Templesinindiainfo

Best Spiritual Website

Naga Panchami Puja Vidhi Lyrics in Hindi

Naga Panchami Pooja Vidhi in Hindi:

॥ नाग पञ्चमी पूजा पद्धतिः ॥
[* पद्धति पाठः –
ईश्वर उवाच ।
श्रावणे मासि पञ्चम्यां शुक्लपक्षे तु पार्वति ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ।
भूरि चन्द्रमयं नागमथवा कलधौतजम् ।
कृत्वा दारुमयं वापि अथवा मृण्मयं प्रिये ॥

हरिद्राचन्दनेनैव पञ्च सप्त च लेखयेत् ।
पञ्चम्यामर्चयेद्भक्त्या नागान् पञ्चफणान् तथा ॥
अनन्तं वासुकिं शेषं पद्मकम्बलकौ तथा ।
तथा कार्कोटकं नागं भुजङ्गश्वातरौ तथा ॥
धृतराष्ट्रं शङ्खपालं कालीयं तक्षकं तथा ।
पिङ्गलं च महानागं सपत्नीकान्प्रपूजयेत् ॥
इयं चतुर्थ्यं वा यथाचारं कार्या ।
*]

आचम्य ।

पुनः सङ्कल्पम् ।
पूर्वोक्त एवं गुण विशेषण विशिष्टायं शुभ तिथौ मम सकुटुम्बस्य सपरिवारस्य सर्वदा सर्पभय निवृतिपूर्वकसर्वाभीष्ट सिद्धिद्वारा नागान्तर्गत भारतीरमण मुख्यप्राणान्तर्गत श्रीसङ्कर्षणप्रेरणया सङ्कर्षणप्रीत्यर्थ नागराजस्य षोडशोपचारपूजां करिष्ये ।

ध्यानम् ।
ब्रह्माण्डाधारभूतं च भुवनान्तरवासिनम् ।
फणयुक्तमहं ध्याये नागराजं हरिप्रियम् ।
ध्यानं समर्पयामि ।

आवाहनम् ।
आगच्छानन्त देवेश काल पन्नगनायक ।
अनन्तशयनीयं त्वां भक्त्या ह्यावाहयाम्यहम् ॥
ओं अनन्ताय नमः अनन्तं आवाहयामि ।
ओं वासुकये नमः वासुकीं आवाहयामि ।
ओं शेषाय नमः शेषं आवाहयामि ।
ओं पद्माय नमः पद्मं आवाहयामि ।
ओं कम्बलाय नमः कम्बलं आवाहयामि ।
ओं कार्कोटकाय नमः कार्कोटकं आवाहयामि ।
ओं भुजङ्गाय नमः भुजङ्गं आवाहयामि ।
ओं अश्वतराय नमः अश्वतरं आवाहयामि ।
ओं धृतराष्ट्राय नमः धृतराष्ट्रं आवाहयामि ।
ओं शङ्खपालाय नमः शङ्खपालं आवाहयामि ।
ओं कालियाय नमः कालियं आवाहयामि ।
ओं तक्षकाय नमः तक्षकं आवाहयामि ।
ओं पिङ्गलाय नमः पिङ्गलं आवाहयामि ।
नागपत्नीभ्यो नमः नागपत्नीः आवाहयामि ॥

आसनम् ।
नवनागकुलाधीश शेषोद्धारक काश्यप ।
नानारत्नसमायुक्तमासनं प्रतिगृह्यताम् ॥
आसनं समर्पयामि ।

पाद्यम् ।
अनन्तप्रिय शेषेश जगदाधारविग्रह ।
पाद्यं गृहाण मद्दत्तं काद्रवेय नमोऽस्तु ते ॥
पाद्यं समर्पयामि ।

अर्घ्यम् ।
कश्यपानन्दजनक मुनिवन्दित भोः प्रभो ।
अर्घ्यं गृहाण सर्वज्ञ सादरं शङ्करप्रिय ॥
अर्घ्यं समर्पयामि ।

आचमनम् ।
सहस्रफणिरूपेण वसुधोद्धारक प्रभो ।
गृहाणाचमनं देव पावनं च सुशीतलम् ॥
आचमनं समर्पयामि ।

मधुपर्कम् ।
कुमाररूपिणे तुभ्यं दधिमध्वाज्यसम्युतम् ।
मधुपर्कं प्रदास्यामि सर्पराज नमोऽस्तु ते ॥
मधुपर्कं समर्पयामि ।

