Templesinindiainfo

Best Spiritual Website

Rama Sahasranama Stotram from Bhushundiramaya Lyrics in Hindi

Ramasahasranamastotram from Bhushundiramaya Lyrics in Hindi:

॥ रामसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम् ॥
त्रयोदशोऽध्यायः
ब्रह्मोवाच –
अथ त्रयोदशतमे दिने नामविघित्सया ।
कुमाराणां सुजनुषां परमायुश्चिकीर्षया ॥ १ ॥

वसिष्ठो वंशपौरौधाः मुदायुक्तः समाययौ ।
राज्ञो दशरथस्यान्तःपुरे सर्वसमर्द्धने ॥ २ ॥ var समृद्धने

समायातं मुनिधेष्ठं राजा दशरथोऽग्रहीत् ।
अहो मे भाग्यसंपत्या सङ्गतोऽद्य पुरोहितः ॥ ३ ॥

प्राजापत्यो मुनिश्रेष्ठः परमानन्ददर्शनः ।
नमस्ते मुनिशार्दूल प्राजापत्य महाप्रभ ॥ ४ ॥ var महाप्रभो

वसिष्ठ उवाच –
नरेन्द्र वत ते भाग्यं जातोऽसि तनु पुत्रवान् ॥ ५ ॥

तेषामहं कुमाराणां नामकृत्यं सुखप्रदम् ।
तवाज्ञया विधास्यामि यद्गोप्यममरैरपि ॥ ६ ॥

अहो अमी प्रभोरंशा रामस्यामिततेजसः ।
योऽसौ तव कुमाराणामग्रणी राम एव सः ॥ ७ ॥

अस्य चत्वार एवांशाः ब्रह्मरूपाः सनातनाः ।
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ८ ॥

चत्वार एते पुरुषाः स्वस्वकार्यविधायकाः ।
धर्मरूपास्तु रामस्य पुरुषोत्तमरूपिणः ॥ ९ ॥

ततः संस्तातसंस्कारान् मन्त्रितान् विधिवर्त्मना ।
नामानि चक्रे व्रह्मर्षिः कोटिकल्पविदुत्तमः ॥ १० ॥

वसिष्ठ उवाच –
रामः श्यामो हरिर्विष्णुः केशवः केशिनाशनः ।
नारायणो माधवश्च श्रीधरो मधुसूदनः ॥ ११ ॥

रावणारिः कंसनिहा वकीप्राणनिवर्त्तनः ।
ताडकाहननोद्युक्तो विश्वामित्रप्रियः कृती ॥ १२ ॥

वेदाङ्गो यज्ञवाराहो धर्मज्ञो मेदिनीपतिः ।
वासुदेवोऽरविन्दाक्षो गोविन्दो गोपतिः प्रभुः ॥ १३ ॥

पद्माकान्तो विकुण्ठाभूः कीर्तिकन्यासुखप्रदः ।
जानकीप्राणनाथश्च सीताविश्लेषनाशनः ॥ १४ ॥

मुकुन्दो मुक्तिदाता च कौस्तुभी करुणाकरः ।
खरदूषणनाशी च मारीचप्राणनाशकः ॥ १५ ॥

सुबाहुमारणोत्साही पक्षिश्राद्धविधायकः ।
विहङ्गपितृसम्बन्धी क्षणतुष्टो गतिप्रदः ॥ १६ ॥

पूतनामातृगतिदो विनिवृत्ततृणानिलः ।
पावनः परमानन्दः कालिन्दीजलकेलिकृत् ॥ १७ ॥

सरयूजलकेलिश्च साकेतपुरदैवतः ।
मथुरास्थाननिलयो विश्रुतात्मा त्रयीस्तुतः ॥ १८ ॥

कौन्तेयविजयोद्युक्तः सेतुकृत् सिन्धुगर्भवित् ।
सप्ततालप्रभेदी च महास्थिक्षेपणोद्धुरः ॥ १९ ॥

