Templesinindiainfo

Best Spiritual Website

Sri Durga Parameshwari Stotram Lyrics in Hindi

Sri Durga Parameshwari Stotram by Sringeri Jagadguru in Hindi:

॥ श्री दुर्गा परमेश्वरी स्तोत्रम् ॥
(शृङ्गेरी जगद्गुरु विरचितम्)

[** अधुना सर्वत्र जगति प्रसरतः जनानं प्राणापायकरस्य कॊरोना नामकस्य रोगविशेषस्य निवारणार्थं शृंगेरी जगद्गुरु विरचित श्री दुर्गा परमेश्वरी स्तोत्र पारायणं करिष्ये । **]

एतावन्तं समयं
सर्वापद्भ्योऽपि रक्षणं कृत्वा ।
देशस्य परमिदानीं
ताटस्थ्यं वहसि दुर्गाम्ब ॥ १ ॥

अपराधा बहुशः खलु
पुत्राणां प्रतिपदं भवन्त्येव ।
को वा सहते लोके
सर्वांस्तान्मातरं विहायैकाम् ॥ २ ॥

मा भज मा भज दुर्गे
ताटस्थ्यं पुत्रकेषु दीनेषु ।
के वा गृह्णन्ति सुतान्
मात्रा त्यक्तान्वदाम्बिके लोके ॥ ३ ॥

इतः परं वा जगदम्ब जातु
देशस्य रोगप्रमुखापदोऽस्य ।
न स्युस्तथा कुर्वचलां कृपाम्
इत्यभ्यर्थनां मे सफलीकुरुष्व ॥ ४ ॥

पापहीनजनतावनदक्षाः
सन्ति निर्जरवरा न कियन्तः ।
पापपूर्णजनरक्षणदक्षां
त्वां विना भुवि परां न विलोके ॥ ५ ॥

इति शृङ्गेरी जगद्गुरु विरचितं श्री दुर्गा परमेश्वरी स्तोत्रम् ॥

Also Read:

Sri Durga Parameshwari Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Durga Parameshwari Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top