पञ्चामृतस्नानम् ।
पयोदधिघृतं चैव मधुशर्करयान्वितम् ।
पञ्चामृतस्नानमिदं स्वीकुरुष्व दयानिधे ॥
पञ्चामृतस्नानं ।

स्नानम् ।
गङ्गादिपुण्यतीर्थैस्त्वामभिषिञ्चेयमादरात् ।
बलभद्रावतारेश नागेश श्रीपतेस्सखे ॥
स्नानं समर्पयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रम् ।
कौशेययुग्मं देवेश प्रीत्या तव मयार्पितम् ।
पन्नगाधीश नागेश तार्क्ष्यशत्रो नमोऽस्तु ते ॥
वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् ।
सुवर्णनिर्मितं सूत्रं ग्रथितकण्ठहारकम् ।
अनेकरत्नैः खचितं सर्पराज नमोऽस्तु ते ॥
यज्ञोपवीतं समर्पयामि ।

आभरणम् ।
अनेकरत्नान्वितहेमकुण्डले
माणिक्यसङ्काशित कङ्कणद्वयम् ।
हैमाङ्गुलीयं कृतरत्नमुद्रिकं
हैमं किरीटं फणिराज तेऽर्पितम् ॥
आभरणानि समर्पयामि ।

गन्धम् ।
चन्दनागरुकस्तूरीघनसारसमन्वितम् ।
गन्धं गृहाण देवेश सर्वगन्धमनोहर ॥
गन्धं समर्पयामि ।

अक्षतान् ।
अक्षतांश्च सुरश्रेष्ठ कुङ्कुमाक्तान्सुशोभितान् ।
मया निवेदितान्भक्त्या गृहाण पवनाशन ॥
अक्षतान् समर्पयामि ।

नागपत्नीभ्यो हरिद्राकुङ्कुमादि द्रव्यं अलङ्कारांश्च समर्पयामि ।

पुष्पम् ।
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मया हृतानि पूजार्थं पुष्पाणि स्वीकुरुष्व भो ॥
पुष्पाणि समर्पयामि ॥

अथाङ्गपूजा ।
ओं सहस्रपादाय नमः पादौ पूजयामि ।
ओं गूढगुल्फाय नमः गुल्फौ पूजयामि ।
ओं हेमजङ्घाय नमः जङ्घे पूजयामि ।
ओं मन्दगतये नमः जानुनी पूजयामि ।
ओं पीताम्बरधराय नमः कटिं पूजयामि ।
ओं गम्भीरनाभये नमः नाभिं पूजयामि ।
ओं पवनाशनाय नमः उदरं पूजयामि ।
ओं उरगाय नमः हस्तौ पूजयामि ।
ओं कालियाय नमः भुजौ पूजयामि ।
ओं कम्बुकण्ठाय नमः कण्ठं पूजयामि ।
ओं विषवक्त्राय नमः वक्त्रं पूजयामि ।
ओं फणभूषणाय नमः ललाटं पूजयामि ।
ओं लक्ष्मणाय नमः शिरं पूजयामि ।
ओं नागराजाय नमः सर्वाङ्गं पूजयामि ।
सर्वेभ्यः दध्यक्षतदुर्वाङ्कुरादीन् समर्पयामि ।

अष्टोत्तरशतनाम पूजा ।
श्री नागदेवता अष्टोत्तरशतनामावली

धूपम् ।
दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् ।
धूपं दास्यामि नागेश कृपया त्वं गृहाण तम् ॥
धूपमाघ्रापयामि ।

दीपम् ।
घृताक्तवर्तिसम्युक्तमन्धकारविनाशकम् ।
दीपं दास्यामि ते देव गृहाण मुदितो भव ॥
दीपं दर्शयामि ।

नैवेद्यम् ।
नैवेद्यं षड्रसोपेतं दधिमध्वाज्यसम्युतम् ।
नानाभक्ष्यफलोपेतं गृहाणाभीष्टदायक ॥

[*क्षीरदधिघृतशर्करापायसलाजन् समर्प्य*]
नैवेद्यं समर्पयामि ।

घनसारसुगन्धेन मिश्रितं पुष्पवासितम् ।
पानीयं गृह्यतां देव शीतलं सुमनोहरम् ॥
मध्ये पानीयं समर्पयामि ।
हस्तप्रक्षालनं समर्पयामि ।
मुखप्रक्षालनं समर्पयामि ।
आचमनं समर्पयामि ।

