Templesinindiainfo

Best Spiritual Website

1000 Names of Purushottama Sahasradhika Namavalih Stotram Lyrics in Hindi

Purushottama Sahasradhikanamavalih Lyrics in Hindi:

॥ पुरुषोत्तमसहस्राधिकनामावलिः ॥

(भागवतकथाऽनुसारिणी)
प्रथमस्कन्धतः ।
श्रीकृष्णाय नमः । सच्चिदानन्दाय । नित्यलीलाविनोदकृते ।
सर्वागमविनोदिने । लक्ष्मीशाय । पुरुषोत्तमाय । आदिकालाय ।
सर्वकालाय । कालात्मने । माययाऽऽवृताय । भक्तोद्धारप्रयत्नात्मने ।
जगत्कर्त्रे । जगन्मयाय । नामलीलापराय । विष्णवे । व्यासात्मने ।
शुकमोक्षदाय । व्यापिवैकुण्ठदात्रे । श्रीमद्भागवतागमाय ।
शुकवागमृताब्धीन्दवे नमः । २० ।

शौनकाद्यखिलेष्टदाय नमः । भक्तिप्रवर्तकाय । त्रात्रे ।
व्यासचिन्ताविनाशकाय । सर्वसिद्धान्तवागात्मने । नारदाद्यखिलेष्टदाय ।
अन्तरात्मने । ध्यानगम्याय । भक्तिरत्नप्रदायकाय । मुक्तोपसृप्टाय ।
पूर्णात्मने । मुक्तानां रतिवर्धनाय । भक्तकार्यैकनिरताय ।
द्रौण्यस्त्रविनिवारकाय । भक्तस्मयप्रणेत्रे । भक्तवाक्परिपालकाय ।
ब्रह्मण्यदेवाय । धर्मात्मने । भक्तानां परीक्षकाय । आसन्निहितकर्त्रे
नमः । ४० ।

मायाहितकराय नमः । प्रभवे । उत्तराप्राणदात्रे ।
ब्रह्मास्त्रविनिवारकाय । सर्वतः पाण्डवपतये ।
परीक्षिच्छुद्धिकारणाय । सर्ववेदेषु गूढात्मने ।
भक्तैकहृदयङ्गमाय । कुन्तीस्तुत्याय । प्रसन्नात्मने ।
परमाद्भुतकार्यकृते । भीष्ममुक्तिप्रदाय । स्वामिने । भक्तमोह
निवारकाय । सर्वावस्थासु संसेव्याय । समाय । सुखहितप्रदाय ।
कृतकृत्याय । सर्वसाक्षिणे । भक्तस्त्रीरतिवर्धनाय नमः । ६० ।

सर्वसौभाग्यनिलयाय नमः । परमाश्चर्यरूपधृषे ।
अनन्यपुरुषस्वामिने । द्वारकाभाग्यभाजनाय ।
बीजसंस्कारकर्त्रे । परीक्षिज्ज्ञानपोषकाय । सर्वत्र
पूर्णगुणकाय । सर्वभूषणभूषिताय । सर्वलक्षणदात्रे ।
धृतराष्ट्रविमुक्तिदाय । नित्यं सन्मार्गरक्षकाय ।
विदुरप्रीतिपूरकाय । लीलाव्यामोहकर्त्रे । कालधर्मप्रवर्तकाय ।
पाण्डवानां मोक्षदात्रे । परीक्षिद्भाग्यवर्धनाय । कलिनिग्रहकर्त्रे ।
धर्मादीनां पोषकाय । सत्सङ्गज्ञानहेतवे । श्रीभागवतकारणाय
नमः । ८० ।

द्वितीय स्कन्धतः –
प्राकृतादृष्टमार्गाय नमः । सकलागमैः श्रोतव्याय ।
शुद्धभावैः कीर्तितव्याय । आत्मवित्तमैः स्मर्तव्याय ।
अनेकमार्गकर्त्रे । नानाविधगतिप्रदाय । पुरुषाय । सकलाधाराय ।
सत्वैकनिलयात्मभुवे । सर्वध्येयाय । योगगम्याय । भक्त्या ग्राह्याय ।
सुरप्रियाय । जन्मादिसार्थककृतये । लीलाकर्त्रे । सतां पतये ।
आदिकर्त्रे । तत्त्वकर्त्रे । सर्वकर्त्रे । विशारदाय नमः । १०० ।

नानावतारकर्त्रे नमः । ब्रह्माविर्भावकारणाय । दशलीलाविनोदिने ।
नानासृष्टिप्रवर्तकाय । अनेककल्पकर्त्रे । सर्वदोषविवर्जिताय ॥

तृतीयस्कन्धतः –
वैराग्यहेतवे । तीर्थात्मने । सर्वतीर्थफलप्रदाय ।
तीर्थशुद्धैकनिलयाय । स्वमार्गपरिपोषकाय । तीर्थकीर्तये ।
भक्तगम्याय । भक्तानुशयकार्यकृते । भक्ततुल्याय ।
सर्वतुल्याय । स्वेच्छासर्वप्रवर्तकाय । गुणातीताय । अनवद्यात्मने ।
सर्गलीलाप्रवर्तकाय नमः । १२० ।

साक्षात्सर्वजगत्कर्त्रे नमः । महदादिप्रवर्तकाय । मायाप्रवर्तकाय ।
साक्षिणे । मायारतिविवर्धनाय । आकाशात्मने । चतुर्मूर्तये । चतुर्धा
भूतभावनाय । रजःप्रवर्तकाय । ब्रह्मणे । मरीच्यादिपितामहाय ।
वेदकर्त्रे । यज्ञकर्त्रे । सर्वकर्त्रे । अमितात्मकाय ।
अनेकसृष्टिकर्त्रे । दशधासृष्टिकारकाय । यज्ञाङ्गाय ।
यज्ञवाराहाय । भूधराय नमः । १४० ।

