Templesinindiainfo

Best Spiritual Website

Deva Danava Krita Shiva Stotram Lyrics in Hindi

Deva Danava Krita Shiva Stotram in Hindi:

॥ श्री शिव स्तोत्रम् (देवदानव कृतम्) ॥
देवदानवाः ऊचुः –
नमस्तुभ्यं विरूपाक्ष नमस्ते तिग्मचक्षुषे ।
नमः पिनाकहस्ताय धन्विने कामरूपिणे ॥ १ ॥

नमस्ते शूलहस्ताय दण्डहस्ताय धूर्जटे ।
नमस्त्रैलोक्यनाथाय भूतग्रामशरीरिणे ॥ २ ॥

नमस्सुरारिहन्त्रे च सोमार्कानलचक्षुषे ।
ब्रह्मणे चैव रुद्राय नमस्ते विष्णुरूपिणे ॥ ३ ॥

ब्रह्मणे वेदरूपाय नमस्ते विश्वरूपिणे ।
साङ्ख्ययोगाय भूतानां नमस्ते शंभवाय ते ॥ ४ ॥

मन्मथाङ्गविनाशाय नमः कालक्षयङ्कर ।
रंहसे देवदेवाय नमस्ते वसुरेतसे ॥ ५ ॥

एकवीराय सर्वाय नमः पिङ्गकपर्दिने ।
हर्त्रे कर्त्रे नमस्तुभ्यं नमस्त्रिपुरघातिने ॥ ६ ॥

शुद्धबोध प्रबुद्धाय मुक्तिकैवल्यरूपिणे ।
लोकत्रय विधात्रे च वरुणेन्द्राग्निरूपिणे ॥ ७ ॥

ऋग्यजुस्सामवेदाय पुरुषायेश्वराय च ।
अग्राय चैव चोग्राय विप्राय श्रुतिचक्षुषे ॥ ८ ॥

रजसेचैव सत्वाय नमस्ते तामसात्मने ।
अनित्यनित्यभासाय नमो नित्यचरात्मने ॥ ९ ॥

व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्तात्मने नमः ।
भक्तानामार्तिनाशाय प्रियनारायणाय च ॥ १० ॥

उमाप्रियाय शर्वाय नन्दिवक्त्राञ्चिताय वै ।
ऋतु मन्वन्तकल्पाय पक्षमासदिनात्मने ॥ ११ ॥

नानारूपाय मुण्डाय वरूथपृथुदण्डिने ।
नमः कपालहस्ताय दिग्वासाय शिङ्खडिने ॥ १२ ॥

धन्विने रथिने चैव यतये ब्रह्मचारिणे ।
शिवाय देवदेवाय नमस्तुभ्यं नमो नमः ॥ १३ ॥

एवं सुरासुरैस्स्थाणु-स्स्तुत-स्स्तोषमुपागतः ।
उवाच वाक्यं भीतानां स्मिताञ्चितशुभाक्षरम् ॥ १४ ॥

इति श्रीमत्स्यपुराणान्तर्गत देवदानवकृत शिवस्तोत्रम् ।

Also Read:

Deva Danava Krita Shiva Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Deva Danava Krita Shiva Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top