बीजपूराम्रपनसखर्जूरी कदलीफलम् ।
नारिकेलफलं दिव्यं गृहाण सुरपूजित ॥
नानाविधफलानि समर्पयामि ।

ताम्बूलम् ।
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ताम्बूलं समर्पयामि ।

दक्षिणम् ।
सुवर्णं सर्वधातूनां श्रेष्ठं देयं च तत्सदा ।
भक्त्या ददामि वरद स्वर्णवृद्धिं च देहि मे ॥
सुवर्णपुष्पदक्षिणां समर्पयामि ।

नीराजनम् ।
नीराजनं सुमङ्गल्यं कर्पूरेण समन्वितम् ।
वह्निचन्द्रार्कसदृशं गृहाण दुरितापह ।
महानीराजनं समर्पयामि ।

मन्त्रपुष्पम् ।
नानाकुसुमसम्युक्तं पुष्पाञ्जलिमिमं प्रभो ।
कश्यपानन्दजनक सर्पराज गृहाण मे ॥
मन्त्रपुष्पाञ्जलिं समर्पयामि ।

छत्र-चामर-दर्पण-नृत्त-गीत-वाद्यान्दोलिकादि समस्तराजोपचारान् समर्पयामि ॥

प्रदक्षिण ।
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्तु प्रदक्षिण पदे पदे ॥
प्रदक्षिणान् समर्पयामि ।

नमस्कारान् ।
नमस्ते सर्वलोकेश नमस्ते लोकवन्दित ।
नमस्तेऽस्तु सदा नाग त्राहि मां दुःखसागरात् ॥
नमस्कारान् समर्पयामि ।

प्रार्थना ।
अज्ञानात् ज्ञानतो वापि यन्मया पूजनं कृतम् ।
न्यूनातिरिक्तं तत्सर्वं भो नागाः क्षन्तुमर्हथ ॥
युष्मत्प्रसादात्सफला मम सन्तु मनोरथाः ।
सर्वदा मत्कृते मास्तु भयं सर्पविषोद्भवम् ॥

समर्पणम् ।
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ।

अनेन नागराजपूजनेन भगवान् नागराजान्तर्गत भारतीरमणमुख्यप्राणान्तर्गत श्रीसङ्कर्षणः प्रीयतां ।
श्रीकृष्णार्पणमस्तु ।

[ततः ब्राह्मणपूजां कृत्वा वायनदानं दद्यात्]

वायनदान मन्त्रः ।
नागेशः प्रतिगृह्णाति नागेशो वै ददाति च ।
नागेशस्तारको द्वाभ्यां नागेशाय नमो नमः ॥

इदं वायनदानं सदक्षिणाकं सताम्बूलं नागराजान्तर्गत भारतीरमणमुख्यप्राणान्तर्गत श्रीसङ्कर्षणप्रीतिं कामयमानः (ना) तुभ्यमहं सम्प्रददे न मम ॥
प्रतिगृह्यताम् । (ब्राह्मणः प्रतिगृह्णामीति वदेत् )

[*
ततः वल्मीके पूजयेन्नागान् दुग्धं चैवतु पाययेत् ।
घृतयुक्तं शर्कराढ्यं यथेष्टं पाययेद्बुधः ।
लोहपात्रे पोलिकादि न कार्यं तद्दिने नरैः ।
तथा भूमेः कर्षणं च खननादि न कारयेत् ।
भर्जितचणक यावनाल व्रीहिलाजान् बालकैस्सह भक्षयेत् ।
नागप्रीत्यर्थं यथा शक्ति पायसान्नेन ब्राह्मणान्भोजयेत् ।
ततः वल्मीकस्य समीपे तु गायनं वाद्यमेव च ।
स्त्रीभिः कार्यं भूषिताभिः कार्यश्चैवोत्सवो महान् ॥

एवं कृते कदाचिच्च सर्पतो न भयं भवेत् ।
एवं प्रतिवर्षं कार्यम् ।
*]

इति नागपञ्चमी पूजा समाप्ता ॥

Also Read:

Naga Panchami Puja Vidhanam Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Naga Panchami Puja Vidhi Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top