भूमिपालकाय नमः । सेतवे । विधरणाय । जैत्राय ।
हिरण्याक्षान्तकाय । सुराय । दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकाय ।
देवाभयप्रदात्रे । वैकुण्ठाधिपतये । महते । सर्वगर्वप्रहारिणे ।
सनकाद्यखिलार्थदाय । सर्वाश्वासनकर्त्रे । भक्ततुल्याहवप्रदाय ।
काललक्षणहेतवे । सर्वार्थज्ञापकाय । पराय । भक्तोन्नतिकराय ।
सर्वप्रकारसुखदायकाय । नानायुद्धप्रहरणाय नमः । १६० ।

ब्रह्मशापविमोचकाय नमः । पुष्टिसर्गप्रणेत्रे ।
गुणसृष्टिप्रवर्तकाय । कर्दमेष्टप्रदात्रे । देवहूत्यखिलार्थदाय ।
शुक्लनारायणाय । सत्यकालधर्मप्रवर्तकाय । ज्ञानावताराय ।
शान्तात्मने । कपिलाय । कालनाशकाय । त्रिगुणाधिपतये ।
साङ्ख्यशास्त्रकर्त्रे । विशारदाय । सर्गदूषणहारिणे ।
पुष्टिमोक्षप्रवर्तकाय । लौकिकानन्ददात्रे । ब्रह्मानन्दप्रवर्तकाय ।
भक्तिसिद्धान्तवक्त्रे । सगुणज्ञानदीपकाय नमः । १८० ।

आत्मप्रदाय नमः । पूर्णकामाय । योगात्मने । योगभाविताय ।
जीवन्मुक्तिप्रदाय । श्रीमते । अनन्यभक्तिप्रवर्तकाय ।
कालसामर्थ्यदात्रे । कालदोषनिवारकाय । गर्भोत्तमज्ञानदात्रे ।
कर्ममार्गनियामकाय । सर्वमार्गनिराकर्त्रे । भक्तिमार्गैकपोषकाय ।
सिद्धिहेतवे । सर्वहेतवे । सर्वाश्चर्यैककारणाय ।
चेतनाचेतनपतये । समुद्रपरिपूजिताय । साङ्ख्याचार्यस्तुताय ।
सिद्धपूजिताय नमः । २००॥ सर्वपूजिताय नमः । २०१ ।

चतुर्थस्कन्धतः –
विसर्गकर्त्रे । सर्वेशाय । कोटिसूर्यसमप्रभाय । अनन्तगुणगम्भीराय ।
महापुरुषपूजिताय । अनन्तसुखदात्रे । ब्रह्मकोटिप्रजापतये ।
सुधाकोटिस्वास्थ्यहेतवे । कामधुक्कोटिकामदाय । समुद्रकोटिगम्भीराय ।
तीर्थकोटिसमाह्वयाय । सुमेरुकोटिनिष्कम्पाय । कोटिब्रह्माण्डविग्रहाय ।
कोट्यश्वमेधपापघ्नाय । वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने ।
शिवकोटिप्रसादकृते । सर्वसद्गुणमाहात्म्याय । सर्वसद्गुणभाजनाय
नमः । २२० ।

मन्वादिप्रेरकाय नमः । धर्माय । यज्ञनारायणाय । पराय ।
आकृतिसूनवे । देवेन्द्राय । रुचिजन्मने । अभयप्रदाय । दक्षिणापतये ।
ओजस्विने । क्रियाशक्तये । परायणाय । दत्तात्रेयाय । योगपतये ।
योगमार्गप्रवर्तकाय । अनसूयागर्भरत्नाय । ऋषिवंशविवर्धनाय ।
गुणत्रयविभागज्ञाय । चतुर्वर्गविशारदाय । नारायणाय नमः । २४० ।

धर्मसूनवे नमः । मूर्तिपुण्ययशस्कराय । सहस्रकवचच्छेदिने ।
तपःसाराय । नरप्रियाय । विश्वानन्दप्रदाय । कर्मसाक्षिणे ।
भारतपूजिताय । अनन्ताद्भुतमाहात्म्याय । बदरीस्थानभूषणाय ।
जितकामाय । जितक्रोधाय । जितसङ्गाय । जितेन्द्रियाय ।
उर्वशीप्रभवाय । स्वर्गसुखदायिने । स्थितिप्रदाय । अमानिने ।
मानदाय । गोप्त्रे नमः । २६० ।

भगवच्छास्त्रबोधकाय नमः । ब्रह्मादिवन्द्याय । हंसाय । श्रियै ।
मायावैभवकारणाय । विविधानन्दसर्गात्मने । विश्वपूरणतत्पराय ।
यज्ञजीवनहेतवे । यज्ञस्वामिने । इष्टबोधकाय । नानासिद्धान्तगम्याय ।
सप्ततन्तवे । षड्गुणाय । प्रतिसर्गजगत्कर्त्रे । नानालीलाविशारदाय ।
ध्रुवप्रियाय । ध्रुवस्वामिने । चिन्तिताधिकदायकाय ।
दुर्लभानन्तफलदाय । दयानिधये नमः । २८० ।

ओं अमित्रघ्ने नमः । अङ्गस्वामिने । कृपासाराय । वैन्याय ।
भूमिनियामकाय । भूविदोग्ध्रे । प्रजाप्राणपालनैकपरायणाय ।
यशोदात्रे । ज्ञानदात्रे । सर्वधर्मप्रदर्शकाय । पुरञ्जनाय ।
जगन्मित्राय । विसर्गान्तप्रदर्शनाय । प्रचेतसां पतये ।
चित्रभक्तिहेतवे । जनार्दनाय । स्मृतिहेतुब्रह्मभावसायुज्यादिप्रदाय ।
शुभाय ॥

