Templesinindiainfo

Best Spiritual Website

Shri Shukra Ashtottara Shatanama Stotram Lyrics in Hindi | Shukra Slokam

Sri Shukra Ashtottara Shatanama Stotram Lyrics in Hindi:

॥ श्रीशुक्राष्टोत्तरशतनामस्तोत्रम् ॥

शुक्र बीज मन्त्र – ॐ द्राँ द्रीं द्रौं सः शुक्राय नमः ॥

शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ १ ॥

दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः ।
काव्यासक्तः कामपालः कविः कळ्याणदायकः ॥ २ ॥

भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ ३ ॥

चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः ।
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ॥ ४ ॥

सर्वलक्षणसम्पन्नः सर्वापद्गुणवर्जितः ।
समानाधिकनिर्मुक्तः सकलागमपारगः ॥ ५ ॥

भृगुर्भोगकरो भूमिसुरपालनतत्परः ।
मनस्वी मानदो मान्यो मायातीतो महाषयः ॥ ६ ॥

बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।
भवपाशपरित्यागो बलिबन्धविमोचकः ॥ ७ ॥

घनाशयो घनाध्यक्षो कम्बुग्रीवः कळाधरः ।
कारुण्यरससम्पूर्णः कळ्याणगुणवर्धनः ॥ ८ ॥

श्वेताम्बरः श्वेतवपुः चतुर्भुजसमन्वितः ।
अक्षमालाधरोऽचिन्त्यः अक्षीणगुणभासुरः ॥ ९ ॥

नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः ।
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ १० ॥

चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत् ।
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ ११ ॥

पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ १२ ॥

कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः ।
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ १३ ॥

रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।
सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः ॥ १४ ॥

तुलावृषभराशीशो दुर्धरो धर्मपालकः ।
भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ १५ ॥

गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।
ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ १६ ॥

अपवर्गप्रदोऽनन्तः सन्तानफलदायकः ।
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ १७ ॥

एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।
सर्वपापप्रशमनम् सर्वपुण्यफलप्रदम् ॥ १८ ॥

यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥ १९ ॥

Also Read:

Shri Shukra Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Shukra Ashtottara Shatanama Stotram Lyrics in Hindi | Shukra Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top