥ १४० ॥

ॐ नतविग्रहाय नमः ।
ॐ गन्ङ्गापथिकचण्डालविदूरगमनोत्सुकाय नमः ।
ॐ देहात्मभ्रमनिर्हारिचण्डालवचनादृताय नमः ।
ॐ चण्डालाकारविश्वेशप्रश्नानुप्रश्नहर्षिताय नमः ।
ॐ मनीषापञ्चकस्तोत्रनिर्माणनिपुणाय नमः ।
ॐ महते नमः ।
ॐ निजरूपसमायुक्तचन्द्रचूडालदर्शकाय नमः ।
ॐ तद्दर्शनसमाह्लादनिर्वृतात्मने नमः ।
ॐ निरामयाय नमः ।
ॐ निराकाराय नमः ॥ १५० ॥

ॐ निरातङ्काय नमः ।
ॐ निर्ममाय नमः ।
ॐ निर्गुणाय नमः ।
ॐ विभवे नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निजानन्दाय नमः ।
ॐ निरावरणाय नमः ।
ॐ ईश्वराय नमः ।
ॐ नित्यशुद्धाय नमः ।
ॐ नित्यबुद्धाय नमः ॥ १६० ॥

ॐ नित्यबोधघनात्मकाय नमः ।
ॐ ईशप्रसादभरिताय नमः ।
ॐ ईश्वराराधनोत्सुकाय नमः ।
ॐ वेदान्तसूत्रसद्भाष्यकरणप्रेरिताय नमः ।
ॐ प्रभवे नमः ।
ॐ इश्वराज्ञानुसरणपरिनिश्चितमानसाय नमः ।
ॐ ईशान्तर्धानसंदर्शिने नमः ।
ॐ विस्मयस्फरितेक्षणाय नमः ।
ॐ जाह्नवीतटिनीस्नानपवित्रतरमूर्तिकाय नमः ।
ॐ आह्निकानन्तध्यातगुरुपादसरोरुहाय नमः ॥ १७० ॥

ॐ श्रुतियुक्तिस्वानुभूतिसामरस्यविचारणाय नमः ।
ॐ लोकानुग्रहणैकान्तप्रवणस्वान्तसंयुताय नमः ।
ॐ विश्वेशानुग्रहावाप्तभाष्यग्रथननैपुणाय नमः ।
ॐ त्यक्तकाशीपुरीवासाय नमः ।
ॐ बदर्याश्रमचिन्तकाय नमः ।
ॐ तत्रत्यमुनिसन्दोहसंभाषणसुनिर्वृताय नमः ।
ॐ नानातीर्थकृतस्नानाय नमः ।
ॐ मार्गगामिने नमः ।
ॐ मनोहराय नमः ।
ॐ बदर्याश्रमसंदर्शनानन्दोद्रेकसंयुताय नमः ॥ १८० ॥

ॐ करबिल्वीफलीभूतपरमाद्वैततत्वकाय नमः ।
ॐ उन्मत्तकजगन्मोहनिवारणविचक्षणाय नमः ।
ॐ प्रसन्नगम्भीरमाहाभाष्यनिर्माणकौतुकिने नमः ।
ॐ श्रीमते नमः ।
ॐ उपनिषद्भाष्यग्रथनप्रथनोत्सुकाय नमः ।
ॐ गीताभाष्यामृतासारसन्तोषितजगत्त्रयाय नमः ।
ॐ श्रीमत्सनत्सुजातीयमुखग्रन्थनिबन्धकाय नमः ।
ॐ नृसिंहतापनीयादिभाष्योद्धारकृतादराय नमः ।
ॐ असंख्यग्रन्थनिर्मात्रे नमः ।
ॐ लोकानुग्रहकृते नमः ॥ १९० ॥

ॐ सुधिये नमः ।
ॐ सूत्रभाष्यमहायुक्तिखण्डिताखिलदुर्मताय नमः ।
ॐ भाष्यान्तरान्धकारौघनिवारणदिवाकराय नमः ।
ॐ स्वकृताशेषभाष्यादिग्रन्थाध्यापनतत्पराय नमः ।
ॐ शान्तिदान्त्यादिसंयुक्तशिष्यमण्डलमण्डिताय नमः ।
ॐ सनन्दनादिसच्छिष्यनित्याधीतस्वभाष्यकाय नमः ।
ॐ त्रिरधीतात्मभाष्यश्रीसनन्दनसमाश्रिताय नमः ।
ॐ जाह्नवीपरतीरस्थसनन्दनसमाह्वायिने नमः ।
ॐ गङ्गोत्थकमलव्रातद्वारायातसनन्दनाय नमः ।
ॐ आचार्यभक्तिमाहात्म्यनिदर्शनपरायणाय नमः ॥ २०० ॥

ॐ आनन्दमन्थरस्वान्तसनन्दनकृतानतये नमः ।
ॐ तदीयाश्लेषसुहिताय नमः ।
ॐ साधुमार्गनिदर्शकाय नमः ।
ॐ दत्तपद्मपदाभिख्याय नमः ।
ॐ भाष्याध्यापनतत्पराय नमः ।
ॐ तत्तत्स्थलसमायातपण्डिताक्षेपखण्डकाय नमः ।
ॐ नानाकुमतदुर्ध्वान्तध्वंसनोद्यतमानसाय नमः ।
ॐ धीमते नमः ।
ॐ अद्वैतसिद्धान्तसमर्थनसमुत्सुकाय नमः ।
ॐ वेदान्तमहारण्यमध्यसञ्चारकेसरिणे नमः ॥ २१० ॥

ॐ त्रय्यन्तनलिनीभृङ्गाय नमः ।
ॐ त्रय्यन्ताम्भोजभास्कराय नमः ।
ॐ अद्वैतामृतमाधुर्यसर्वस्वानुभवोद्यताय नमः ।
ॐ अद्वैतमार्गसन्त्रात्रे नमः ।
ॐ निर्द्वैतब्रह्मचिन्तकाय नमः ।
ॐ द्वैतारण्यसमुच्छेदकुठाराय नमः ।
ॐ निःसपत्नकाय नमः ।
ॐ श्रौतस्मार्ताध्वनीनानुग्रहणैहपरायणाय नमः ।
ॐ वावदूकबुधव्रातविस्थापनमहावचसे नमः ।
ॐ स्वीयवाग्वैखरीलीलाविस्मापितबुधव्रजाय नमः ॥ २२० ॥

ॐ श्लाघासहस्रसंश्रोत्रे नमः ।
ॐ निर्विकाराय नमः ।
ॐ गुणाकराय नमः ।
ॐ त्रय्यन्तसारसर्वस्वसङ्ग्रहैकपरायणाय नमः ।
ॐ त्रय्यन्तगूढपरमात्माख्यरत्नोद्धृतिक्षमाय नमः ।
ॐ त्रय्यन्तभाष्यशीतांशुविशदीकृतभूतलाय नमः ।
ॐ गङ्गाप्रवाहसदृशसूक्तिसाराय नमः ।
ॐ महाशायाय नमः ।
ॐ वितण्डिकाख्यवेतण्डखण्डाद्भुतपण्डिताय नमः ।
ॐ भाष्यप्रचारनिरताय नमः ॥ २३० ॥

ॐ भाष्यप्रवचनोत्सुकाय नमः ।
ॐ भाष्यामृताब्धिमथनसम्पन्नज्ञानसारभाजे नमः ।
ॐ भाष्यसारग्रहासक्तभक्तमुक्तिप्रदायकाय नमः ।
ॐ भाष्याकारयशोराशिपवित्रितजगत्त्रयाय नमः ।
ॐ भाष्यामृतास्वादलुब्धकर्मन्दिजनसेविताय नमः ।
ॐ भाष्यरत्नप्रभाजालदेदीपितजगत्त्रयाय नमः ।
ॐ भाष्यगङ्गाजलस्नातनिःशेषकलुषापहायाय नमः ।
ॐ भाष्यगाम्भीर्यसंद्रष्टृजनविस्मयकारकाय नमः ।
ॐ भाष्याम्भोनिधिनिर्मग्नभक्तकैवल्यदायकाय नमः ।
ॐ भाष्यचन्द्रोदयोल्लासविद्वस्तध्वान्तदक्षिणाय नमः ।
ॐ भाष्याख्यकुमुदव्रातविकासनसुचन्द्रमसे नमः ।
ॐ भाष्ययुक्तिकुठारौघनिकृत्तद्वैतदुर्द्रुमाय नमः ।
ॐ भाष्यामृताब्धिलहरीविहारापरिखिन्नधिये नमः ।
ॐ भाष्यसिद्धान्तसर्वस्वपेटिकायितमानसाय नमः ।
ॐ भाष्याख्यनिकषग्रावशोधिताद्वैतकाञ्चनाय नमः ।
ॐ भाष्यवैपुल्यगाम्भीर्यतिरस्कृतपयोनिधये नमः ।
ॐ भाष्याभिधसुधावृष्टिपरिप्लावितभूतलाय नमः ।
ॐ भाष्यपीयूषवर्षोन्मूलितसंतापसन्ततये नमः ।
ॐ भाष्यतन्तुपरिप्रोतसद्युक्तिकुसुमावलये नमः ॥ २५० ॥