पञ्चमस्कन्धतः –
विजयिने । स्थितिलीलाब्धये नमः । ३००

ओं अच्युताय नमः । विजयप्रदाय । स्वसामर्थ्यप्रदाय ।
भक्तकीर्तिहेतवे । अधोक्षजाय । प्रियव्रतप्रियस्वामिने ।
स्वेच्छावादविशारदाय । सङ्ग्यगम्याय । स्वप्रकाशाय ।
सर्वसङ्गविवर्जिताय । इच्छायां समर्यादाय । त्यागमात्रोपलम्भनाय ।
अचिन्त्यकार्यकर्त्रे । तर्कागोचरकार्यकृते । श‍ृङ्गाररसमर्यादायै ।
आग्नीध्ररसभाजनाय । नाभीष्टपूरकाय । कर्ममर्यादादर्शनोत्सुकाय ।
सर्वरूपाय । अद्भुततमाय नमः । ३२० ।

मर्यादापुरुषोत्तमाय नमः । सर्वरूपेषु सत्यात्मने । कालसाक्षिणे ।
शशिप्रभाय । मेरुदेवीव्रतफलाय । ऋषभाय । भगलक्षणाय ।
जगत्सन्तर्पकाय । मेघरूपिणे । देवेन्द्रदर्पघ्ने । जयन्तीपतये ।
अत्यन्तप्रमाणाशेषलौकिकाय । शतधान्यस्तभूतात्मने । शतानन्दाय ।
गुणप्रसुवे । वैष्णवोत्पादनपराय । सर्वधर्मोपदेशकाय ।
परहंसक्रियागोप्त्रे । योगचर्याप्रवर्तकाय । चतुर्थाश्रमनिर्णेत्रे
नमः । ३४० ।

सदानन्दशरीरवते नमः । प्रदर्शितान्यधर्माय । भरतस्वामिने ।
अपारकृते । यथावत्कर्मकर्त्रे । सङ्गानिष्टप्रदर्शकाय ।
आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शकाय । यज्ञरूपमृगाय ।
शान्ताय । सहिष्णवे । सत्पराक्रमाय । रहूगणगतिज्ञाय ।
रहूगणविमोचकाय । भवाटवीतत्त्ववक्त्रे । बहिर्मुखहिते रताय ।
गयस्वामिने । स्थानवंशकर्त्रे । स्थानविभागकृते । पुरुषावयवाय ।
भूमिविशेषविनिरूपकाय नमः । ३६० ।

जम्बूद्वीपपतये नमः । मेरुनाभिपद्मरुहाश्रयाय ।
नानाविभूतिलीलाढ्याय । गङ्गोत्पत्तिनिदानकृते । गङ्गामाहात्म्यहेतवे ।
गङ्गारूपाय । अतिगूढकृते । वैकुण्ठदेहहेत्वम्बुजन्मकृते ।
सर्वपावनाय । शिवस्वामिने । शिवोपास्याय । गूढाय ।
सङ्कर्षणात्मकाय । स्थानरक्षार्थमत्स्यादिरूपाय । सर्वैकपूजिताय ।
उपास्यनानारूपात्मने । ज्योतीरूपाय । गतिप्रदाय । सूर्यनारायणाय ।
वेदकान्तये नमः । ३८० ।

उज्ज्वलवेषधृशे नमः । हंसाय । अन्तरिक्षगमनाय ।
सर्वप्रसवकारणाय । आनन्दकर्त्रे । वसुदाय । बुधाय ।
वाक्पतये । उज्ज्वलाय । कालात्मने । कालकालाय । कालच्छेदकृते ।
उत्तमाय । शिशुमाराय । सर्वमूर्तये । आधिदैविकरूपधृशे ।
अनन्तसुखभोगाढ्याय । विवरैश्वर्यभाजनाय । सङ्कर्षणाय ।
दैत्यपतये नमः । ४०० ।

सर्वाधाराय नमः । बृहद्वपुषे । अनन्तनरकच्छेदिने ।
स्मृतिमात्रार्तिनाशनाय । सर्वानुग्रहकर्त्रे । मर्यादाभिन्नशास्त्रकृते ॥

षष्ठस्कन्धतः –
कालान्तकभयच्छेदिने । नामसामर्थ्यरूपधृशे ।
उद्धारानर्हगोप्त्रात्मने । नामादिप्रेरकोत्तमाय ।
अजामिलमहादुष्टमोचकाय । अघविमोचकाय । धर्मवक्त्रे ।
अक्लिष्टवक्त्रे । विष्णुधर्मस्वरूपधृशे । सन्मार्गप्रेरकाय ।
धर्त्रे । त्यागहेतवे । अधोक्षजाय । वैकुण्ठपुरनेत्रे नमः । ४२० ।

दाससंवृद्धिकारकाय नमः । दक्षप्रसादकृते ।
हंसगुह्यस्तुतिविभावनाय । स्वाभिप्रायप्रवक्त्रे । मुक्तजीवप्रसूतिकृते ।
नारदप्रेरणात्मने । हर्यश्वब्रह्मभावनाय । शबलाश्वहिताय ।
गूढवाक्यार्थज्ञापनक्षमाय । गूढार्थज्ञापनाय ।
सर्वमोक्षानन्दप्रतिष्ठिताय । पुष्टिप्ररोहहेतवे ।
दासैकज्ञातहृद्गताय । शान्तिकर्त्रे । सुहितकृते । स्त्रीप्रसुवे ।
सर्वकामदुहे । पुष्टिवंशप्रणेत्रे । विश्वरूपेष्टदेवतायै ।
कवचात्मने नमः । ४४० ।

