Templesinindiainfo

Best Spiritual Website

Shri Nrisimha Ashtottara Shatanama Stotram Lyrics in Hindi | Narasimha Slokas

Sri Nrisinha Ashtottara Shatanama Stotram Lyrics in Hindi:

॥ श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम् ॥

॥ श्रीः ॥

श्रीनृसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेव उपेन्द्रश्चाऽग्निलोचनः ॥ १ ॥

रौद्रश्शौरिर्महावीरस्सुविक्रम-पराक्रमः ।
हरिकोलाहलश्चक्री विजयश्चाजयोऽव्ययः ॥ २ ॥

दैत्यान्तकः परब्रह्माप्यघोरो घोरविक्रमः ।
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ ३ ॥

निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञो हिरण्यकनिषूधनः ॥ ४ ॥

चण्डकोपी सुरारिघ्नस्सदार्तिघ्न-सदाशिवः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥ ५ ॥

कराळो विकराळश्च गतायुस्सर्वकर्तृकः ।
भैरवाडंबरो दिव्यश्चागम्यस्सर्वशत्रुजित् ॥ ६ ॥

अमोघास्त्रश्शस्त्रधरः सव्यजूटस्सुरेश्वरः ।
सहस्रबाहुर्वज्रनखस्सर्वसिद्धिर्जनार्दनः ॥ ७ ॥

अनन्तो भगवान् स्थूलश्चागम्यश्च परावरः ।
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविधारणः ॥ ८ ॥

अव्ययः परमानन्दः कालजित् खगवाहनः ।
भक्तातिवत्सलोऽव्यक्तस्सुव्यक्तस्सुलभश्शुचिः ॥ ९ ॥

लोकैकनायकस्सर्वश्शरणागतवत्सलः ।
धीरो धरश्च सर्वज्ञो भीमो भीमपराक्रमः ॥ १० ॥

देवप्रियो नुतः पूज्यो भवहृत् परमेश्वरः ।
श्रीवत्सवक्षाः श्रीवासो विभुस्सङ्कर्षणः प्रभुः ॥ ११ ॥

त्रिविक्रमस्त्रिलोकात्मा कामस्सर्वेश्वरेश्वरः ।
विश्वंभरः स्थिराभश्चाऽच्युतः पुरुषोत्तमः ॥ १२ ॥

अधोक्षजोऽक्षयस्सेव्यो वनमाली प्रकंपनः ।
गुरुर्लोकगुरुस्स्रष्टा परंज्योतिः परायणः ॥ १३ ॥

ज्वालाहोबिलमालोल-क्रोडाकारञ्जभार्गवाः ।
योगनन्दश्चत्रवटः पावनो नवमूर्तयः ॥ १४ ॥

॥ श्री नृसिंहाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

Also Read:

Also Read:

Shri Nrisimha Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Nrisimha Ashtottara Shatanama Stotram Lyrics in Hindi | Narasimha Slokas

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top