ॐ वेदान्तवेद्यविभवाय नमः ।
ॐ वेदान्तपरिनिष्ठिताय नमः ।
ॐ वेदान्तवाक्यनिवहायार्थ्यपरिचिन्तकाय नमः ।
ॐ वेदान्तवाक्यविलसद्दैदम्पर्यप्रदर्शकाय नमः ।
ॐ वेदान्तवाक्यपीयूषस्यादिमाभिज्ञमानसाय नमः ।
ॐ वेदान्तवाक्यकुसुमरसास्वादनबम्भराय नमः ।
ॐ वेदान्तसारसर्वस्वनिधानायितचित्तभुवे नमः ।
ॐ वेदान्तनलिनीहंसाय नमः ।
ॐ वेदान्ताम्भोजभास्कराय नमः ।
ॐ वेदान्तकुमुदोल्लाससुधानिधये नमः ॥ २६० ॥

ॐ उदारधिये नमः ।
ॐ वेदान्तशास्त्रसाहाय्यपराजितकुवादिकाय नमः ।
ॐ वेदान्ताम्बोधिलहरीविहारपरिनिर्वृताय नमः ।
ॐ शिष्यशङ्कापरिच्छेत्रे नमः ।
ॐ शिष्याध्यापनतत्पराय नमः ।
ॐ वृद्धवेषप्रतिच्छन्नव्यासाचार्यावलोकनाय नमः ।
ॐ अध्याप्यमानविषयजिज्ञासुव्यासचोदिताय नमः ।
ॐ शिष्यौघवर्णितस्वीयमाहात्म्याय नमः ।
ॐ महिमाकराय नमः ।
ॐ स्वसूत्रभाष्यश्रवणसंतुष्टव्यासनन्दिताय नमः ॥ २७० ॥

ॐ पृष्टसूत्रार्थकाय नमः ।
ॐ वाग्मिने नमः ।
ॐ विनयोज्वलमानसाय नमः ।
ॐ तदन्तरेत्यादिसूत्रप्रश्नहर्षितमानसाय नमः ।
ॐ श्रुत्युपोद्बलितस्वीयवचोरञ्जितभूसुराय नमः ।
ॐ भूतसूक्ष्मोपसृष्टजीवात्मगतिसाधकाय नमः ।
ॐ ताण्डिश्रुतिगतप्रश्नोत्तरवाक्यनिदर्शकाय नमः ।
ॐ शतधाकल्पितस्वीयपक्षाय नमः ।
ॐ सर्वसमाधिकृते नमः ।
ॐ वावदूकमहाविप्रपरमाश्चर्यदायकाय नमः ॥ २८० ॥

ॐ तत्तत्प्रश्नसमाधानसन्तोषितमहामुनये नमः ।
ॐ वेदावसानवाक्यौघसामरस्यकृते नमः ।
ॐ अव्ययाय नमः ।
ॐ दिनाष्टककृतासंख्यवादाय नमः ।
ॐ विजयभाजनाय नमः ।
ॐ विस्मयानन्दभरितश्रोतृश्लाघितवैभवाय नमः ।
ॐ विष्णुशङ्करतावाचिपद्माङ्घ्रिप्रतिबोधिताय नमः ।
ॐ पद्माङ्घ्रिप्रार्थितस्वीयवाग्व्यपारविरामकाय नमः ।
ॐ तदीयवाक्यसारज्ञाय नमः ।
ॐ नमस्कारसमुद्यताय नमः ।
ॐ व्यासमाहात्म्यविज्ञात्रे नमः ।
ॐ व्यासस्तुतिपरायणाय नमः ।
ॐ नानापद्यावलीप्रीतव्यासानुग्रहभाजनाय नमः ।
ॐ निजरूपसमायुक्तव्याससंदर्शनोत्सुकाय नमः ।
ॐ तापिच्छमञ्जरीकान्तव्यासविग्रहदर्शकाय नमः ।
ॐ शिष्यावलीपरिवृताय नमः ।
ॐ प्रत्युद्गतिविधायकाय नमः ।
ॐ स्वीयापराधशमनसमभ्यर्थनतत्पराय नमः ।
ॐ बादरायणपादाब्जयुगलीस्पर्शनोद्यताय नमः ॥ ३०० ॥

ॐ व्यासदर्शनजस्वीयकार्तार्थ्यप्रतिपादकाय नमः ।
ॐ अष्टादशपुराणौघदुष्करत्वनिबोधकाय नमः ।
ॐ तत्तादृशपुराणौघनिर्मातृत्वाभिनन्दकाय नमः ।
ॐ परोपकारनैरत्यश्लाघकाय नमः ।
ॐ व्यासपूजकाय नमः ।
ॐ भिन्नशाखाचतुर्वेदविभागश्लाघकाय नमः ।
ॐ महते नमः ।
ॐ कलिकालीनमन्दात्मानुग्रहीतृत्वप्रदर्शकाय नमः ।
ॐ नानाप्रबन्धकर्तृत्वजनिताश्चर्यबोधकाय नमः ।
ॐ भारताख्यमहाग्रन्थदुष्करत्वप्रदर्शकाय नमः ॥ ३१० ॥

ॐ नारायणावतारत्वप्रदर्शिने नमः ।
ॐ प्रार्थनोद्यताय नमः ।
ॐ स्वानुग्रहैकफलकव्यासागमनशम्सकाय नमः ।
ॐ स्वकीयभाष्यालोकार्थव्याससम्प्रार्थकाय नमः ।
ॐ मुनये नमः ।
ॐ निजभाष्यगगाम्भीर्यविस्मापितमहामुनये नमः ।
ॐ भाष्यसर्वांशसंद्रष्टृव्यासाचार्याभिनन्दिताय नमः ।
ॐ निजसिद्धान्तसर्वस्वद्रष्टृव्यासाभिपूजिताय नमः ।
ॐ श्रुतिसूत्रसुसाङ्गत्यसंद्रष्टृव्यासपूजिताय नमः ।
ॐ श्लाघावादसहस्रैकपात्रभूताय नमः ॥ ३२० ॥

ॐ महामुनये नमः ।
ॐ गोविन्दयोगीशिष्यत्वश्लाघकव्यासपूजिताय नमः ।
ॐ स्वशङ्कर्रम्शतावादिव्यासवाक्यानुमोदकाय नमः ।
ॐ व्यासाशयाविष्करणभाष्यप्रथनतत्पराय नमः ।
ॐ सर्वसौभाग्यनिलयाय नमः ।
ॐ सर्वसौख्यप्रदायकाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदृशे नमः ।
ॐ साक्षिणे नमः ।
ॐ सर्वतोमुखनैपुण्याय नमः ॥ ३३० ॥

ॐ सर्वकर्त्रे नमः ।
ॐ सर्वगोप्त्रे नमः ।
ॐ सर्ववैभवसंयुताय नमः ।
ॐ सर्वभावविशेषज्ञाय नमः ।
ॐ सर्वशास्त्रविशारदाय नमः ।
ॐ सर्वाभीष्टप्रदाय नमः ।
ॐ देवाय नमः ।
ॐ सर्वदुःखनिवारणाय नमः ।
ॐ सर्वसंशयविच्छेत्रे नमः ।
ॐ सर्वसम्पत्प्रदायकाय नमः ॥ ३४० ॥

ॐ सर्वसौख्यविधात्रे नमः ।
ॐ सर्वामरकृतानतये नमः ।
ॐ सर्वर्षिगणसम्पूज्याय नमः ।
ॐ सर्वमङ्गलकारणाय नमः ।
ॐ सर्वदुःखापहाय नमः ।
ॐ सौम्याय नमः ।
ॐ सर्वान्तर्यमणाय नमः ।
ॐ बलिने नमः ।
ॐ सर्वाधाराय नमः ।
ॐ सर्वगामिने नमः ॥ ३५० ॥

ॐ सर्वतोभद्रदायकाय नमः ।
ॐ सर्वदुर्वादिदुर्गर्वखर्वीकरणकौतिकिने नमः ।
ॐ सर्वलोकसुविख्यातयशोराशये नमः ।
ॐ अमोघवाचे नमः ।
ॐ सर्वभक्तसमुद्धर्त्रे नमः ।
ॐ सर्वापद्विनिवारकाय नमः ।
ॐ सार्वभौमादिहैरण्यगर्भान्तानन्दचिन्तकाय नमः ।
ॐ भूयोग्रग्रन्थनिर्माणकृतव्यासार्यचोदनाय नमः ।
ॐ भेदवादिनिराशार्थिव्यासवाक्यानुमोदकाय नमः ।
ॐ यथागतस्वगमनबोधकव्यासचोदिताय नमः ॥ ३६० ॥

ॐ वेदान्तभाष्यरचनप्रचारादिविबोधकाय नमः ।
ॐ स्वकीयकृतकृत्यत्वबोधकाय नमः ।
ॐ प्रार्थनापराय नमः ।
ॐ मणिकर्णीमहाक्षेत्रव्याससानिध्ययाचकाय नमः ।
ॐ आत्मीयदेहसंत्यागप्रवृत्ताय नमः ।
ॐ व्यासचोदकाय नमः ।
ॐ निषिद्धदेहसंत्यागव्यासाज्ञापरिपालकाय नमः ।
ॐ अनिर्जितानेकवादिजयसम्प्रेरिताय नमः ।
ॐ सुखिने नमः ।
ॐ अवतारमहाकार्यसम्पूर्णत्वानुचिन्तकाय नमः ॥ ३७० ॥