ओं पालनात्मने नमः । वर्मोपचितिकारणाय । विश्वरूपशिरच्छेदिने ।
त्वाष्ट्रयज्ञविनाशकाय । वृत्रस्वामिने । वृत्रगम्याय ।
वृत्रव्रतपरायणाय । वृत्रकीर्तये । वृत्रमोक्षाय ।
मघवत्प्राणरक्षकाय । अश्वमेधहविर्भोक्त्रे । देवेन्द्रामीवनाशकाय ।
संसारमोचकाय । चित्रकेतुबोधनतत्पराय । मन्त्रसिद्धये ।
सिद्धिहेतवे । सुसिद्धिफलदायकाय । महादेवतिरस्कर्त्रे । भक्त्यै
पूर्वार्थनाशकाय । देवब्राह्मणविद्वेषवैमुख्यज्ञापकाय नमः । ४६० ।

शिवाय नमः । आदित्याय । दैत्यराजाय । महत्पतये । अचिन्त्यकृते ।
मरुतां भेदकाय । त्रात्रे । व्रतात्मने । पुम्प्रसूतिकृते ॥

सप्तमस्कन्धतः –
कर्मात्मने । वासनात्मने । ऊतिलीलापरायणाय ।
समदैत्यसुराय । स्वात्मने । वैषम्यज्ञानसंश्रयाय ।
देहाद्युपाधिरहिताय । सर्वज्ञाय । सर्वहेतुविदे ।
ब्रह्मवाक्स्थापनपराय । स्वजन्मावधिकार्यकृते नमः । ४८० ।

ओं सदसद्वासनाहेतवे नमः । त्रिसत्याय । भक्तमोचकाय ।
हिरण्यकशिपुद्वेषिणे । प्रविष्टात्मने । अतिभीषणाय ।
शान्तिज्ञानादिहेतवे । प्रह्लादोत्पत्तिकारणाय । दैत्यसिद्धान्तसद्वक्त्रे ।
तपःसाराय । उदारधिये । दैत्यहेतुप्रकटनाय ।
भक्तिचिह्नप्रकाशकाय । सद्वेषहेतवे । सद्वेषवासनात्मने ।
निरन्तराय । नैष्ठुर्यसीम्ने । प्रह्लादवत्सलाय । सङ्गदोषघ्ने ।
महानुभावाय नमः । ५०० ।

ओं साकाराय नमः । सर्वाकाराय । प्रमाणभुवे ।
स्तम्भप्रसूतये । नृहरये । नृसिंहाय । भीमविक्रमाय ।
विकटास्याय । ललज्जिह्वाय । नखशस्त्राय । जवोत्कटाय ।
हिरण्यकशिपुच्छेदिने । क्रूरदैत्यनिवारकाय । सिंहासनस्थाय ।
क्रोधात्मने । लक्ष्मीभयविवर्धनाय । ब्रह्माद्यत्यन्तभयभुवे ।
अपूर्वाचिन्त्यरूपधृशे । भक्तैकशान्तहृदयाय । भक्तस्तुत्याय
नमः । ५२० ।

ओं स्तुतिप्रियाय नमः । भक्ताङ्गलेहनोद्धूतक्रोधपुञ्जाय ।
प्रशान्तधिये । स्मृतिमात्रभयत्रात्रे । ब्रह्मबुद्धिप्रदायकाय ।
गोरूपधारिणे । अमृतपाय । शिवकीर्तिविवर्धनाय ।
धर्मात्मने । सर्वकर्मात्मने । विशेषात्मने । आश्रमप्रभवे ।
संसारमग्नस्योद्धर्त्रे । सन्मार्गाखिलतत्त्ववाचे ।

अष्टमस्कन्धतः –
आचारात्मने । सदाचाराय । मन्वन्तरविभावनाय ।
स्मृत्याशेषाशुभहराय । गजेन्द्रस्मृतिकारणाय ।
जातिस्मरणहेत्वेकपूजाभक्तिस्वरूपदाय नमः । ५४० ।

ओं यज्ञाय नमः । भयान्मनुत्रात्रे । विभवे । ब्रह्मव्रताश्रयाय ।
सत्यसेनाय । दुष्टघातिने । हरये । गजविमोचकाय । वैकुण्ठाय ।
लोककर्त्रे । अजिताय । अमृतकारणाय । उरुक्रमाय । भूमिहर्त्रे ।
सार्वभौमाय । बलिप्रियाय । विभवे । सर्वहितैकात्मने । विष्वक्सेनाय ।
शिवप्रियाय नमः । ५६० ।

धर्मसेतवे नमः । लोकधृतये । सुधामान्तरपालकाय ।
उपहर्त्रे । योगपतये । बृहद्भानवे । क्रियापतये ।
चतुर्दशप्रमाणात्मने । धर्माय । मन्वादिबोधकाय ।
लक्ष्मीभोगैकनिलयाय । देवमन्त्रप्रदायकाय । दैत्यव्यामोहकाय ।
साक्षाद्गरुडस्कन्धसंश्रयाय । लीलामन्दरधारिणे ।
दैत्यवासुकिपूजिताय । समुद्रोन्मथनायत्ताय । अविघ्नकर्त्रे ।
स्ववाक्यकृते । आदिकूर्माय नमः । ५८० ।

