Templesinindiainfo

Best Spiritual Website

Shivastutih / Langeshvara Virachitaa Lyrics in Marathi

Shivastutih / Langeshvara Virachitaa in Marathi:

॥ शिवस्तुति ॥
(लङ्केश्वर विरचिता)

गले कलितकालिमः प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥

वृषोपरि परिस्फुरद्धवळधाम धाम श्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत ।
क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥

उदित्वरविलोचनत्रयविसुत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम ।
षिकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम ॥ ३ ॥

विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४ ॥

भवद्भवनदेहलीनिकटतुण्डदण्डाहतित्रुटन्मुकुटकोटिमिर्मघवदादिमिर्भूयते व्रजेम
भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथामहे ॥ ५ ॥

त्वदर्चनपरायणप्रमथकन्यकालुंठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धसीमन्तीनीप्रकीर्णसुमनोमनोरमणमेरुणा मेरुणा ॥ ६ ॥

न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथाऽस्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भवानि पूजापरः ॥ ७ ॥

विभूषणसुरापगाशुचितरालवालावलीवलद्वहलसी करप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी निमज्जनफलप्रदा मम नु हन्त भूयादियम ॥ ८ ॥

बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं बटुविभृश्यमानां भजे ॥ ९ ॥

त्वदीयसुरवाहिनीविमलवारिधाराबलज्जटागहनगाहिनी मतिरियं मम क्रामतु ।
उपोत्तमसरित्तटीविटपिताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥ १० ॥

इति लङ्केश्वरविरचिता शिवस्तुतिः संपूर्णा ॥

Also Read:

Shivastutih (Langeshvara Virachitaa) Stuti Lyrics in Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Shivastutih / Langeshvara Virachitaa Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top