ॐ स्वसूत्रभाष्यमाधुर्यप्रीतव्यासकृतादराय नमः ।
ॐ वरदानकृतोत्साहव्याससम्चोदिताय नमः ।
ॐ कवये नमः ।
ॐ विधिदत्तष्टसंख्याकवयसे नमः ।
ॐ सन्न्याससंग्रहिणे नमः ।
ॐ स्ववैदग्ध्याभिनिष्पन्नवयोष्टककृताश्रयाय नमः ।
ॐ व्यासाज्ञावैभवोत्पन्नषोडशाब्दाय नमः ।
ॐ शिवङ्कराय नमः ।
ॐ श्रुतिसूत्रमहाभाष्यत्रिवेण्युत्पत्तिभुवे नमः ।
ॐ शिवाय नमः ॥ ३८० ॥

ॐ वेदव्यासपदाम्भोजयुगलीस्पर्शनिर्वृताय नमः ।
ॐ भक्तिगर्भितवाक्यौघकुसुमाञ्जलिदायकाय नमः ।
ॐ व्यासदत्तवरग्राहिणे नमः ।
ॐ व्यासान्तर्धानदर्शकाय नमः ।
ॐ बादरायणविश्लेषव्यसनातुरमानसाय नमः ।
ॐ व्याससंचोदिताशेषदिग्विजयैककृतोद्यमाय नमः ।
ॐ कुमारिलावलोकेच्छवे नमः ।
ॐ दक्षिणाशागमोद्यताय नमः ।
ॐ भट्टपादापराभिख्यकुमारिलजयोत्सुकाय नमः ।
ॐ प्रयागगमनोद्युक्ताय नमः ॥ ३९० ॥

ॐ त्रिवेणीसङ्गमस्नानपवित्रतरमूर्तिकाय नमः ।
ॐ गङ्गातुङ्गतरङ्गौघदर्शनप्रीतमानसाय नमः ।
ॐ हृद्यानवद्यपद्यौघसंस्तुताभ्रसरिद्वराय नमः ।
ॐ भूयोभूयःकृतस्नानाय नमः ।
ॐ दण्डालङ्कृतहस्तकाय नमः ।
ॐ नानाघमर्षमन्त्रानुपाठकाय नमः ।
ॐ ध्यानतत्पराय नमः ।
ॐ नानामन्त्रजपप्रीताय नमः ।
ॐ मन्त्रसारज्ञाय नमः ।
ॐ उत्तमाय नमः ॥ ४०० ॥

ॐ मन्त्रार्थव्याकृतिक्षमाय नमः ।
ॐ मन्त्रमाणिक्यमञ्जूषायितचेतःप्रदेशकाय नमः ।
ॐ मन्त्ररत्नाकराय नमः ।
ॐ मानिने नमः ।
ॐ मन्त्रवैभवदर्शकाय नमः ।
ॐ मन्त्रशास्त्रार्थतत्वज्ञाय नमः ।
ॐ मन्त्रशास्त्रप्रवर्तकाय नमः ।
ॐ मान्त्रिकाग्रेसराय नमः ॥ ४१० ॥

ॐ मान्याय नमः ।
ॐ मन्त्राम्भोरुहषट्पदाय नमः ।
ॐ मन्त्रकाननसञ्चारकेसरिणे नमः ।
ॐ मन्त्रतत्पराय नमः ।
ॐ मन्त्राभिधसुकासारकलहंसाय नमः ।
ॐ महामतये नमः ।
ॐ मन्त्रसंशयविच्छेत्रे नमः ।
ॐ मन्त्रजातोपदेशकाय नमः ।
ॐ स्नानकालसमायातमातृस्मृतये नमः ।
ॐ अमोघधिये नमः ॥ ४२० ॥

ॐ आह्निकानुष्ठितिव्यग्राय नमः ।
ॐ यतिधर्मपरायणाय नमः ।
ॐ एकान्तमतये नमः ।
ॐ एकान्तशीलाय नमः ।
ॐ एकान्तसंश्रिताय नमः ।
ॐ भट्टपादतुषाङ्गारावेशवृत्तनिशामकाय नमः ।
ॐ भाष्यवार्तिकनिर्माणमनोरथसमीरिताय नमः ।
ॐ भट्टपादीयवृत्तान्तप्रत्यक्षीकरणोत्सुकाय नमः ।
ॐ कुमारिलसमालोकलालसाय नमः ।
ॐ गमनोत्सुकाय नमः ॥ ४३० ॥

ॐ तुषाग्निराशिमध्यस्थभट्टपादावलोकनाय नमः ।
ॐ प्रभाकरादिसच्छिष्यावृततन्मूर्तिदर्शकाय नमः ।
ॐ तुषाग्निस्थिततद्वक्त्रप्रसादालोकविस्मिताय नमः ।
ॐ अतर्कितागतप्रीतभट्टपादाभिनन्दिताय नमः ।
ॐ भट्टपादीयसच्छिष्यकृतनानोपचारकाय नमः ।
ॐ अन्त्यकालस्वसानिध्यसन्तोषितकुमारिलाय नमः ।
ॐ निजदर्शनसन्तुष्टभट्टपादाभिनन्दिताय नमः ।
ॐ सत्सङ्गमनमाहत्म्यवादिभट्टाभिपूजिताय नमः ।
ॐ संसारानित्यतावाचिभट्टशोकानुशोचकाय नमः ।
ॐ कालानैय्यत्यसंबोधिभट्टपादोक्तिशम्सनाय नमः ॥ ४४० ॥

ॐ ईशापह्नवजात्यन्तदोषवादसुसंश्रविणे नमः ।
ॐ बौद्धान्तेवासिताबोधिभट्टवाक्यप्रशम्सकाय नमः ।
ॐ भट्टपादीयसौधाग्रपतनाकर्णनातुराय नमः ।
ॐ वेदभक्तिप्रयुक्त्यैतत्क्षताभावनिशामकाय नमः ।
ॐ एकचक्षुःक्षतप्राप्तिशोचद्भट्टानुशोचकाय नमः ।
ॐ गुरुद्रोहाख्यदुरितसम्भवाकर्णनातुराय नमः ।
ॐ प्रायश्चित्तार्थरचिततुषाग्न्यावेशदर्शकाय नमः ।
ॐ स्वदर्शनजकार्तार्थ्यबोधिभट्टोक्तिपूजिताय नमः ।
ॐ स्वभाष्यवृत्तिरचनभाग्याभावोक्तिसंश्रविणे नमः ।
ॐ तत्प्रयुक्तयशोऽभावबोधिभट्टानुशोचकाय नमः ॥ ४५० ॥

ॐ निजावताराभिज्ञप्तिबोधिभट्टोक्तिशम्सनाय नमः ।
ॐ सुब्रह्मण्यावतारत्वबोधकाय नमः ।
ॐ श्लाघनापराय नमः ।
ॐ कर्मकाण्डप्रतिष्ठार्थतदीयागमबोधकाय नमः ।
ॐ साधुमार्गानुशिक्षार्थतदीयव्रतबोधकाय नमः ।
ॐ करकाम्बुकणासेकजीवनोत्सुकमानसाय नमः ।
ॐ लोकापवादासह्यत्वबोधिभट्टानुसारकृते नमः ।
ॐ आगमोक्तव्रतैकान्तनिष्ठभट्टानुमोदकाय नमः ।
ॐ आगमोक्त्यतिलङ्घित्वदुष्कीर्तिपरिहारकृते नमः ।
ॐ स्वकीयकृतकृत्यत्वाकाङ्क्षिभट्टानुसेविकाय नमः ॥ ४६० ॥

ॐ तारकाख्यब्रह्मविद्यापेक्षिभट्टाभिलाषकृते नमः ।
ॐ मण्डनाख्यमहासूरिविजयप्रेरिताय नमः ।
ॐ सुहृदे नमः ।
ॐ तत्पाण्डित्यगुणश्लाघिभट्टपादप्रणोदिताय नमः ।
ॐ प्रवृत्तिमार्गनिरततद्वृत्तान्तनिशामकाय नमः ।
ॐ मण्डनार्यजयोद्योगकर्तव्योक्तिसुसूचकाय नमः ।
ॐ दुर्वासःशापसंजातवाणीस्थितिनिशामकाय नमः ।
ॐ भट्टान्तेवासिमुख्यत्वाभिज्ञाय नमः ।
ॐ विज्ञानसागराय नमः ।
ॐ भारतीसाक्षिकानेकविवादकरणेरिताय नमः ॥ ४७० ॥

ॐ तदीयजयमात्रान्यजयप्राप्तिनिशामकाय नमः ।
ॐ वार्तिकग्रन्थकरणयोग्यताश्रवणादृताय नमः ।
ॐ मुहूर्तमात्रसानिध्यप्रार्थिभट्टानुमोदकाय नमः ।
ॐ तारकब्रह्मकथनकृतार्थितकुमारिलाय नमः ।
ॐ परमाद्वैततत्वज्ञभट्टपादानुचिन्तिताय नमः ।
ॐ भट्टानुग्रहणोद्युक्ताय नमः ।
ॐ विष्णुधामप्रवेशकाय नमः ।
ॐ आकाशमार्गसम्प्राप्तमण्डनीयनिवेशनाय नमः ।
ॐ माहिष्मत्याख्यनगरीरामणीयकदर्शनाय नमः ।
ॐ रेवावारिकणोन्मिश्रवातधूताखिलाश्रमाय नमः ॥ ४८० ॥