ओं पवित्रात्मने नमः । मन्दराघर्षणोत्सुकाय ।
श्वासैजदब्धिवार्वीचये । कल्पान्तावधिकार्यकृते ।
चतुर्दशमहारत्नाय । लक्ष्मीसौभाग्यवर्धनाय । धन्वन्तरये ।
सुधाहस्ताय । यज्ञभोक्त्रे । आर्तिनाशनाय । आयुर्वेदप्रणेत्रे ।
देवदैत्याखिलार्चिताय । बुद्धिव्यामोहकाय । देवकार्यसाधनतत्पराय ।
मायया स्त्रीरूपाय । वक्त्रे । दैत्यान्तःकरणप्रियाय ।
पायितामृतदेवांशाय । युद्धहेतुस्मृतिप्रदाय । सुमालिमालिवधकृते
नमः । ६०० ।

माल्यवत्प्राणहारकाय नमः । कालनेमिशिरश्छेदिने ।
दैत्ययज्ञविनाशकाय । इन्द्रसामर्थ्यदात्रे ।
दैत्यशेषस्थितिप्रियाय । शिवव्यामोहकाय । मायिने ।
भृगुमन्त्रस्वशक्तिदाय । बलिजीवनकर्त्रे । स्वर्गहेतवे ।
ब्रह्मार्चिताय । अदित्यानन्दकर्त्रे । कश्यपादितिसम्भवाय । उपेन्द्राय ।
इन्द्रावरजाय । वामनब्रह्मरूपधृशे । ब्रह्मादिसेवितवपुषे ।
यज्ञपावनतत्पराय । याज्ञोपदेशकर्त्रे । ज्ञापिताशेषसंस्थिताय
नमः । ६२० ।

सत्यार्थप्रेरकाय नमः । सर्वहर्त्रे । गर्वविनाशकाय ।
त्रिविक्रमाय । त्रिलोकात्मने । विश्वमूर्तये । पृथुश्रवसे ।
पाशबद्धबलये । सर्वदैत्यपक्षोपमर्दकाय । सुतलस्थापितबलये ।
स्वर्गाधिकसुखप्रदाय । कर्मसम्पूर्तिकर्त्रे । स्वर्गसंस्थापितामराय ।
ज्ञातत्रिविधधर्मात्मने । महामीनाय । अब्धिसंश्रयाय ।
सत्यव्रतप्रियाय । गोप्त्रे । मत्स्यमूर्तिधृतश्रुतये ।
श‍ृङ्गबद्धधृतक्षोणये नमः । ६४०॥ ओं सर्वार्थज्ञापकाय
नमः । गुरवे ।

नवमस्कन्धतः –
ईशसेवकलीलात्मने । सूर्यवंशप्रवर्तकाय । सोमवंशोद्भवकराय ।
मनुपुत्रगतिप्रदाय । अम्बरीषप्रियाय । साधवे ।
दुर्वासोगर्वनाशकाय । ब्रह्मशापोपसंहर्त्रे । भक्तकीर्तिविवर्धनाय ।
इक्ष्वाकुवंशजनकाय । सगराद्यखिलार्थदाय । भगीरथमहायत्नाय ।
गङ्गाधौताङ्घ्रिपङ्कजाय । ब्रह्मस्वामिने । शिवस्वामिने ।
सगरात्मजमुक्तिदाय । खट्वाङ्गमोक्षहेतवे । रघुवंशविवर्धनाय
नमः । ६६० ।

ओं रघुनाथाय नमः । रामचन्द्राय । रामभद्राय । रघुप्रियाय ।
अनन्तकीर्तये । पुण्यात्मने । पुण्यश्लोकैकभास्कराय । कोशलेन्द्राय ।
प्रमाणात्मने । सेव्याय । दशरथात्मजाय । लक्ष्मणाय । भरताय ।
शत्रुघ्नाय । व्यूहविग्रहाय । विश्वामित्रप्रियाय । दान्ताय ।
ताडकावधमोक्षदाय । वायव्यास्त्राब्धिनिक्षिप्तमारीचाय । सुबाहुघ्ने
नमः । ६८० ।

वृषध्वजधनुर्भङ्गप्राप्तसीतामहोत्सवाय ।
सीतापतये । भृगुपतिगर्व पर्वतनाशकाय ।
अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवते ।
कैकयीवाक्यकर्त्रे । पितृवाक्परिपालकाय । वैराग्यबोधकाय ।
अनन्यसात्त्विकस्थानबोधकाय । अहल्यादुःखहारिणे । गुहस्वामिने ।
सलक्ष्मणाय । चित्रकूटप्रियस्थानाय । दण्डकारण्यपावनाय ।
शरभङ्गसुतीक्ष्णादिपूजिताय । अगस्त्यभाग्यभुवे ।
ऋषिसम्प्रार्थितकृतये । विराधवधपण्डिताय ।
छिन्नशूर्पणखानासाय । खरदूषणघातकाय ।
एकबाणहतानेकसहस्रबलराक्षसाय नमः । ७०० ।

मारीचघातिने नमः । नियतसत्तासम्बन्धशोभिताय । सीतावियोगनाट्याय ।
जटायुवधमोक्षदाय । शबरीपूजिताय । भक्तहनुमत्प्रमुखावृताय ।
दुन्दुभ्यस्थिप्रहरणाय । सप्ततालविभेदनाय । सुग्रीवराज्यदाय ।
वालिघातिने । सागरशोषिणे । सेतुबन्धकर्त्रे । विभीषणहितप्रदाय ।
रावणादिशिरश्छेदिने । राक्षसाघौघनाशकाय । सीताऽभयप्रदात्रे ।
पुष्पकागमनोत्सुकाय । अयोध्यापतये । अत्यन्तसर्वलोकसुखप्रदाय ।
मथुरापुरनिर्मात्रे नमः । ७२० ।

सुकृतज्ञस्वरूपदाय नमः । जनकज्ञानगम्याय ।
ऐलान्तप्रकटश्रुतये । हैहयान्तकराय । रामाय ।
दुष्टक्षत्रविनाशकाय । सोमवंशहितैकात्मने ।
यदुवंशविवर्धनाय ।