कौशल्यानन्दनः कृष्णः किशोरीजनवल्लभः ।
आभीरीवल्लभो वीरः कोटिकन्दर्पविग्रहः ॥ २० ॥

गोवर्द्धनगिरिप्राशी गोवर्द्धनगिरीश्वरः ।
गोकुलेशो न्नजेशश्च सहजाप्राणवल्लभः ॥ २१ ॥

भूलीलाकेलिसन्तोषी वामाकोटिप्रसादनः ।
भिल्लपत्नीकृपासिन्धुः कैवर्त्तकरुणाकरः ॥ २२ ॥

जाम्बवद्भक्तिदो भोक्ता जाम्बवत्यङ्गनापतिः ।
सीताप्रियो रुक्मिणीशः कल्याणगुणसागरः ॥ २३ ॥

भक्तप्रियो दाशरथिः कैटभारिः कृतोत्सवः ।
कदम्बवनमध्यस्थः शिलासंतारदायकः ॥ २४ ॥

राघवो रघुवीरश्च हनुमत्सख्यवर्द्धनः ।
पीताम्बरोऽच्युतः श्रीमान् श्रीगोपीजनवल्लभः ॥ २५ ॥

भक्तेष्टो भक्तिदाता च भार्गवद्विजगर्वजित् ।
कोदण्डरामः क्रोधात्मा लङ्काविजयपण्डितः ॥ २६ ॥

कुम्भकर्णनिहन्ता च युवा कैशोरसुन्दरः ।
वनमाली घनश्यामो गोचारणपराक्रमी ॥ २७ ॥

काकपक्षधरो वेषो विटो धृष्टः शठः पतिः ।
अनुकूलो दक्षिणश्च तारः कपटकोविदः ॥ २८ ॥

अश्वमेधप्रणेता च राजा दशरथात्मजः ।
राघवेन्द्रो महाराजः श्रीरामानन्दविग्रहः ॥ २९ ॥

क्षत्त्रः क्षत्त्रकुलोत्तसो महातेजाः प्रतापवान् ।
महासैन्यो महाचापो लक्ष्मणैकान्तसुप्रियः ॥ ३० ॥

कैकेयीप्रणनिर्माता वीतराज्यो वनालयः ।
चित्रकूटप्रियस्थानो मृगयाचारतत्परः ॥ ३१ ॥

किरातवेषः क्रूरात्मा पशुमांसैकभोजनः ।
फलपुष्पकृताहारः कन्दमूलनिषेवणः ॥ ३२ ॥

पयोव्रतो विधानज्ञः सद्धर्मप्रतिपालकः ।
गदाधरो यज्ञकर्त्ता श्राद्धकर्ता द्विजार्चकः ॥ ३३ ॥

पितृभक्तो मातृभक्तो बन्धुः स्वजनतोषकृत् ।
मत्स्यः कूर्मो नृसिंहश्च वराहो वामनस्तथा ॥ ३४ ॥

रघुरामः परशुरामो बलरामो रमापतिः ।
रामलिङ्गस्थापयिता शिवभक्तिपरायणः ॥ ३५ ॥ var रुद्रमाहात्म्यवर्धनः

चण्डिकार्चनकृत्यज्ञश्चण्डीपाठविधानवित् ।
अष्टमीव्रतकर्मज्ञो विजयादशमीप्रियः ॥ ३६ ॥

कपिसैन्यसमारम्भी सुग्रीवप्राणदः परः ।
सूर्यवंशध्वजो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ३७ ॥

ब्रह्मार्पणी ब्रह्महोता ब्रह्मकर्मविदुत्तमः ।
ब्रह्मज्ञो ब्राह्मणाचारः कृतकृत्यः सनातनः ॥ ३८ ॥

सच्चिदानन्दरूपश्च निरीहो निर्विकारकः ।
नित्याकारो निराधारो रामो रमयतां वरः ॥ ३९ ॥

