Templesinindiainfo

Best Spiritual Website

Shri Ramarahasyokta Shri Ramashtottara Shata Nama Stotram 8 Lyrics in Hindi

Sri Ramarahasyokta Shri Ramashtottara Shata Nama Stotram Lyrics in Hindi:

श्रीरामरहस्योक्त श्रीरामाष्टोत्तरशतनामस्तोत्रम्
रामो रावणसंहारकृतमानुषविग्रहः ।
कौसल्यासुकृतव्रातफलं दशरथात्मजः ॥ १ ॥

लक्ष्मणार्चितपादाब्जसर्वलोकप्रियङ्करः
साकेतवासिनेत्राब्जसंप्रीणनदिवाकरः ॥ २ ॥

विश्वामित्रप्रियश्शान्तः ताटकाध्वान्तभास्करः ।
सुबाहुराक्षसरिपुः कौशिकाध्वरपालकः ॥ ३ ॥

अहल्यापापसंहर्ता जनकेन्द्रप्रियातिथिः ।
पुरारिचापदलनो वीरलक्ष्मीसमाश्रयः ॥ ४ ॥

सीतावरणमाल्याढ्यो जामदग्न्यमदापहः ।
वैदेहीकृतश‍ृङ्गारः पितृप्रीतिविवर्धनः ॥ ५ ॥

ताताज्ञोत्सृष्टहस्तस्थराज्यस्सत्यप्रतिश्रवः ।
तमसातीरसंवासी गुहानुग्रहतत्परः ॥ ६ ॥

सुमन्त्रसेवितपदो भरद्वाजप्रियातिथिः ।
चित्रकूटप्रियावासः पादुकान्यस्तभूभरः ॥ ७ ॥ चित्रकूटप्रियस्थानः

अनसूयाङ्गरागाङ्कसीतासाहित्यशोभितः ।
दण्डकारण्यसञ्चारी विराधस्वर्गदायकः ॥ ८ ॥

रक्षःकालान्तकस्सर्वमुनिसङ्घमुदावहः ।
प्रतिज्ञातास्शरवधः शरभभङ्गगतिप्रदः ॥ ९ ॥

अगस्त्यार्पितबाणासखड्गतूणीरमण्डितः ।
प्राप्तपञ्चवटीवासो गृध्रराजसहायवान् ॥ १० ॥

कामिशूर्पणखाकर्णनासाच्छेदनियामकः ।
खरादिराक्षसव्रातखण्डनावितसज्जनः ॥ ११ ॥

सीतासंश्लिष्टकायाभाजितविद्युद्युताम्बुदः ।
मारीचहन्ता मायाढ्यो जटायुर्मोक्षदायकः ॥ १२ ॥

कबन्धबाहुदलनश्शबरीप्रार्थितातिथिः ।
हनुमद्वन्दितपदस्सुग्रीवसुहृदव्ययः ॥ १३ ॥

दैत्यकङ्कालविक्षेपी सप्ततालप्रभेदकः ।
एकेषुहतवाली च तारासंस्तुतसद्गुणः ॥ १४ ॥

कपीन्द्रीकृतसुग्रीवस्सर्ववानरपूजितः ।
वायुसूनुसमानीतसीतासन्देशनन्दितः ॥ १५ ॥

जैत्रयात्रोत्सवः जिष्णुर्विष्णुरूपो निराकृतिः । जैत्रयात्रोद्यतो
कम्पिताम्भोनिधिस्सम्पत्प्रदस्सेतुनिबन्धनः ॥ १६ ॥

लङ्काविभेदनपटुर्निशाचरविनाशकः ।
कुम्भकर्णाख्यकुम्भीन्द्रमृगराजपराक्रमः ॥ १७ ॥

मेघनादवधोद्युक्तलक्ष्मणास्त्रबलप्रदः ।
दशग्रीवान्धतामिस्रप्रमापणप्रभाकरः ॥ १८ ॥

इन्द्रादिदेवतास्तुत्यश्चन्द्राभमुखमण्डलः ।
बिभीषणार्पितनिशाचरराज्यो वृषप्रियः ॥ १९ ॥

वैश्वानरस्तुतगुणावनिपुत्रीसमागतः ।
पुष्पकस्थानसुभगः पुण्यवत्प्राप्यदर्शनः ॥ २० ॥

राज्याभिषिक्तो राजेन्द्रो राजीवसदृशेक्षणः ।
लोकतापपरिहन्ता च धर्मसंस्थापनोद्यतः ॥ २१ ॥ लोकतापापहर्ता
शरण्यः कीर्तिमान्नित्यो वदान्यः करुणार्णवः ।
संसारसिन्धुसम्मग्नतारकाख्यामहोज्जवलः ॥ २२ ॥ तारकाख्यमनोहरः

मधुरोमधुरोक्तिश्च मधुरानायकाग्रजः ।
शम्बूकदत्तस्वर्लोकश्शम्बरारातिसुन्दरः ॥ २३ ॥

अश्वमेधमहायाजी वाल्मीकिप्रीतिमान्वशी ।
स्वयंरामायणश्रोता पुत्रप्राप्तिप्रमोदितः ॥ २४ ॥

ब्रह्मादिस्तुतमाहात्म्यो ब्रह्मर्षिगणपूजितः ।
वर्णाश्रमरतो वर्णाश्रमधर्मनियामकः ॥ २५ ॥

रक्षापरो राजवंशप्रतिष्ठापनतत्परः । रक्षावहः
गन्धर्वहिंसासंहारी धृतिमान्दीनवत्सलः ॥ २६ ॥

ज्ञानोपदेष्टा वेदान्तवेद्यो भक्तप्रियङ्करः ।
वैकुण्ठवासी पायान्नश्चराचरविमुक्तिदः ॥ २७ ॥ वैकुण्ठलोकसंवासी

इति श्रीरामरहस्योक्तं श्रीरामाष्टोत्तरशतनामस्त्तोरं सम्पूर्णम् ।

Also Read:

Sri Ramarahasyokta Shri Ramashtottara Shata Nama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Ramarahasyokta Shri Ramashtottara Shata Nama Stotram 8 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top