दशमस्कन्धतः –
परब्रह्मावतरणाय । केशवाय । क्लेशनाशनाय । भूमिभारावतरणाय ।
भक्तार्थाखिलमानसाय । सर्वभक्तनिरोधात्मने ।
लीलानन्तनिरोधकृते । भूमिष्ठपरमानन्दाय ।
देवकीशुद्धिकारणाय । वसुदेवज्ञाननिष्ठसमजीवनवारकाय ।
सर्ववैराग्यकरणस्वलीलाधारशोधकाय । मायाज्ञापनकर्त्रे नमः । ७४० ।

शेषसम्भारसम्भृतये नमः । भक्तक्लेशपरिज्ञात्रे । तन्निवारणत
त्पराय । आविष्टवसुदेवांशाय । देवकीगर्भभूषणाय । पूर्णतेजोमयाय ।
पूर्णाय । कंसाधृष्यप्रतापवते । विवेकज्ञानदात्रे ।
ब्रह्माद्यखिलसंस्तुताय । सत्याय । जगत्कल्पतरवे । नानारूपविमोहनाय ।
भक्तिमार्गप्रतिष्ठात्रे । विद्वन्मोहप्रवर्तकाय । मूलकालगुणद्रष्ट्रे ।
नयनानन्दभाजनाय । वसुदेवसुखाब्धये । देवकीनयनामृताय ।
पितृमातृस्तुताय नमः । ७६० ।

पूर्वसर्ववृत्तान्तबोधकाय नमः ।
गोकुलागतिलीलाप्तवसुदेवकरस्थितये । सर्वेशत्वप्रकटनाय ।
मायाव्यत्ययकारकाय । ज्ञानमोहितदुष्टेशाय । प्रपञ्चास्मृतिकारणाय ।
यशोदानन्दनाय । नन्दभाग्यभूगोकुलोत्सवाय । नन्दप्रियाय ।
नन्दसूनवे । यशोदायाः स्तनन्धयाय । पूतनासुपयःपात्रे ।
मुग्धभावातिसुन्दराय । सुन्दरीहृदयानन्दाय । गोपीमन्त्राभिमन्त्रिताय ।
गोपालाश्चर्यरसकृते । शकटासुरखण्डनाय । नन्दव्रजजनानन्दिने ।
नन्दभाग्यमहोदयाय । तृणावर्तवधोत्साहाय नमः । ७८० ।

यशोदाज्ञानविग्रहाय नमः । बलभद्रप्रियाय । कृष्णाय ।
सङ्कर्षणसहायवते । रामानुजाय । वासुदेवाय ।
गोष्ठाङ्गणगतिप्रियाय । किङ्किणीरवभावज्ञाय ।
वत्सपुच्छावलम्बनाय । नवनीतप्रियाय । गोपीमोहसंसारनाशकाय ।
गोपबालकभावज्ञाय । चौर्यविद्याविशारदाय ।
मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकाय । धराद्रोणप्रीतिकर्त्रे ।
दधिभाण्डविभेदनाय । दामोदराय । भक्तवश्याय ।
यमलार्जुनभञ्जनाय । बृहद्वनमहाश्चर्याय नमः । ८०० ।

वृन्दावनगतिप्रियाय नमः । वत्सघातिने । बालकेलये ।
बकासुरनिषूदनाय । अरण्यभोक्त्रे । बाललीलापरायणाय ।
प्रोत्साहजनकाय । अघासुरनिषूदनाय । व्यालमोक्षप्रदाय ।
पुष्टाय । ब्रह्ममोहप्रवर्धनाय । अनन्तमूर्तये । सर्वात्मने ।
जङ्गमस्थावराकृतये । ब्रह्ममोहनकर्त्रे । स्तुत्याय । आत्मने ।
सदाप्रियाय । पौगण्डलीलाभिरतये । गोचारणपरायणाय नमः । ८२० ।

वृन्दावनलतागुल्मवृक्षरूपनिरूपकाय नमः । नादब्रह्मप्रकटनाय ।
वयःप्रतिकृतिनिःस्वनाय । बर्हिनृत्यानुकरणाय ।
गोपालानुकृतिस्वनाय । सदाचारप्रतिष्ठात्रे । बलश्रमनिराकृतये ।
तरुमूलकृताशेषतल्पशायिने । सखिस्तुताय । गोपालसेवितपदाय ।
श्रीलालितपदाम्बुजाय । गोपसम्प्रार्थितफलदाननाशितधेनुकाय ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय ।
दृष्टिसञ्जीविताशेषगोपगोगोपिकाप्रियाय । लीलासम्पीतदावाग्नये ।
प्रलम्बवधपण्डिताय । दावाग्न्यावृतगोपालदृष्ट्याच्छादनवह्निपाय ।
वर्षाशरद्विभूतिश्रिये । गोपीकामप्रबोधकाय ।
गोपीरत्नस्तुताशेषवेणुवाद्यविशारदाय नमः । ८४० ।

कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गनाय नमः ।
सत्सङ्गतिस्तुतिव्याजस्तुतवृन्दावनाङ्घ्रिपाय ।
गोपक्षुच्छान्ति संव्याज विप्रभार्याप्रसादकृते ।
हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधकाय नमः ।
शैलरूपकृताशेषरसभोगसुखावहाय ।
लीलागोवर्धनोद्धारपालितस्वव्रजप्रियाय ।
गोपस्वच्छन्दलीलार्थगर्गवाक्यार्थबोधकाय ।
इन्द्रधेनुस्तुतिप्राप्तगोविन्देन्द्राभिधानवते ।
व्रतादिधर्मसंसक्तनन्दक्लेशविनाशकाय ।
नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायकाय ।
वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदाय ।
सर्वभावप्राप्तगोपीसुखसंवर्धनक्षमाय ।
गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदाय । कृष्णभावव्याप्तविश्वगोपी
भावितवेशधृषे । राधाविशेषसम्भोगप्राप्तदोषनिवारकाय ।
परमप्रीतिसङ्गीतसर्वाद्भुतमहागुणाय ।
मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सवाय । गोपिकाव्याप्तसर्वाङ्गाय ।
स्त्रीसम्भाषविशारदाय । रासोत्सवमहासौख्यगोपीसम्भोगसागराय
नमः । ८६० ।