ॐ रेवानदीकृतस्नानाय नमः ।
ॐ नित्याह्नीकपरायणाय नमः ।
ॐ दृगध्वनीनतद्दासीदर्शनाय नमः ।
ॐ महिमान्विताय नमः ।
ॐ मण्डनीयमहासद्ममार्गप्रष्ट्रे नमः ।
ॐ महायशसे नमः ।
ॐ विस्मयाकुलतद्दासीदत्तोत्तराय नमः ।
ॐ उदारवाचे नमः ।
ॐ स्वतःप्रामाण्यादिवादिशुकसूचिततद्गृहाय नमः ।
ॐ कर्मेश्वरादिसंवादिशुकसूचिततद्गृहाय नमः ॥ ४९० ॥

ॐ जगद्धृवत्वादिवादिशुकसूचितसद्मकाय नमः ।
ॐ द्वारस्थनीडसंरुद्धशुकोक्तिश्लाघनापराय नमः ।
ॐ यथोक्तचिह्नविज्ञातमण्डनीयनिवेशनाय नमः ।
ॐ कवाटगुप्तिदुर्वेशगृहान्तर्गतिचिन्तकाय नमः ।
ॐ योगमाहात्म्यरचितव्योममार्गातिलंघनाय नमः ।
ॐ अङ्गणान्तःसमुत्पातिने नमः ।
ॐ परितो दृष्टसद्मकाय नमः ।
ॐ अभ्रंलिहमहासद्मरामणीयकदर्शनाय नमः ।
ॐ पद्मजन्माम्शसम्भूतमण्डनार्यावलोकनाय नमः ।
ॐ निमन्त्रितव्यासजैमिन्यङ्घ्रिक्षालनदर्शकाय नमः ॥ ५०० ॥

ॐ व्यासजैमिनिसाङ्गत्यदर्शनात्यन्तविस्मिताय नमः ।
ॐ तत्कालकृतसान्निध्यव्यासजैमिनिमानिताय नमः ।
ॐ अकस्माद्यतिसम्प्राप्तिकृद्धमण्डनवीक्षिताय नमः ।
ॐ प्रवृत्तिमार्गनिरतमण्डनार्यविमानिताय नमः ।
ॐ सोपालम्भतदीयोक्तिसमाधानविचक्षणाय नमः ।
ॐ मण्डनीयाखिलप्रश्नोत्तरदानविदग्धधिये नमः ।
ॐ वक्रोक्तिजालचातुर्यनिरुत्तरितमण्डनाय नमः ।
ॐ यतिनिन्दादोषबोधिव्यासवाक्यनिशामकाय नमः ।
ॐ साक्षाद्विष्णुस्वरूपत्वबोधकव्यासदर्शकाय नमः ।
ॐ व्यासाज्ञावाक्यवशगमण्डनार्यनिमन्त्रिताय नमः ॥ ५१० ॥

ॐ मण्डनार्यकृतानेकसपर्याविधिभाजनाय नमः ।
ॐ भैक्षार्थरचिताह्वानाय नमः ।
ॐ वादभिक्षैकयाचकाय नमः ।
ॐ विवादभिक्षामात्रार्थिस्वागमप्रतिबोधकाय नमः ।
ॐ अन्योन्यशिष्यताप्राप्तिपणबन्धप्रदर्शकाय नमः ।
ॐ अनादृताहारभिक्षाय नमः ।
ॐ वादभिक्षापरायणाय नमः ।
ॐ श्रुत्यन्तमार्गविस्तारमात्राकङ्क्षित्वबोधकाय नमः ।
ॐ विस्मयानन्दभरितमण्डनार्यप्रशम्सिताय नमः ।
ॐ चिराकाङ्क्षितसद्वादकथातोषितमण्डनाय नमः ॥ ५२० ॥

ॐ वादभिक्षाकृतोद्योगमण्डनार्यप्रशम्सकाय नमः ।
ॐ विवादसाक्षिशून्यत्वबोधिमण्डनचोदिताय नमः ।
ॐ मुनिद्वयीसाक्षितार्थिमण्डनार्यप्रशम्सकाय नमः ।
ॐ भारतीकृतमाध्यस्थ्यवादलोलुपमानसाय नमः ।
ॐ प्रतिज्ञापणबन्धादिजिज्ञासुत्वप्रदर्शकाय नमः ।
ॐ मण्डनार्यकृतासंख्यवीजनाद्युपचारकाय नमः ।
ॐ व्यासजैमिनिसान्निध्यसम्भाषणपरायणाय नमः ।
ॐ मुनिद्वयान्तर्धिदर्शिने नमः ।
ॐ द्विजेन्द्रालयनिर्गताय नमः ॥ ५३० ॥

ॐ रेवानदीसमीपस्थदेवालयनिवासकृते नमः ।
ॐ निजशिष्यजनैकान्तसम्भाषणपरायणाय नमः ।
ॐ श्राविताशेषविषयशिष्यावलिसमाश्रिताय नमः ।
ॐ व्यासजैमिनिसान्निध्यदुरापत्वानुचिन्तकाय नमः ।
ॐ त्रियामानिर्गमाकाङ्क्षिणे नमः ।
ॐ प्रातःस्नानपरायणाय नमः ।
ॐ कृताह्निकक्रियाय नमः ।
ॐ शिष्यमण्डलीपरिमण्डिताय नमः ।
ॐ मण्डनार्यमहासद्ममण्डनायितमूर्तिकाय नमः ।
ॐ विवादार्थकृतैकान्तनिश्चयाय नमः ॥ ५४० ॥

ॐ मण्डनादृताय नमः ।
ॐ सदस्यभावविलसद्वाणीसान्निध्यदर्शकाय नमः ।
ॐ विवादकृतिसन्नद्धमण्डनार्यप्रशम्सकाय नमः ।
ॐ सदस्यवादिसम्योगसमाह्लादितमानसाय नमः ।
ॐ प्रतिज्ञाकरणोत्साहिने नमः ।
ॐ वेदान्ताशयसूचकाय नमः ।
ॐ विश्वाकारसमाभातब्रह्म्यैकत्वप्रदर्शकाय नमः ।
ॐ शुक्तिरूप्यादिदृष्टान्तप्रत्यायितमृषात्मकाय नमः ।
ॐ ब्रह्मज्ञानैकसम्प्राप्यस्वात्मसंस्थितिबोधकाय नमः ॥ ५५० ॥

ॐ पुनर्जन्मापरामृष्टकैवल्यप्रतिपादकाय नमः ।
ॐ त्रयीमस्तकसन्दोहप्रामाण्योद्घाटनापराय नमः ।
ॐ पराजितस्वसम्प्राप्यशुक्लवस्त्रत्वबोधकाय नमः ।
ॐ जयापजयपक्षीयवाणीसाक्षित्वबोधकाय नमः ।
ॐ विश्वरूपीयसकलप्रतिज्ञाश्रवणोत्सुकाय नमः ।
ॐ वेदान्तामानताबोधितद्वाक्यश्रवणातुराय नमः ।
ॐ कर्मकाण्डीयवचनप्रामाण्याकर्णनाकुलाय नमः ।
ॐ क्रियायोगिवचोमात्रप्रामाण्याकर्णनक्षमाय नमः ।
ॐ कर्मसम्प्राप्यकैवल्यबोधिमण्डनदर्शकाय नमः ॥ ५६० ॥

ॐ यावदायुःकर्मजालकर्तव्यत्वोक्तिसंश्रविणे नमः ।
ॐ पराजितस्वकाषायग्रहवाक्यानुमोदकाय नमः ।
ॐ भारतीसाक्षिकासंख्यवादोद्युक्ताय नमः ।
ॐ यतीश्वराय नमः ।
ॐ दैनन्दिनाह्निकोपान्तसमारब्धविवादकाय नमः ।
ॐ भारतीनिहितस्वीयगलालम्बिसुमालिकाय नमः ।
ॐ मण्डनीयगलालम्बिमालालालित्यदर्शकाय नमः ।
ॐ मालामालिन्यनिर्णेयपराजयनिशामकाय नमः ।
ॐ गृहकर्मसमासक्तवाणीदत्तसुभैक्ष्यकाय नमः ।
ॐ भिक्षोत्तरक्षणारब्धविवादापरिखिन्नधिये नमः ॥ ५७० ॥

ॐ ऊर्ध्वोपविष्टब्रह्मादिपीतस्वीयवचोऽमृताय नमः ।
ॐ क्रोधवाक्फलजात्यादिदोषशून्यमहावचसे नमः ।
ॐ अद्वैतखण्डनोद्युक्तमण्डनीयोक्तिखण्डनाय नमः ।
ॐ जीवेश्वरजगद्भेदवादभेदनलालसाय नमः ।
ॐ उद्धालकश्वेतकेतुसंवादादिनिदर्शकाय नमः ।
ॐ तत्त्वमस्यादिवाक्यौघस्वारस्यप्रतिपादकाय नमः ।
ॐ विधिशेषत्ववचननिर्मूलत्वप्रदर्शकाय नमः ।
ॐ भिन्नप्रकरणोपात्ततत्तात्पर्यप्रदर्शकाय नमः ।
ॐ उपासनार्थतावादनिर्मूलनपरायणाय नमः ।
ॐ केवलाद्वैतविश्रान्तवाक्यतात्पर्यदर्शकाय नमः ।
ॐ सच्चिदानन्दरूपात्मप्रतिपादनतत्पराय नमः ॥ ५८० ॥