रकारादिर्मकारादिः रामः कैवल्यमङ्गलः ।
संदर्भो संशयच्छेत्ता शेषशायी सतां गतिः ॥ ४० ॥

पुरुषः पुरुषाकारः प्रमेयः पुरुषोत्तमः ।
वशीधरो विहारज्ञो रसानन्दीजितस्मरः ॥ ४१ ॥

पूर्णातिथिविनोदी च वृन्दावनविलासकृत् ।
रत्नकटकधरो वीरो मुक्ताहारविभूषणः ॥ ४२ ॥

नृत्यप्रियो नृत्यकरो नित्यसीताविहारवान् ।
महालक्ष्मीदृढानन्दो प्रमोदवननायकः ॥ ४३ ॥

परप्रेमा परानन्दः परभक्तिस्वरूपकः ।
अग्निरूपः कालरूपः प्रलयान्तमहानलः ॥ ४४ ॥ var महबलः

सुप्रसन्नः प्रसादात्मा प्रसन्नास्यः परः प्रभुः ।
प्रीतिः प्रीति मनाः प्रीतिः शकटासुरभञ्जनः ॥ ४५ ॥ var प्रीतः प्रीत मनाः

खट्वासुरवधोद्युक्तः कालरूपो दुरन्तकः ।
हंसः स्मरसहस्रात्मा स्मरणीयो रुचिप्रदः ॥ ४६ ॥

पण्डा पण्डितमानी च वेदरूपः सरस्वती ।
गुह्यार्थदो गुरुर्देवो मन्त्रज्ञो मन्त्रदीक्षितः ॥ ४७ ॥

योगज्ञो योगविन्नाथः स्वात्मयोगविशारदः ।
अध्यात्मशास्त्रसारज्ञो रसरूपो रसात्मकः ॥ ४८ ॥

श‍ृङ्गारवेशो मदनो मानिनीमानवर्द्धनः ।
चन्दनद्रवसशीतश्चन्दनद्रवलेपनः ॥ ४९ ॥

श्रीवत्सलान्छनः श्रीमान् मानी मानुषविग्रहः ।
करणं कारणं कर्ताऽऽधारो विधरणो धरः ॥ ५० ॥

धरित्रीधरणो धीरः स्त्र्यधीशः सत्यवाक् प्रियः ।
सत्यकृत् सत्रकर्ता च कर्मी कर्मविवर्द्धनः ॥ ५१ ॥

कार्मुकी विशिखी शक्तिधरो विजयदायकः
ऊर्ज्जस्वलो बली जिष्णुर्लङ्केशप्राणनाशकः ॥ ५२ ॥

शिशुपालप्रहन्ता च दन्तवक्त्रविनाशनः ।
परमोत्साहनोऽसह्यः कलिदोषविनाशनः ॥ ५३ ॥ var परमोत्साहनो सत्त्व

जरासन्धमहायुद्धो निःकिंचनजनप्रियः । var योद्धा
द्वारकास्थाननिर्माता मथुरावासशून्यकृत् ॥ ५४ ॥

काकुत्स्थो विनयी वाग्मी मनस्वी दक्षिणाप्रदः ।
प्राच्यवाचीप्रतीच्युक्तदक्षिणो भूरिदक्षिणः ॥ ५५ ॥

दक्षयज्ञसमानेता विश्वकेलिः सुरार्चितः ।
देवाधिपो दिवोदासो दिवास्वापी दिवाकरः ॥ ५६ ॥

कमलाक्षः कृपावासो द्विजपत्नीमनोहरः ।
विभीषणशरण्यश्च शरणं परमा गतिः ॥ ५७ ॥

चाणूरबलनिर्माथी महामातङ्गनाशनः ।
बद्धकक्षो महामल्ली मल्लयुद्धविशारदः ॥ ५८ ॥

अप्रमेयः प्रमेयात्मा प्रमाणात्मा सनातनः ।
मर्यादावतरो विज्ञो मर्यादापुरुषोत्तमः ॥ ५९ ॥