जलस्थलरतिव्याप्तगोपीदृष्ट्यभिपूजिताय नमः ।
शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनाय ।
सुदर्शनमहासर्पग्रस्तनन्दविमोचकाय ।
गीतमोहितगोपीधृक्शङ्खचूडविनाशकाय । गुणसङ्गीतसन्तुष्टये ।
गोपीसंसारविस्मृतये । अरिष्टमथनाय । दैत्यबुद्धिव्यामोहकारकाय ।
केशिघातिने । नारदेष्टाय । व्योमासुरविनाशकाय ।
अक्रूरभक्तिसंराद्धपादरेणुमहानिधये । रथावरोहशुद्धात्मने ।
गोपीमानसहारकाय । ह्रदसन्दर्शिताशेषवैकुण्ठाक्रूरसंस्तुताय ।
मथुरागमनोत्साहाय । मथुराभाग्यभाजनाय ।
मथुरानगरीशोभादर्शनोत्सुकमानसाय । दुष्टरञ्जकघातिने ।
वायकार्चितविग्रहाय नमः । ८८० ।

ओं वस्त्रमालासुशोभाङ्गाय नमः । कुब्जालेपनभूषिताय ।
कुब्जासुरूपकर्त्रे । कुब्जारतिवरप्रदाय ।
प्रसादरूपसन्तुष्टहरकोदण्डखण्डनाय ।
शकलाहतकंसाप्तधनूरक्षकसैनिकाय ।
जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकाय । मथुरामल्लाय ।
ओजस्विने । मल्लयुद्धविशारदाय । सद्यः कुवलयापीडघातिने ।
चाणूरमर्दनाय । लीलाहतमहामल्लाय । शलतोशलघातकाय ।
कंसान्तकाय । जितामित्राय । वसुदेवविमोचकाय ।
ज्ञातततेत्त्वपितृज्ञानमोहनामृतवाङ्मयाय ।
उग्रसेन प्रतिष्ठात्रे । यादवाधिविनाशकाय नमः । ९०० ।
ओं नन्दादिसान्त्वनकराय नमः । ब्रह्मचर्यव्रते स्थिताय ।
गुरुशुश्रूषणपराय । विद्यापारमितेश्वराय । सान्दीपनिमृतापत्यदात्रे ।
कालान्तकादिजिते । गोकुलाश्वासनपराय । यशोदानन्दपोषकाय ।
गोपिकाविरहव्याजमनोगतिरतिप्रदाय । समोद्भवभ्रमरवाचे ।
गोपिकामोहनाशकाय । कुब्जारतिप्रदाय । अक्रूरपवित्रीकृतभूगृहाय ।
पृथादुःखप्रणेत्रे । पाण्डवानां सुखप्रदाय ।

उत्तरार्धतः –
जरासन्धसमानीतसैन्यघातिने । विचारकाय ।
यवनव्याप्तमथुराजनदत्तकुशस्थलिने ।
द्वारकाद्भुतनिर्माणविस्मापितसुरासुराय ।
मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभवाय नमः । ९२० ।

यवनव्याप्तमथुरानिर्गमानन्दविग्रहाय
नमः । मुचुकुन्दमहाबोधयवनप्राणदर्पघ्ने ।
मुचुकुन्दस्तुताशेषगुणकर्ममहोदयाय । फलप्रदानसन्तुष्टये ।
जन्मान्तरितमोक्षदाय । शिवब्राह्मणवाक्याप्तजयभीतिविभावनाय ।
प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवाय । रुक्मिणीरमणाय । कामपित्रे ।
प्रद्युम्नभावनाय । स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपतये ।
सत्यभामाप्राणपतये ।कालिन्दीरतिवर्धनाय । मित्रविन्दापतये ।
सत्यापतये । वृषनिषूदनाय । भद्रावाञ्छितभर्त्रे ।
लक्ष्मणावरणक्षमाय । इन्द्रादिप्रार्थितवधनरकासुरसूदनाय ।
मुरारये नमः । ९४० ।

पीठहन्त्रे नमः । ताम्रादिप्राणहारकाय । षोडशस्त्रीसहस्रेशाय ।
छत्रकुण्डलदानकृते । पारिजातापहरणाय । देवेन्द्रमदनाशकाय ।
रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदाय ।
रुक्मिणीपरिहासोक्तिवाक्तिरोधानकारकाय ।
पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकाय ।
शम्बरान्तकसत्पुत्रविवाहहतरुक्मिकाय । उषापहृतपौत्रश्रिये ।
बाणबाहुनिवारकाय । शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणाय ।
शङ्करप्रतियोद्ध्रे । द्वन्द्वयुद्धविशारदाय । नृगपापप्रभेत्त्रे ।
ब्रह्मस्वगुणदोषदृशे । विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकाय ।
बलभद्राहितगुणाय । गोकुलप्रीतिदायकाय नमः । ९६० ।