ॐ जपमात्रोपयोगित्वनिर्युक्तित्वानुदर्शकाय नमः ।
ॐ अभेदबोधिवाक्यौघप्राबल्यपरिदर्शकाय नमः ।
ॐ भेदबुद्धिप्रमाणत्वसर्वांशोन्मूलनक्षमाय नमः ।
ॐ भेदसंदर्शिवाक्यौघप्रामाण्याभावसाधकाय नमः ।
ॐ भेदप्रत्यक्ष्यदौर्बल्यप्रतिपादनतत्पराय नमः ।
ॐ भेदनिन्दासहस्रोक्तितात्पर्यप्रतिपादकाय नमः ।
ॐ लोकप्रसिद्धभेदानुवादकत्वप्रदर्शकाय नमः ।
ॐ अप्रसिद्धाद्वैतबोधिवाक्यप्रामाण्यसाधकाय नमः ।
ॐ नानादृष्टान्तसंदर्शिने नमः ।
ॐ श्रुतिवाक्यनिदर्शकाय नमः ॥ ५९० ॥

ॐ युक्तिसाहस्रघटितस्वानुभूतिप्रदर्शकाय नमः ।
ॐ श्रुतियुक्तिसुसौहार्ददर्शकाय नमः ।
ॐ वीतमत्सराय नमः ।
ॐ हेतुदोषांशसंदर्शिमण्डनाक्षेपखण्डनाय नमः ।
ॐ भेदौपाधिकताबोधिने नमः ।
ॐ सत्याद्वैतानुदर्शकाय नमः ।
ॐ असम्सारिपरब्रह्मसाधनैकान्तमानसाय नमः ।
ॐ क्षेत्रज्ञपरमात्मैक्यवादिगीतादिनिदर्शकाय नमः ।
ॐ अद्यारोपापवादाप्तनिष्प्रपञ्चत्वदर्शकाय नमः ।
ॐ युक्तिसाहस्ररचितदुर्वादिमतखण्डनाय नमः ॥ ६०० ॥

ॐ मण्डनीयगलालम्बिमालामालिन्यदर्शकाय नमः ।
ॐ पुष्पवृष्टिसंछन्नाय नमः ।
ॐ भारतीप्रतिनन्दिताय नमः ।
ॐ भिक्षाकालोपसम्प्राप्तभारतीपरिदर्शकाय नमः ।
ॐ उभयाह्वानकृद्वाणीवैदग्ध्यश्लाघनापराय नमः ।
ॐ भारतीबोधितस्वीयदुर्वासःशापसंश्रविणे नमः ।
ॐ जयावधिकतच्छापवृत्तान्ताकर्णनाय नमः ।
ॐ वशिने नमः ।
ॐ स्वधामगमनोद्युक्तभारतीप्रतिरोधकाय नमः ।
ॐ वनदुर्गामहामन्त्रकृतवाणीसुबाधनाय नमः ॥ ६१० ॥

ॐ सरस्वत्यवतारत्वबोधकाय नमः ।
ॐ वेदविद्वराय नमः ।
ॐ भक्तिमत्परतन्त्रत्वबोधकाय नमः ।
ॐ विनयोज्वलाय नमः ।
ॐ स्वानुज्ञावधिभूलोकनिवासप्रार्थनापराय नमः ।
ॐ मण्डनीयाशयज्ञानप्रवृत्ताय नमः ।
ॐ विगतस्पृहाय नमः ।
ॐ कर्मजाड्यपराभूततत्सन्देहापनोदकाय नमः ।
ॐ निजापजयसंजातदुःखाभावोक्तिसंश्रविणे नमः ।
ॐ जैमिन्युक्तिनिराशानुशोचन्मण्डनबोधकाय नमः ॥ ६२० ॥

ॐ कामनावदनुग्राहिजैमिन्याशयबोधकाय नमः ।
ॐ कर्मप्रणाडीमात्रत्वबोधिने नमः ।
ॐ जैमिनिसम्मताय नमः ।
ॐ साक्षान्मोक्षैकफलकज्ञानवाचिने नमः ।
ॐ महावचसे नमः ।
ॐ कर्मौघफलदातृत्वानुपपत्तिप्रपञ्चकाय नमः ।
ॐ ईशैकफलदातृत्वसाधकाय नमः ।
ॐ युक्तिबोधकाय नमः ।
ॐ जैमिनीयवचोजालतात्पर्योद्घाटनक्षमाय नमः ।
ॐ अनुमेयेश्वराभावमात्रतात्पर्यसूचकाय नमः ।
ॐ वेदैकगम्येशवादिजैमिन्याशयसूचकाय नमः ।
ॐ डोलायमानहृदयमण्डनार्यावलोकनाय नमः ।
ॐ तत्सन्देहापनोदार्थागतजैमिनिशम्सकाय नमः ।
ॐ स्वोक्तसर्वांशसाधुत्वबोधिजैमिनिशम्सकाय नमः ।
ॐ जैमिन्युदितसर्वज्ञभावाय नमः ।
ॐ जैमिनिपूजिताय नमः ।
ॐ निजावतारसंसूचिजैमिनिप्रतिनन्दिताय नमः ।
ॐ जैमिनिव्यासवचनतात्पर्यांशप्रदर्शकाय नमः ।
ॐ जैमिन्यन्तर्धिसंदर्शिने नमः ।
ॐ सर्वतो जयभाजनाय नमः ॥ ६४० ॥

ॐ साष्टाङ्गपातप्रणतमण्डनार्यप्रसादकृते नमः ।
ॐ स्वीयावतारताभिज्ञमण्डनार्याभिनन्दिताय नमः ।
ॐ स्वानभिज्ञत्वानुशोचिमण्डनार्यप्रसंसकाय नमः ।
ॐ स्वकर्मजाड्यानुशोचन्मण्डनोक्त्यभिनन्दकाय नमः ।
ॐ सम्सारतापसम्बोधिमण्डनोक्त्यभिनन्दकाय नमः ।
ॐ परमानन्दलहरीविहरन्मण्डनादृताय नमः ।
ॐ स्वाज्ञानतिमिरापायबोधिमण्डनशम्सकाय नमः ।
ॐ अविद्याराक्षसीग्रस्तपरमात्मोद्धृतिक्षमाय नमः ।
ॐ स्वापराधक्षमापेक्षिमण्डनार्याभियाचिताय नमः ।
ॐ मण्डनार्यकृतस्वीयावतारत्वसमर्थनाय नमः ॥ ६५० ॥

ॐ पूर्वार्जितस्वसुकृतश्लाघिमण्डनपूजिताय नमः ।
ॐ स्वसंवादातिसन्तुष्टमण्डनाधिकनन्दिताय नमः ।
ॐ स्वसंवादातिदौर्लभ्यबोधिमण्डनशम्सकाय नमः ।
ॐ नानास्तुतिवचोगुंफसन्तुष्टस्वान्तसम्युताय नमः ।
ॐ मण्डनार्यकृतासंख्यनमोवाकप्रशंसनाय नमः ।
ॐ मण्डनारचितस्तोकस्तुतिसाहस्रभाजनाय नमः ।
ॐ स्वपादशरणापन्नमण्डनानुग्रहोत्सुकाय नमः ।
ॐ निजकिङ्करताबोधिमण्डनोक्तिप्रशम्सकाय नमः ।
ॐ मण्डनीयमहाभक्तितरलीकृतमानसाय नमः ।
ॐ तदीयजन्मसाफल्यापादनोद्यतमानसाय नमः ॥ ६६० ॥

ॐ सुतदारगृहत्यागासक्तमण्डनशम्सकाय नमः ।
ॐ मण्डनीयकलत्रानुमतिसम्पादनोत्सुकाय नमः ।
ॐ मुन्युक्तसर्ववृत्तज्ञवाणीसमनुमोदिताय नमः ।
ॐ मण्डनप्राप्तशिष्यत्वाबोधिवाणीप्रशम्सकाय नमः ।
ॐ मुन्युक्तसर्ववृत्तान्तयाथार्थ्यपरिचिन्तकाय नमः ।
ॐ समग्रविजयाभावबोधिवाण्युक्तिचिन्तकाय नमः ।
ॐ निजार्धभागतावाचिवाणिप्रागल्भ्यचिन्तकाय नमः ।
ॐ महिलाजनसंवाददोषोद्घाटनतत्पराय नमः ।
ॐ याज्ञवल्क्यस्त्रीविवाददर्शिवाण्युक्तिपूजकाय नमः ।
ॐ सुलभाजनकाद्युक्तिप्रत्युक्तिपरिचिन्तकाय नमः ॥ ६७० ॥

ॐ विद्वत्सभामध्यवर्तिने नमः ।
ॐ वाणीसंवादकाय नमः ।
ॐ वाग्झरीमाधुरीयोगदूरीकृतसुधारसाय नमः ।
ॐ भारतीचिन्तिताशेषशास्त्राजय्यत्ववैभवाय नमः ।
ॐ अतिबाल्यकृतसन्यासाय नमः ।
ॐ विषयौघपराङ्ग्मुखाय नमः ।
ॐ कामशास्त्रकृतप्रश्नाय नमः ।
ॐ चिन्तनापरमानसाय नमः ।
ॐ जनापवादचकिताय नमः ।
ॐ यतिधर्मप्रवर्तकाय नमः ॥ ६८० ॥

