Templesinindiainfo

Best Spiritual Website

Sri Anjaneya Shodasopachara Puja Lyrics in Hindi

Sri Anjaneya Shodasopachara Pooja in Hindi:

॥ श्री आञ्जनेय षोडशोपचार पूजा ॥
पूर्वाङ्गम् पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थ सिद्ध्यर्थं श्री आञ्जनेय स्वामि षोडशोपचार पूजां करिष्ये ॥

ध्यानम् –
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥

ओं श्री आञ्जनेयाय नमः ध्यायामि ॥

आवाहनम् –
आगच्छ हनुमद्देव त्वं सुवर्चलया सह ।
पूजासमाप्तिपर्यन्तं भव सन्निहितो मुदा ॥
भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव ।
श्रीरामसेवक श्रीमान् प्रसीद जगतां पते ॥

ओं श्री आञ्जनेयाय नमः आवाहयामि ।

आसनम् –
देव देव जगन्नाथ केसरीप्रियनन्दन ।
रत्नसिंहासनं तुभ्यं ददामि हनुमत्प्रभो ॥

ओं श्री आञ्जनेयाय नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –
योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः ।
पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥

ओं श्री आञ्जनेयाय नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ॥

ओं श्री आञ्जनेयाय नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
वालाग्रसेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥

ओं श्री आञ्जनेयाय नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –
अर्जुनध्वजसंवास दशाननमदापह ।
मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥

ओं श्री आञ्जनेयाय नमः मधुपर्कं समर्पयामि ।

स्नानम् –
गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः ।
भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥

ओं श्री आञ्जनेयाय नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् ।
दास्यामि वानरश्रेष्ठ संगृहाण नमोऽस्तु ते ॥

उत्तरीयं तु दास्यामि संसारोत्तारकारण ।
गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥

ओं श्री आञ्जनेयाय नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण रामकिंकरः ॥

ओं श्री आञ्जनेयाय नमः यज्ञोपवीतं समर्पयामि ।

गन्धम् –
कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥

ओं श्री आञ्जनेयाय नमः दिव्य श्री चन्दनं समर्पयामि ।

आभरणम् –
भूषणानि महार्हाणि किरीटप्रमुखान्यहम् ।
तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ।
ओं श्री आञ्जनेयाय नमः सर्वाभरणानि समर्पयामि ।

अक्षतान् –
शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् ।
अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥

ओं श्री आञ्जनेयाय नमः अक्षतान् समर्पयामि ॥

पुष्पाणि –
सुगन्धीनि सुरूपाणि वन्यानि विविधानि च ।
चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥

तुलसीदल बिल्वानि मनसा कल्पितानि च ।
गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥

ओं श्री आञ्जनेयाय नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अथाङ्गपूजा –
ओं मारुतये नमः – पादौ पूजयामि ।
ओं सुग्रीवसखाय नमः – गुल्फौ पूजयामि ।
ओं अङ्गदमित्राय नमः – जङ्घे पूजयामि ।
ओं रामदासाय नमः – ऊरू पूजयामि ।
ओं अक्षघ्नाय नमः – कटिं पूजयामि ।
ओं लङ्कादहनाय नमः – वालं पूजयामि ।
ओं सञ्जीवननगाहर्त्रे नमः – स्कन्धौ पूजयामि ।
ओं सौमित्रिप्राणदात्रे नमः – वक्षःस्थलं पूजयामि ।
ओं कुण्ठितदशकण्ठाय नमः – कण्ठं पूजयामि ।
ओं रामाभिषेककारिणे नमः – हस्तौ पूजयामि ।
ओं मन्त्ररचितरामायणाय नमः – वक्त्रं पूजयामि ।
ओं प्रसन्नवदनाय नमः – वदनं पूजयामि ।
ओं पिङ्गलनेत्राय नमः – नेत्रौ पूजयामि ।
ओं श्रुतिपरायणाय नमः – श्रोत्रौ पूजयामि ।
ओं ऊर्ध्वपुण्ड्रधारिणे नमः – ललाटं पूजयामि ।
ओं मणिकण्ठमालिकाय नमः – शिरः पूजयामि ।
ओं सर्वाभीष्टप्रदाय नमः – सर्वाण्यङ्गनि पूजयामि ।

अष्टोत्तरशतनामपूजा –
श्री आञ्जनेय अष्टोत्तरशतनामावली पश्यतु ।

धूपम् –
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

ओं श्री आञ्जनेयाय नमः धूपं आघ्रापयामि ।

दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥

ओं श्री आञ्जनेयाय नमः दीपं दर्शयामि ।

नैवेद्यम् –
सत्पात्रसिद्धं सहविर्विविधं स्वादु भक्षणम् ।
निवेदयामि देवेश सानुगाय गृहाण तत् ॥

ओं श्री आञ्जनेयाय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि (ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा ।
ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा ।
ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –
पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥

ओं श्री आञ्जनेयाय नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
शतकोटिमहारत्न दिव्यसद्रत्न पात्रके ।
नीराजनमिदं दृष्टेरतिथी कुरु मारुते ॥

ओं श्री आञ्जनेयाय नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –

मन्यु सूक्तं पश्यतु ।

मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं
भावयामि पवमाननन्दनम् ॥

ओं श्री आञ्जनेयाय नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।

आत्मप्रदक्षिण नमस्कारम् –
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देव शरणागतवत्सला ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष कपीश्वर ।
ओं श्री आञ्जनेयाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्री आञ्जनेयाय नमः छत्रं आच्छादयामि ।
ओं श्री आञ्जनेयाय नमः चामरैर्वीजयामि ।
ओं श्री आञ्जनेयाय नमः नृत्यं दर्शयामि ।
ओं श्री आञ्जनेयाय नमः गीतं श्रावयामि ।
ओं श्री आञ्जनेयाय नमः आन्दोलिकान्नारोहयामि ।
ओं श्री आञ्जनेयाय नमः अश्वानारोहयामि ।
ओं श्री आञ्जनेयाय नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।

क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व कपिनायका ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व वानरोत्तमा ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ।

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री आञ्जनेय स्वामि सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद स्वीकरण –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्त पापक्षयकरं श्री आञ्जनेय पादोदकं पावनं शुभम् ॥

श्री आञ्जनेयाय नमः प्रसादं शीरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ॥

Also Read:

Sri Anjaneya Shodasopachara Puja Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Anjaneya Shodasopachara Puja Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top