गोपीस्नेहैकनिलयाय नमः । गोपीप्राणस्थितिप्रदाय ।
वाक्यातिगामियमुनाहलाकर्षणवैभवाय । पौण्ड्रकत्याजितस्पर्धाय ।
काशीराजविभेदनाय । काशीनिदाहकरणाय । शिवभस्मप्रदायकाय ।
द्विविदप्राणघातिने । कौरवाखर्वगर्वनुदे ।
लाङ्गलाकृष्टनगरीसंविग्नाखिलनागराय । प्रपन्नाभयदाय ।
साम्बप्राप्तसन्मानभाजनाय । नारदान्विष्टचरणाय ।
भक्तविक्षेपनाशकाय । सदाचारैकनिलयाय ।
सुधर्माध्यासिताननाय । जरासन्धावरुद्धेन विज्ञापितनिजक्लमाय ।
मन्त्र्युद्धवादिवाक्योक्तप्रकारैकपरायणाय । राजसूयादिमखकृते ।
सम्प्रार्थितसहायकृते नमः । ९८० ।

इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृतये नमः ।
जरासन्धवधव्याजमोचिताशेषभूमिपाय । सन्मार्गबोधकाय ।
यज्ञक्षितिवारणतत्पराय । शिशुपालहतिव्याजजयशापविमोचकाय ।
दुर्योधनाभिमानाब्धिशोषबाणवृकोदराय ।
महादेववरप्राप्तपुरशाल्वविनाशकाय ।
दन्तवक्त्रवधव्याजविजयाघौघनाशकाय । विदूरथप्राणहर्त्रे ।
न्यस्तशस्त्रास्त्रविग्रहाय । उपधर्मविलिप्ताङ्गसूतघातिने ।
वरप्रदाय । बल्वलप्राणहरणपालितर्षिनुतिक्रियाय ।
सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदाय ।
ज्ञानक्रियाविभेदेष्टफलसाधनतत्पराय । सारथ्यादिक्रियाकर्त्रे ।
भक्तवश्यत्वबोधकाय । सुदामरङ्कभार्यार्थभूम्यानीतेन्द्रवैभवाय ।
रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनाय ।
नृपगोपीसमस्तस्त्रीपावनार्थाखिलक्रियाय नमः । १००० ।

ओं ऋषिमार्गप्रतिष्ठात्रे नमः । वसुदेवमखक्रियाय ।
वसुदेवज्ञानदात्रे । देवकीपुत्रदायकाय । अर्जुनस्त्रीप्रदात्रे ।
बहुलाश्वस्वरूपदाय । श्रुतदेवेष्टदात्रे । सर्वश्रुतिनिरूपिताय ।
महादेवाद्यतिश्रेष्ठाय । भक्तिलक्षणनिर्णयाय ।
वृकग्रस्तशिवत्रात्रे । नानावाक्यविशारदाय ।
नरगर्वविनाशार्थ-हृतब्राह्मणबालकाय ।
लोकालोकपरस्थानस्थितबालकदायकाय ।
द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनाय ।
मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभाविताय ॥

एकादशस्कन्धतः –
मुक्तिलीलाविहरणाय । मौशलव्याजसंहृतये ।
श्रीभागवतधर्मादिबोधकाय । भक्तिनीतिकृते नमः । १०२० ।

ओं उद्धवज्ञानदात्रे नमः । पञ्चविंशतिधा गुरवे ।
आचारभक्तिमुक्त्यादिवक्त्रे । शब्दोद्भवस्थितये । हंसाय ।
धर्मप्रवक्त्रे । सनकाद्युपदेशकृते । भक्तिसाधनवक्त्रे ।
योगसिद्धिप्रदायकाय । नानाविभूतिवक्त्रे । शुद्धधर्मावबोधकाय ।
मार्गत्रयविभेदात्मने । नानाशङ्कानिवारकाय । भिक्षुगीताप्रवक्त्रे ।
शुद्धसाङ्ख्यप्रवर्तकाय । मनोगुणविशेषात्मने ।
ज्ञापकोक्तपुरूरवसे । पूजाविधिप्रवक्त्रे । सर्वसिद्धान्तबोधकाय ।
लघुस्वमार्गवक्त्रे नमः । १०४० ।

ओं स्वस्थानगतिबोधकाय नमः । यादवाङ्गोपसंहर्त्रे ।
सर्वाश्चर्यगतिक्रियाय ।

द्वादशस्कन्धतः –
कालधर्मविभेदार्थवर्णनाशनतत्पराय । बुद्धाय । गुप्तार्थवक्त्रे ।
नानाशास्त्रविधायकाय । नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकाय ।
आश्रयैकगतिज्ञात्रे । कल्किने । कलिमलापहाय ।
शास्त्रवैराग्यसम्बोधाय ंआनाप्रलयबोधकाय । विशेषतः
शुकव्याजपरीक्षिज्ज्ञानबोधकाय । शुकेष्टगतिरूपात्मने ।
परीक्षिद्देहमोक्षदाय । शब्दरूपाय । नादरूपाय । वेदरूपाय ।
विभेदनाय नमः । १०६० ।

ओं व्यासाय नमः । शाखाप्रवक्त्रे । पुराणार्थप्रवर्तकाय ।
मार्कण्डेयप्रसन्नात्मने । वटपत्रपुटेशयाय ।
मायाव्याप्तमहामोहदुःखशान्तिप्रवर्तकाय । महादेवस्वरूपाय ।
भक्तिदात्रे । कृपानिधये । आदित्यान्तर्गताय । कालाय । द्वादशात्मने ।
सुपूजिताय । श्रीभागवतरूपाय । सर्वार्थफलदायकाय नमः । १०७५ ।

इति भागवतकथाऽनुसारिणी पुरुषोत्तमसहस्रनामावलिः समाप्ता ।

Also Read 1075 Names of Purushottama Sahasradhika:

1000 Names of Purushottama Sahasradhika Namavalih Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Purushottama Sahasradhika Namavalih Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top