ॐ कामशास्त्रानभिज्ञत्वबहिःप्रकटनोद्यताय नमः ।
ॐ मासमात्रावधिप्रार्थिने नमः ।
ॐ वाण्यनुज्ञाताय नमः ।
ॐ आत्मवते नमः ।
ॐ गमनार्थकृतोद्योगाय नमः ।
ॐ शिष्यावलिपरिष्कृताय नमः ।
ॐ योगशक्तिकृताकाशसञ्चाराय नमः ।
ॐ योगतत्वविदे नमः ।
ॐ गतचेतनभूपालगात्रदर्शिने नमः ।
ॐ प्रहृष्टधिये नमः ।
ॐ प्रमदाजनसंवीतराजकायप्रदर्शकाय नमः ।
ॐ तच्छरीरनुप्रवेशसमुत्सुकितमानसाय नमः ।
ॐ सनन्दनादिसच्छिष्यसमापृच्छापरायणाय नमः ।
ॐ भक्तिमत्तरपद्माङ्घ्रिनिषिद्धगमनाय नमः ।
ॐ व्रतिने नमः ।
ॐ सनन्दनोक्तविषयाकर्षकत्वस्वभावकाय नमः ।
ॐ ऊर्ध्वरेतोव्रतापोहशङ्किपद्माङ्घ्रिबोधकाय नमः ।
ॐ सन्यासधर्मशैथिल्याशङ्किपद्माङ्घ्रिवारिताय नमः ।
ॐ देहाभिमानवन्मात्रपापसम्भवबोधकाय नमः ।
ॐ निरहङ्कारकर्मौघलेपाभावावबोधकाय नमः ॥ ७०० ॥

ॐ गुहाहितात्मीयदेहरक्षणीयत्वबोधकाय नमः ।
ॐ सम्प्राप्तामरकाभिख्यराजदेहाय नमः ।
ॐ विशेषविदे नमः ।
ॐ निजप्रवेशचलितराजकीयशरीरभृते नमः ।
ॐ अकस्माज्जीवसम्प्राप्तिविस्मापिततदङ्गनाय नमः ।
ॐ प्रभूतहर्षवनिताव्यूहसन्दर्शनोत्सुकाय नमः ।
ॐ विस्मयानन्दभरितमन्त्रिमुख्याभिनन्दिताय नमः ।
ॐ शङ्खदुन्दुभिनिर्घोषसमाकर्णनतत्पराय नमः ॥ ७१० ॥

ॐ समस्तजनतानन्दजनकाय नमः ।
ॐ मङ्गलप्रदाय नमः ।
ॐ पुरोहितकृतस्वीयशान्तिकर्मणे नमः ।
ॐ शमावनये नमः ।
ॐ कृतमाङ्गलिकाय नमः ।
ॐ भद्रगजारूढाय नमः ।
ॐ निरीहिताय नमः ।
ॐ सचिवादिकृतस्वीयसत्काराय नमः ।
ॐ साधुसम्मताय नमः ।
ॐ पृथिवीपालनोद्युक्ताय नमः ।
ॐ धर्माधर्मविशेषविदे नमः ॥ ७२० ॥

ॐ नीतिमार्गसुनिष्णात्रे नमः ।
ॐ राजकार्यानुपालकाय नमः ।
ॐ निजौदार्यादिजनितमन्त्रिसंशयभाजनाय नमः ।
ॐ स्वकीयगुणसन्दोहसमाह्लादितसज्जनाय नमः ।
ॐ परकायप्रवेष्ट्यत्वज्ञातृमन्त्रिप्रपूजिताय नमः ।
ॐ मन्त्रिविन्यस्तनिखिलराज्यभाराय नमः ।
ॐ धराधिपाय नमः ।
ॐ अन्तःपुरकृतावासाय नमः ।
ॐ ललनाजनसेविताय नमः ।
ॐ भूपालदेहसम्प्राप्तनानाक्रीडामहोत्सवाय नमः ।
ॐ विषयानन्दविमुखाय नमः ।
ॐ विषयौघविनिन्दकाय नमः ।
ॐ विषयारातिशमनाय नमः ।
ॐ विषयातिविदूरधिये नमः ।
ॐ विषयाख्यमहारण्यनिकृन्तनकुठारकाय नमः ।
ॐ विषयाख्यविषज्वालासम्स्पर्शरहिताय नमः ।
ॐ यमिने नमः ।
ॐ विषयाम्बुधिसंशोषबडबाग्निशिखायिताय नमः ।
ॐ कामक्रोधादिषड्वैरिदूरीभूतान्तरङ्गकाय नमः ।
ॐ विषयासारतादर्शिने नमः ॥ ७४० ॥

ॐ विषयानाकुलांतराय नमः ।
ॐ विषयाख्यगजव्रातदमनोद्युक्तकेसरिणे नमः ।
ॐ विषयव्याघ्रदर्पघ्नाय नमः ।
ॐ विषयव्यालवैद्यकाय नमः ।
ॐ विषयौघदुरन्तत्वचिन्तकाय नमः ।
ॐ वीतचापलाय नमः ।
ॐ वात्सानयकलासारसर्वस्वग्रहणोत्सुकाय नमः ।
ॐ भूपदेहकृतासंख्यभोगाय नमः ।
ॐ नृपतिवेषभृते नमः ।
ॐ समयात्ययसम्बोधिशिष्यवर्गानुचिन्तिताय नमः ॥ ७५० ॥

ॐ दुःखार्णवनिमग्नस्वशिष्यवर्गानुचिन्तकाय नमः ।
ॐ इतिकर्तव्यतामूढशिष्यवर्गगवेषिताय नमः ।
ॐ मृतोत्थियनृपश्रोतृशिष्याभिज्ङातधामकाय नमः ।
ॐ नानारुचिरवेषाढ्यनिजशिष्यावलोकनाय नमः ।
ॐ गानविद्यातिनैपुण्यशिष्यनागावकर्णनाय नमः ।
ॐ अन्योपदेशरचितहृद्यपद्यसुसंश्रविणे नमः ।
ॐ नानार्थगर्भशिष्योक्तपयार्थपरिचिन्तकाय नमः ।
ॐ वेदान्तार्थपरिप्रोतवाक्यश्रवणकौतिकिने नमः ।
ॐ तत्वमस्यादिशिष्योक्तवाक्यार्थपरिचिन्तकाय नमः ।
ॐ सर्ववेदान्तसंगूढपरमात्मानुचिन्तकाय नमः ।
ॐ निजशिष्याशयाभिज्ङाय नमः ।
ॐ निजकायप्रवेशकृते नमः ।
ॐ दंदह्यमानात्मदेहदर्शिने नमः ।
ॐ त्वरितमानसाय नमः ।
ॐ तदानीन्तनसन्तापशमनोपायचिन्तकाय नमः ।
ॐ लक्ष्मीनृसिंहस्तवननिश्चितात्मने नमः ।
ॐ सुपद्यकृते नमः ।
ॐ नानास्तुतिवचोगुम्फप्रीणितश्रीनृसिंहकाय नमः ।
ॐ नृसिंहकरुणाशान्तसन्तापवपुराश्रिताय नमः ।
ॐ सनन्दनादिसच्छिष्यसंवृतोभयपार्श्वकाय नमः ॥ ७७० ॥

ॐ निजवृत्तान्तकथनतत्पराय नमः ।
ॐ शिष्यभावविदे नमः ।
ॐ आकाशमार्गगमनाय नमः ।
ॐ मण्डनार्यनिवेशदृशे नमः ।
ॐ विषयास्वादविमुखमण्डनार्याभिनन्दकाय नमः ।
ॐ मण्डनार्यकृतासंख्यप्रणामाञ्जलिदानकाय नमः ।
ॐ सन्न्यासनिश्चितस्वान्तमण्डनार्यप्रशंसकाय नमः ।
ॐ विष्टरस्थितिविश्रान्ताय नमः ।
ॐ शारदाकृतदर्शनाय नमः ।
ॐ शारदाश्लाघितस्वीयसार्वज्ञ्याय नमः ॥ ७८० ॥

ॐ वादलोलुपाय नमः ।
ॐ निजधामगमोद्युक्तवाण्यन्तर्धानदर्शकाय नमः ।
ॐ योगमाहात्म्यसंदृष्टवाणीभाषणतत्पराय नमः ।
ॐ विधिपत्नीत्वसंदर्शिने नमः ।
ॐ तन्माहात्म्यानुदर्शकाय नमः ।
ॐ स्वकल्पितर्ष्यश‍ृङ्गादिक्षेत्रवासाभिकाङ्क्षकाय नमः ।
ॐ श‍ृङ्गगिर्यादिसुक्षेत्रसानिध्यप्रार्थनापराय नमः ।
ॐ भारतीसमनुज्ञातक्षेत्रसानिध्यतोषिताय नमः ।
ॐ अकस्मातन्तर्धिदर्शिने नमः ॥ ७९० ॥

ॐ विस्मयाकुलमानसाय नमः ।
ॐ विधिवद्दत्तसर्वस्वमण्डनार्यानुमोदकाय नमः ।
ॐ सन्न्यासगृह्यविध्युक्तसर्वकर्मोपदेशकाय नमः ।
ॐ श्रीमन्मण्डनकर्णोक्तमहावाक्यचतुष्टयाय नमः ।
ॐ महावाक्यगताशेषतत्वार्थश्रावकाय नमः ।
ॐ गुरवे नमः ।
ॐ तत्वम् पदगवाच्यार्थलक्ष्यार्थप्रतिपादकाय नमः ।
ॐ लक्षोभयार्थैक्यबोधिने नमः ।
ॐ नानादृष्टान्तदर्शकाय नमः ।
ॐ देहाद्यहम्ताममतासमूलोन्मूलनक्रमाय नमः ।
ॐ बृहदारण्यकप्रोक्तमहामत्स्यनिदर्शकाय नमः ।
ॐ जाग्रदाद्यात्मसम्बन्धराहित्यप्रतिपादकाय नमः ।
ॐ विवर्तवादसिद्धान्तसमर्थनपरायणाय नमः ।
ॐ तात्पर्यलिङ्गनिर्णीतपरमाद्वैततत्वकाय नमः ।
ॐ गुरुमाहात्म्यसंदर्शिने नमः ।
ॐ तत्वविदे नमः ।
ॐ तत्वबोधकाय नमः ।
ॐ निजाङ्घ्रियुग्मपतितसुरेश्वरकटाक्षकृते नमः ।
ॐ करुणालिङ्गितापाङ्गक्षपितान्तस्तमोमलाय नमः ।
ॐ सुरेश्वराख्यासंदात्रे नमः ॥ ८१० ॥