महाक्रतुविधानज्ञः क्रतुकर्मा क्रतुप्रियः ।
वृषस्कन्धो वृषस्कन्दो वृषध्वजमहासखः ॥ ६० ॥

चक्री शार्ङ्गी गदापाणिः शङ्खभृत् सुस्मिताननः ।
योगध्यानी योगगम्यो योगाचार्यो दृढासनः ॥ ६१ ॥

जिताहारो मिताहारः परहा दिग्जयोद्धुरः ।
सुपर्णासनसंस्थाता गजाभो गजमोक्षणः ॥ ६२ ॥

गजगामी ज्ञानगम्यो भक्तिगम्यो भयापहः ।
भगवान् सुमहैश्वर्यः परमः परमामृतः ॥ ६३ ॥

स्वानन्दी सच्चिदानन्दी नन्दिग्रामनिकेतनः ।
वर्होत्तंसः कलाकान्तः कालरूपः कलाकरः ॥ ६४ ॥

कमनीयः कुमाराभो मुचुकुन्दगतिप्रदः ।
मुक्तिभूरिफलाकारः कारुण्यधृतविग्रहः ॥ ६५ ॥

भूलीलारमणोद्युक्तः शतधाकृतविग्रहः ।
रसास्वादी रसानन्दी रसातलविनोदकृत् ॥ ६६ ॥

अप्रतर्क्यः पुनीतात्मा विनीतात्मा विधानवित् ।
भुज्युः सभाजनः सभ्यः पण्डः पण्डुर्विपण्यजः ॥ ६७ ॥

चर्षणी उत्कटो वीतो वित्तदः सविताऽविता ।
विभवो विविधाकारो रामः कल्याणसागरः ॥ ६८ ॥

सीतास्वयवरोद्युक्तो हरकार्मुकभञ्जनः ।
रावणोन्मादशमनः सीताविरहकातरः ॥ ६९ ॥

कुमारकुशलः कामः कामदः कोतिवर्द्धनः ।
दुर्योधनमहावैरी युधिष्ठिरहितप्रदः ॥ ७० ॥

द्रौपदीचीरविस्तारी कुन्तीशोकनिवारणः ।
गान्धारीशोकसंतानः कृपाकोमलमानसः ॥ ७१ ॥

चित्रकूटकृतावासो गङ्गासलिलपावनः ।
ब्रह्मचारी सदाचारः कमलाकेलिभाजनः ॥ ७२ ॥

दुरासदः कलहकृत् कलिः कलिविनाशनः ।
चारी दण्डाजिनी छत्री पुस्तकी कृष्णमेखलः ॥ ७३ ॥ var ब्रह्मचारी दण्डछत्री

दण्डकारण्यमध्यस्थः पञ्चवट्यालयस्थितः ।
परिणामजयानन्दी नन्दिग्रामसुखप्रदः ॥ ७४ ॥

इन्द्रारिमानमथनो बद्धदक्षिणसागरः ।
शैलसेतुविनिर्माता कपिसैन्यमहीपतिः ॥ ७५ ॥

रथारूढो गजारूढो हयारूढो महाबली ।
निषङ्गी कवची खड्गी खलगर्वनिवहणः ॥ ७६ ॥

वेदान्तविज्ञो विज्ञानी जानकीब्रह्मदर्शनः ।
लङ्काजेता विमानस्थो नागपाशविमोचकः ॥ ७७ ॥

अनन्तकोटिगणभूः कल्याणः केलिनीपतिः ।
दुर्वासापूजनपरो वनवासी महाजवः ॥ ७८ ॥

सुस्मयः सुस्मितमुखः कालियाहिफणानटः ।
विभुर्विषहरो वत्सो वत्सासुरविनाशनः ॥ ७९ ॥

वृषप्रमथनो वेत्ता मरीचिर्मुनिरङ्गिराः ।
वसिष्ठो द्रोणपुत्रश्च द्रोणाचार्यो रघूत्तमः ॥ ८० ॥

