Templesinindiainfo

Best Spiritual Website

108 Names of Sri Dhanvantari | Ashtottara Shatanamavali Lyrics in Hindi

Shri Dhanvantari Ashtottarashata Namavali Lyrics in Hindi:

श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

ॐ धन्वन्तरये नमः । सुधापूर्णकलशाढ्यकराय । हरये ।
जरामृतित्रस्तदेवप्रार्थनासाधकाय । प्रभवे । निर्विकल्पाय ।
निस्समानाय । मन्दस्मितमुखाम्बुजाय । आञ्जनेयप्रापिताद्रये ।
पार्श्वस्थविनतासुताय । निमग्नमन्दरधराय । कूर्मरूपिणे ।
बृहत्तनवे । नीलकुञ्चितकेशान्ताय । परमाद्भुतरूपधृते ।
कटाक्षवीक्षणाश्वस्तवासुकये । सिंहविक्रमाय ।
स्मर्तृहृद्रोगहरणाय । महाविष्ण्वंशसम्भवाय ।
प्रेक्षणीयोत्पलश्यामाय नमः ॥ २० ॥

आयुर्वेदाधिदैवताय नमः । भेषजग्रहणानेहस्स्मरणीयपदाम्बुजाय ।
नवयौवनसम्पन्नाय । किरीटान्वितमस्तकाय ।
नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलये । दीर्घपीवरदोर्दण्डाय ।
कम्बुग्रीवाय । अम्बुजेक्षणाय । चतुर्भुजाय । शङ्खधराय ।
चक्रहस्ताय । वरप्रदाय । सुधापात्रे परिलसदाम्रपत्रलसत्कराय ।
शतपद्याढ्यहस्ताय । कस्तूरीतिलकाञ्चिताय । सुकपोलाय । सुनासाय ।
सुन्दरभ्रूलताञ्चिताय । स्वङ्गुलीतलशोभाढ्याय ।
गूढजत्रवे नमः ॥ ४० ॥

महाहनवे नमः । दिव्याङ्गदलसद्बाहवे । केयूरपरिशोभिताय ।
विचित्ररत्नखचितवलयद्वयशोभिताय । समोल्लसत्सुजातांसाय ।
अङ्गुलीयविभूषिताय । सुधागन्धरसास्वादमिलद्भृङ्गमनोहराय ।
लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलाय । लक्ष्मीशोभितवक्षस्काय ।
वनमालाविराजिताय । नवरत्नमणीक्लृप्तहारशोभितकन्धराय ।
हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखाय । विरजोऽम्बरसंवीताय ।
विशालोरसे । पृथुश्रवसे । निम्ननाभये । सूक्ष्ममध्याय ।
स्थूलजङ्घाय । निरञ्जनाय । सुलक्षणपदाङ्गुष्ठाय नमः ॥ ६० ॥

सर्वसामुद्रिकान्विताय नमः । अलक्तकारक्तपादाय । मूर्तिमद्वार्धिपूजिताय ।
सुधार्थान्योन्यसंयुध्यद्देवदैतेयसान्त्वनाय । कोटिमन्मथसङ्काशाय ।
सर्वावयवसुन्दराय । अमृतास्वादनोद्युक्तदेवसङ्घापरिष्टुताय ।
पुष्पवर्षणसंयुक्तगन्धर्वकुलसेविताय ।
शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृताय ।
विष्वक्सेनादियुक्पार्श्वाय । सनकादिमुनिस्तुताय ।
साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षिताय ।
साशङ्कसम्भ्रमदितिदनुवंश्यसमीडिताय ।
नमनोन्मुखदेवादिमौलिरत्नलसत्पदाय । दिव्यतेजःपुञ्जरूपाय ।
सर्वदेवहितोत्सुकाय । स्वनिर्गमक्षुब्धदुग्धवाराशये । दुन्दुभिस्वनाय ।
गन्धर्वगीतापदानश्रवणोत्कमहामनसे ।
निष्किञ्चनजनप्रीताय नमः ॥ ८० ॥

भवसम्प्राप्तरोगहृते नमः । अन्तर्हितसुधापात्राय ।
महात्मने । मायिकाग्रण्यै । क्षणार्धमोहिनीरूपाय ।
सर्वस्त्रीशुभलक्षणाय । मदमत्तेभगमनाय ।
सर्वलोकविमोहनाय । स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलये ।
रत्नदर्वीलसद्धस्ताय । देवदैत्यविभागकृते ।
सङ्ख्यातदेवतान्यासाय । दैत्यदानववञ्चकाय । देवामृतप्रदात्रे ।
परिवेषणहृष्टधिये । उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकाय ।
पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहराय ।
राहुकेतुग्रहस्थानपश्चाद्गतिविधायकाय ।
अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनाय ।
गरुत्मद्वाहनारूढाय नमः ॥ १०० ॥

सर्वेशस्तोत्रसंयुताय नमः ।
स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजिताय ।
मोहिनीदर्शनायातस्थाणुचित्तविमोहकाय ।
शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुताय । वेदान्तवेद्यमहिम्ने ।
सर्वलोकैकरक्षकाय । राजराजप्रपूज्याङ्घ्रये ।
चिन्तितार्थप्रदायकाय ॥ १०८ ॥

इति श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Dhanvantri:

108 Names of Sri Dhanvantari | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Sri Dhanvantari | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top