ॐ सुरेश्वरसुपूजिताय नमः ।
ॐ नर्मदातीरसंवासिने नमः ।
ॐ श्रीशैलगमनोत्सुकाय नमः ।
ॐ मल्लिकार्जुनसंदर्शिने नमः ।
ॐ भ्रमराम्बाप्रणामकृते नमः ।
ॐ माहेश्वरादिविजयिशिष्यवर्गसमाश्रिताय नमः ।
ॐ अशेषदिक्प्रसृमरयशोज्योत्स्नानिशाकराय नमः ।
ॐ निजमाहात्म्यसंश्रोतृकापालिककृतानतये नमः ।
ॐ कापालिककृतानेकस्तुतिजालाय नमः ।
ॐ निरादराय नमः ॥ ८२० ॥

ॐ कपालिप्रीणनार्थस्वगमनोक्तिसुसंश्रविणे नमः ।
ॐ सर्वज्ञमस्तकापेक्षितदुक्तिपरिचिन्तकाय नमः ।
ॐ निजसर्वज्ञतावाचिकापालोक्तिविचिन्तकाय नमः ।
ॐ स्वशिरःप्रार्थनोद्युक्तकापालिककृतानतये नमः ।
ॐ बह्वपायस्वीयकायदोषदर्शनतत्पराय नमः ।
ॐ परोपकारनैरत्यव्रतपालनतत्पराय नमः ।
ॐ निजकायापगमननिर्व्याकुलनिजान्तराय नमः ।
ॐ समाधिकालीनशिरश्छेदानुज्ञाप्रदायकाय नमः ।
ॐ एकान्तसंस्थिताय नमः ।
ॐ योगिने नमः ॥ ८३० ॥

ॐ समाध्यालीनमानसाय नमः ।
ॐ परमात्मानुसन्धाननिर्गताशेषचिन्तनाय नमः ।
ॐ निष्कम्पदेहाय नमः ।
ॐ निर्मोहाय नमः ।
ॐ निरन्तरसुखात्मकाय नमः ।
ॐ स्ववधोद्युक्तकापालिकागमनावबोधकाय नमः ।
ॐ जत्रुप्रदेशनिहितचिबुकाय नमः ।
ॐ दृष्टनासिकाय नमः ।
ॐ सिद्धासनसमासीनाय नमः ।
ॐ निर्गतद्वैतभावनाय नमः ॥ ८४० ॥

ॐ चिन्मात्रपरमानन्दलहरीमग्नमानसाय नमः ।
ॐ कृपाणकरकापालिवधोद्योगानवेक्षकाय नमः ।
ॐ ज्ञातवृत्तान्तपद्माङ्घ्रिमारितस्वीयशत्रुकाय नमः ।
ॐ नृसिंहवेषपद्माङ्घ्रिकृतार्भटविचालिताय नमः ।
ॐ समाधिव्युत्थितमतये नमः ।
ॐ उन्मीलितविलोचनाय नमः ।
ॐ तदट्टहासनिर्घोषबधिरीभूतकर्णकाय नमः ।
ॐ दंष्ट्राकरालवदनश्रीमन्नृहरिदर्शकाय नमः ।
ॐ आक्स्मिकनृसिंहावलोकनस्तिमितान्तराय नमः ।
ॐ निर्भीताय नमः ।
ॐ गलदानन्दभाष्पाय नमः ।
ॐ स्तुतिपरायणाय नमः ।
ॐ नृसिंहक्रोधशान्त्यर्थप्रार्थनातत्पराय नमः ।
ॐ यतये नमः ।
ॐ नृसिंहावेशसम्भ्रान्तपद्मपादप्रदर्शकाय नमः ।
ॐ स्वप्नायितस्ववृत्तान्तज्ञातृपद्माङ्घ्रिप्रणताय नमः ।
ॐ विस्मयाकुलाय नमः ।
ॐ गोकर्णाभ्यर्णसञ्चारिणे नमः ।
ॐ गोकर्णेश्वरपादाब्जप्रणन्त्रे नमः ।
ॐ प्रीतमानसाय नमः ।
ॐ गोकर्णनाथसम्स्तोत्रे नमः ।
ॐ त्रिरात्रस्थितितत्पराय नमः ।
ॐ मूकाम्बिकामहादेवीसन्दर्शनकृतार्थधिये नमः ।
ॐ द्विजदम्पतिसन्दर्शिने नमः ।
ॐ तद्रोदनविखिन्नधिये नमः ।
ॐ तदङ्कगामिमृतकशिशुसन्दर्शनातुराय नमः ।
ॐ अनङ्गवाणीसंश्रोत्रे नमः ।
ॐ पुत्रोज्जीवनलालसाय नमः ॥ ८७० ॥

ॐ द्विजसंवर्णितस्वीयमहिमाय नमः ।
ॐ सर्वपालकाय नमः ।
ॐ तत्कालोत्थिततत्पुत्रजीवनप्रीतमानसाय नमः ।
ॐ निजमाहात्म्यसन्द्रष्टृजनविस्मयकारकाय नमः ।
ॐ मूकाम्बादर्शनाकाङ्क्षिणे नमः ।
ॐ तत्क्षेत्रवासतत्पराय नमः ।
ॐ उच्चावचगभीरार्थस्तोत्रनिर्माणकौतुकिने नमः ।
ॐ स्वकर्मनिष्ठविप्राढ्यश्रीबलिग्रामसेवकाय नमः ।
ॐ प्रभाकराख्यसद्विप्रबालमौग्ध्यापनोदकाय नमः ।
ॐ स्वपादशरणायाततद्विप्रानुग्रहोत्सुकाय नमः ॥ ८८० ॥

ॐ प्रणामकर्तृतत्पुत्रसमुत्थापनतत्पराय नमः ।
ॐ द्विजवर्णिततत्पुत्रमुग्धचेष्टावचःश्रविणे नमः ।
ॐ अन्तःप्रच्छन्नवह्न्याभद्विजदारकदर्शनाय नमः ।
ॐ तन्माहात्म्यविशेषज्ञाय नमः ।
ॐ मौनमुद्राविभेदकाय नमः ।
ॐ द्विजदारकसम्प्रश्नकरणोद्यतमानसाय नमः ।
ॐ तदीयजडताहेतुपृच्छकाय नमः ।
ॐ करुणाकराय नमः ।
ॐ बालवेषप्रतिच्छन्नतदुक्तिश्रवणोत्सुकाय नमः ।
ॐ देहादिजडताबोधिबालवाक्यातिविस्मिताय नमः ॥ ८९० ॥

ॐ स्वचेतनत्वसम्बोधितद्वचःश्लाघनापराय नमः ।
ॐ पद्यद्वादशिकाकर्तृतत्प्रज्ञाश्लाघनोत्सुकाय नमः ।
ॐ तत्त्वज्ञताप्रकटतदुक्तिप्रतिनन्दकाय नमः ।
ॐ अध्यापनादिरहितबालप्रज्ञातिविस्मिताय नमः ।
ॐ तदनुग्रहणोद्युक्ताय नमः ।
ॐ तन्मूर्धन्य्स्तहस्तकाय नमः ।
ॐ गृहवासाद्ययोग्यत्वदर्शकाय नमः ।
ॐ श्लाघनापराय नमः ।
ॐ द्विजातिप्रेषणोद्युक्ताय नमः ।
ॐ शिष्यसंग्रहणोद्युक्ताय नमः ॥ ९०० ॥

ॐ हस्तामलकसंज्ञासन्द्रात्रे नमः ।
ॐ न्यासदायकाय नमः ।
ॐ स्वशिष्यभावानुगतहस्तामलकसंश्रिताय नमः ।
ॐ श्रिङ्गगिर्याख्यसुक्षेत्रगमनोद्यतमानसाय नमः ।
ॐ तुङ्गभद्राकृतस्नानाय नमः ।
ॐ भाष्यप्रवचनोत्सुकाय नमः ।
ॐ शारदालयनिर्मात्रे नमः ।
ॐ शारदास्थापनापराय नमः ।
ॐ शारदापूजनोद्युक्ताय नमः ।
ॐ शारदेन्दुसमाननाय नमः ॥ ९१० ॥

ॐ गिर्याख्यनिजसच्छिष्यशुश्रूषाप्रीतमानसाय नमः ।
ॐ पाठार्थसमुपाविष्टशिष्यमण्डलमण्डिताय नमः ।
ॐ स्वशाटीक्षाळनोद्युक्तगिर्यागमननिरीक्षकाय नमः ।
ॐ निजशिष्यान्तरासूयानिराकरणतत्पराय नमः ।
ॐ गिर्याख्यनिजसच्छिष्यानुग्रहैकपरायणाय नमः ।
ॐ स्वानुग्रहाप्तसर्वज्ञभावगिर्यभिनन्दिताय नमः ।
ॐ विदिताखिलसद्विद्यागिर्यभिवन्दिताय नमः ।
ॐ तोटकाभिदसद्वृत्तोज्वलपद्यावकर्णकाय नमः ।
ॐ शिष्यान्तराभिविज्ञातकरुणालेशवैभवाय नमः ।
ॐ गुर्वनुग्रहमाहात्म्यसन्दर्शिने नमः ॥ ९२० ॥

