Best Spiritual Website

Spiritual, Stotrams, Mantras PDFs

Bhagavata Purana’s Rishabha Gita Lyrics in Hindi

Rishabha Gita from Bhagavata Purana in Hindi:

॥ ऋषभगीता भागवतमहापुराणान्तर्गतम् ॥ Rishabha Gita from Bhagavata Purana | (Bhagavatam Skandha 5, chapters 5-6)
स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो
ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः
प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच ॥ ५.४.१९ ॥

ऋषभ उवाच
नायं देहो देहभाजां नृलोके कष्टान्कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ ५.५.१ ॥

महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ ५.५.२ ॥

ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ५.५.३ ॥

नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः ॥ ५.५.४ ॥

पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥ ५.५.५ ॥

एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ५.५.६ ॥

यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः ॥ ५.५.७ ॥

पुंसः स्त्रिया मिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहुः ।
अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥ ५.५.८ ॥

यदा मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्मान्मुक्तः परं यात्यतिहाय हेतुम् ॥ ५.५.९ ॥

हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥ ५.५.१० ॥

मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः ॥ ५.५.११ ॥

अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्मभिजयेन सध्र्यक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्वदसम्प्रमादेन यमेन वाचाम् ॥ ५.५.१२ ॥

सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ ५.५.१३ ॥

कर्माशयं हृदयग्रन्थिबन्धमविद्ययाऽऽसादितमप्रमत्तः ।
अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् ॥ ५.५.१४ ॥

पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थः ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते ॥ ५.५.१५ ॥

लोकः स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतोरनन्तदुःखं च न वेद मूढः ॥ ५.५.१६ ॥

कस्तं स्वयं तदभिज्ञो विपश्चिदविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् ॥ ५.५.१७ ॥

गुरुर्न स स्यात्स्वजनो न स स्यात्पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्यान्न मोचयेद्यः समुपेतमृत्युम् ॥ ५.५.१८ ॥

इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यदधर्म आरादतो हि मामृषभं प्राहुरार्याः ॥ ५.५.१९ ॥

तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥ ५.५.२० ॥

भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः ।
ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ॥ ५.५.२१ ॥

देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भवः परः सोऽथ विरिञ्चवीर्यः स मत्परोऽहं द्विजदेवदेवः ॥

५.५.२२ ॥ var विरञ्च
न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्राः किमतः परं तु ।
यस्मिन्नृभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे ॥ ५.५.२३ ॥

धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र ॥ ५.५.२४ ॥

मत्तोऽप्यनन्तात्परतः परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् ॥ ५.५.२५ ॥

सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिस्तदु हार्हणं मे ॥ ५.५.२६ ॥

मनोवचोदृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान्येन महाविमोहात्कृतान्तपाशान्न विमोक्तुमीशेत् ॥ ५.५.२७ ॥

श्रीशुक उवाच
एवमनुशास्यात्मजान्स्वयमनुशिष्टानपि लोकानुशासनार्थं
महानुभावः परम सुहृद्भगवानृषभापदेश
उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं
पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठं
परमभागवतं भगवज्जनपरायणं भरतं धरणिपालनायाभिषिच्य
स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त
इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥ ५.५.२८ ॥

जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि
जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥ ५.५.२९ ॥

तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरि-
वनाश्रमादिष्वनुपथमवनिचरापसदैः
परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जन
ताडनावमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेप-
पूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान
एतस्मिन्देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण
स्वमहिमावस्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनः
पृथिवीमेकचरः परिबभ्राम ॥ ५.५.३० ॥

अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यासः
प्रकृति सुन्दरस्वभावहाससुमुखो
नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः
सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदनमहोत्सवेन
पुरवनितानां मनसि कुसुमशरासनमुपदधानः
परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतमलिननिज-
शरीरेण ग्रहगृहीत इवादृश्यत ॥ ५.५.३१ ॥

यर्हि वाव स भगवान्लोकमिमं योगस्याद्धा
प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति
व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति
स्म चेष्टमान उच्चरित आदिग्धोद्देशः ॥ ५.५.३२ ॥

तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं
समन्तात्सुरभिं चकार ॥ ५.५.३३ ॥

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः
काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ५.५.३४ ॥

इति नानायोगचर्याचरणो
भगवान्कैवल्यपतिरृषभोऽविरतपरममहानन्दानुभव
आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव
आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो
योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि
यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ॥ ५.५.३५ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे
ऋषभदेवतानुचरिते पञ्चमोऽध्यायः ॥५.५ ॥

राजोवाच
न नूनं भगव आत्मारामाणां
योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि
भवितुमर्हन्ति यदृच्छयोपगतानि ॥ ५.६.१ ॥

ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य
शठकिरात इव सङ्गच्छन्ते ॥ ५.६.२ ॥

तथा चोक्तम्
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ५.६.३ ॥

नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ५.६.४ ॥

कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५.६.५ ॥

अथैवमखिललोकपालललामोऽपि
विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षित-
भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥ ५.६.६ ॥

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य
योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः
कोङ्कवेङ्ककुटकान्दक्षिण कर्णाटकान्देशान्यदृच्छयोपगतः
कुटकाचलोपवन आस्यकृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत
एव विचचार ॥ ५.६.७ ॥

अथ समीरवेगविभूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः
सह तेन ददाह ॥ ५.६.८ ॥

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां
राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन
विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं
निजमनीषया मन्दः सम्प्रवर्तयिष्यते ॥ ५.६.९ ॥

येन ह वाव कलौ मनुजापसदा देवमायामोहिताः
स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि
निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि
कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः
प्रायेण भविष्यन्ति ॥ ५.६.१० ॥

ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽऽश्वस्तास्तमस्यन्धे
स्वयमेव प्रपतिष्यन्ति ॥ ५.६.११ ॥

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ ५.६.१२ ॥

तस्यानुगुणान् श्लोकान्गायन्ति
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥ ५.६.१३ ॥

अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान्पुराणः ।
कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् ॥ ५.६.१४ ॥

को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः ॥ ५.६.१५ ॥

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं
पुंसां समस्तदुश्चरिताभिहरणं परममहा-
मङ्गलायनमिदमनुश्रद्धयोपचितयानुश‍ृणोत्याश्रावयति वावहितो
भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥ ५.६.१६ ॥

यस्यामेव कवय आत्मानमविरतं
विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव
परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं
नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः ॥ ५.६.१७ ॥

राजन्पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ ५.६.१८ ॥

नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।
लोकस्य यः करुणयाभयमात्मलोकम्
आख्यान्नमो भगवते ऋषभाय तस्मै ॥ ५.६.१९ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे
ऋषभदेवतानुचरिते षष्ठोऽध्यायः ॥ ५.६ ॥

Also Read:

Rishabha Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Bhagavata Purana’s Rishabha Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top