रघुवर्यो दुःखहन्ता वनधावनसश्रमः ।
भिल्लग्रामनिवासी च भिल्लभिल्लिहितप्रदः ॥ ८१ ॥

रामो रविकुलोत्तंसः वृष्णिगर्भो महामणिः । var पृश्निगर्भो
यशोदाबन्धनप्राप्तो यमलार्जुनभञ्जनः ॥ ८२ ॥

दामोदरो दुराराध्यो दूरगः प्रियदर्शनः ।
मृत्तिकाभक्षणक्रीडो ब्रह्माण्डावलिविग्रहः ॥ ८३ ॥

बाललीलाविनोदी च रतिलीलाविशारदः ।
वसुदेवसुतः श्रीमान् भव्यो दशरथात्मजः ॥ ८४ ॥

वलिप्रियो वालिहन्ता विक्रमी केसरी करी ।
सनिग्रहफलानन्दी सनिग्रहनिवारणः ॥ ८५ ॥

सीतावामाङ्गसंलिष्टः कमलापाङ्गवीक्षितः ।
स्यमन्तपञ्चकस्थायी भृगुवंशमहायशाः ॥ ८६ ॥

अनन्तोऽनन्तमाता च रामो राजीवलोचनः ।
इत्येवं नामसाहस्रं राजेन्द्र तनयस्य ते ॥ ८७ ॥

यः पठेत्प्रातरुत्थाय धौतपादः शुचिव्रत्रः ।
स याति रामसायुज्यं भुक्त्वान्ते केवलं पदम् ॥ ८८ ॥

न यत्र त्रिगुणग्रासो न माया न स्मयो मदः ।
तद्याति विरजं स्थानं रामनामानुकीर्तयन् ॥ ८९ ॥

न ते पुत्रस्य नामानि संख्यातुमहमीश्वरः ।
संक्षेपेण तु यत्प्रोक्तं तन्मात्रमवधारय ॥ ९० ॥

यावन्ति सन्ति रूपाणि विष्णोरमिततेजसः ।
तावन्ति तव पुत्रस्य परब्रह्मस्वरूपिणः ॥ ९१ ॥

पाज्वभौतिकमेतद्धि विश्वं समुपधारय ।
ततः परं परब्रह्म विद्धि रामं सनातनम् ॥ ९२ ॥

नश्वरं सकलं दृश्यं रामं ब्रूमः सनातनम् ।
एतद्धि तव पुत्रत्वं प्राप्तो रामः परात्परः ॥ ९३ ॥

सद्वेदैरपि वेदान्तैर्नेति नेतीति गीयते । var वेदान्ते
तमेव जलदश्यामं रामं भावय भावय ॥ ९४ ॥

य एतत् पठते नित्यं रामसाहस्रकं विभो ।
स याति परमां मुक्तिं रामकैवल्यरूपिणीम् ॥ ९५ ॥

मा शङ्किष्ठा नराधीशः श्रीरामरसिकस्य च ।
अनन्तकोटिरूपाणि रामस्तेषां विभावकः ॥ ९५ ॥

त्रैलोक्यमेतदखिलं रामवीर्ये प्रतिष्ठितम् ।
विजानन्ति नराः सर्वे नास्य रूपं च नाम च ॥ ९७ ॥

य एतस्मिन् महाप्रीतिं कलयिष्यन्ति मानवाः ।
त एव धन्या राजेन्द्र नान्ये स्वजनदूषकाः ॥ ९८ ॥

इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसवादे वसिष्ठकृतनाम-
सहस्रकथनं नाम त्रयोदशोऽध्यायः ॥

Also Read 1000 Names of Rama by Bhushundiramaya:

Rama Sahasranama Stotram from Bhushundiramaya in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Rama Sahasranama Stotram from Bhushundiramaya Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top