ॐ लोकसङ्ग्रहिणे नमः ।
ॐ तोटकाख्याप्रदात्रे नमः ।
ॐ श्रीतोटकार्यातिसत्कृताय नमः ।
ॐ तत्वार्थगर्भतद्वाक्यशैलीवैभवचिन्तकाय नमः ।
ॐ सुरेश्वरार्यपद्माङ्घ्रिहस्तामलकसंश्रिताय नमः ।
ॐ तोटकानुगताय नमः ।
ॐ शिष्यचतुष्टयसमाश्रिताय नमः ।
ॐ सुरेश्वरापेक्षितस्वभाष्यवार्तिकनिर्मितये नमः ।
ॐ वार्तिकारचनानुज्ञादात्रे नमः ।
ॐ देशिकपुङ्गवाय नमः ॥ ९३० ॥

ॐ सिद्धान्तापगमाशङ्किपद्माङ्घ्र्यादिप्रबोधिताय नमः ।
ॐ वार्तिकग्रंथनिर्माणजातविघ्नानुदर्शकाय नमः ।
ॐ शिष्यनिर्बन्धानुगामिने नमः ।
ॐ शिष्यौघकरुणाकराय नमः ।
ॐ पद्माङ्घ्रिरचितस्वीयभाष्यटीकानिरीक्षकाय नमः ।
ॐ रम्यनैष्कर्म्यसिद्ध्यादिसुरेशग्रंथदर्शकाय नमः ।
ॐ आद्यन्तग्रंथसन्दर्भदर्शनप्रीतमानसाय नमः ।
ॐ ग्रंथनिर्माणवैदग्ध्यदर्शनाधिकविस्मिताय नमः ।
ॐ तैत्तरीयस्वीयभाष्यवृत्तिनिर्मापणोत्सुकाय नमः ।
ॐ बृहदारण्यसद्भाष्यवार्तिकश्रवणादृताय नमः ॥ ९४० ॥

ॐ अनेकशिष्यरचिताद्वैतग्रंथावलोकनाय नमः ।
ॐ तीर्थयात्राकृतोत्साहपद्मपादोक्तिचिन्तकाय नमः ।
ॐ तीर्थयात्राभवानेकदोषसङ्घप्रदर्शकाय नमः ।
ॐ नानाविक्षेपसाहस्रसम्भवप्रतिपादकाय नमः ।
ॐ तीर्थयात्रैकनिर्बन्धपद्मपादानुमोदकाय नमः ।
ॐ स्वोपदेशवचोऽश्रोतृपद्मपादानुशोचकाय नमः ।
ॐ मार्गदोषादिसन्दर्शिने नमः ।
ॐ जागरूकत्वबोधकाय नमः ।
ॐ आसन्नमरणस्वीयजननीस्मरणातुराय नमः ।
ॐ स्मृतिमात्रसमापन्नमातृपार्श्वाय नमः ॥ ९५० ॥

ॐ अतिभक्तिमते नमः ।
ॐ मातृसन्दर्शनप्रीताय नमः ।
ॐ प्रीणितस्वीयमातृकाय नमः ।
ॐ स्वसम्स्कारैकसम्प्रार्थिमातृवाञ्छानुपालकाय नमः ।
ॐ तारकाख्यपरब्रह्मोपदेष्ट्रे नमः ।
ॐ परमेश्वराय नमः ।
ॐ ब्रह्मानभिज्ञजननीसन्तारणपरायणाय नमः ।
ॐ निजस्तोत्रसमायातपरमेशप्रदर्शकाय नमः ।
ॐ जननीभयसन्द्रष्ट्रे नमः ।
ॐ माधवस्तुतितत्पराय नमः ॥ ९६० ॥

ॐ स्तुतिमाहात्म्यसम्प्राप्तविष्णुमूर्तिप्रदर्शकाय नमः ।
ॐ तद्दर्शनसमुत्पन्नजननीप्रीतिभाजनाय नमः ।
ॐ विष्णुदूतविमानस्थमातृदर्शनविर्वृताय नमः ।
ॐ तत्सम्स्कारकृतोद्योगाय नमः ।
ॐ बन्धुवर्गसमाह्वायिने नमः ।
ॐ सम्स्कारार्थाग्निसम्प्रार्थिने नमः ।
ॐ बन्धुवर्गनिराकृताय नमः ।
ॐ दक्षदोर्मथनप्राप्तवह्निसम्स्कृतमातृकाय नमः ।
ॐ आग्न्यदातृस्वीयजनवेदबाह्यत्वशापकृते नमः ।
ॐ यतिभिक्षाभाववाचिने नमः ।
ॐ स्मशानीकृततद्गृहाय नमः ।
ॐ पद्मपादागमकाङ्क्षिणे नमः ।
ॐ तद्देशकृतवासकाय नमः ।
ॐ महासुरालयेशानसन्दर्शनपरायणाय नमः ।
ॐ शिष्यवर्गागमाभिज्ञाय नमः ।
ॐ कुशलप्रश्नचोदकाय नमः ।
ॐ पद्माङ्घ्रिबोधितस्वीयसर्ववृत्तान्तसंश्रविणे नमः ।
ॐ पूर्वमातुलसन्दग्धतट्टीकोट्यनुशोचकाय नमः ।
ॐ टीकालोपातिनिर्विण्णपद्मपादानुनायकाय नमः ।
ॐ प्रज्ञामान्द्यकरात्युग्रगरदानोक्तिसंश्रविणे नमः ॥ ९८० ॥

ॐ निजपादाभिपतितपद्मपादानुकम्पनाय नमः ।
ॐ पूर्वसंश‍ृतटीकास्थपञ्चपाद्यनुचिन्तकाय नमः ।
ॐ पञ्चपादीयगताशेषविषयप्रतिपादकाय नमः ।
ॐ टीकालेखनसन्तुष्टपद्मपादातिपूजकाय नमः ।
ॐ विस्मितस्वीयशिषौघसमभिष्टुतवैभवाय नमः ।
ॐ नाटकापायदुःखार्तकेरळेशसमाधिकृते नमः ।
ॐ यथोक्तनाटकाख्यानविस्मापितनरेश्वराय नमः ।
ॐ सुधन्वराजसच्छिष्यसहिताय नमः ।
ॐ विजयोज्वलाय नमः ।
ॐ रामसेतुकृतस्नानाय नमः ॥ ९९० ॥

ॐ शाक्तौघविजयोत्साहाय नमः ।
ॐ काञ्चीविदर्भकर्णातदेशसञ्चारनिर्वृताय नमः ।
ॐ कापालिकौघविजयिने नमः ।
ॐ नीलकण्ठजयोज्वलाय नमः ।
ॐ गुप्ताभिचाराभिज्ञपद्माङ्घ्रिकृतसौख्यभाजे नमः ।
ॐ गौडपादार्यसन्दर्शनानन्दाब्धिनिमग्नधिये नमः ।
ॐ काश्मीरदेशविलसच्छारदापीथदर्शकाय नमः ।
ॐ दक्षिणद्वारसंविष्टवादिव्रातजयोज्वलाय नमः ।
ॐ विजयप्राप्तसर्वज्ञपीठारोहणकौतुकिने नमः ।
ॐ देवताकृतसत्पुष्पवृष्टिसञ्छन्नमूर्तिकाय नमः ।
ॐ कैलासशैलगमनपरमानन्दनिर्भराय नमः ।
ॐ ब्रह्मादिरचिताह्वानाय नमः ।
ॐ शिष्यवर्गकृतानतये नमः ।
ॐ महोक्षारोहणोद्युक्ताय नमः ।
ॐ पद्मजार्पितहस्तकाय नमः ।
ॐ सर्वाभिलाषकरणनिरताय नमः ।
ॐ निर्वृतान्तराय नमः ।
ॐ श्री कैलासशैलगमनपरमानन्दनिर्भराय नमः ।
ॐ श्रीमत्सद्गुरुपरप्रह्मणे नमः ॥ ॐ ॥ ॥ १००८ ॥

अन्तर्ध्वान्तनिवारणैकतरणिस्तापत्रयोग्रानल
ज्वालात्त्यन्तिकशामनैकजलदो दुःखाम्बुधेर्बाडवः ।
प्रज्ञानन्दसुधाम्बुदेरुदयभाग्राकासुधादीधितिः
नित्यं शङ्करदेशिकेन्द्रयतिराट् हृद्व्योम्नि विद्योतताम् ॥

भक्तजनहृत्तिमिरकर्तनविकर्तनान्
द्वन्द्वमुखदुःखविषसर्पगरुडोत्तमान् ।
जन्ममृतिदुर्गतिमहार्णवघटोद्भवान्
शङ्करगुरूत्तमपदान् नमत सत्तमान् ॥

जय जय शङ्कर ।
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ।

Also Read 1000 Names of Shrimat Shankaracharya Stotram:

Shri Shankaracharya Ashtottarasahasranamavalih Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Shankaracharya Ashtottara | Sahasranamavalih Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top