Templesinindiainfo

Best Spiritual Website

Sri Lalitha Stavaraja Stotram Lyrics in Hindi

Sri Lalitha Stavaraja Stotram in Hindi:

॥ श्री ललिता स्तवराजः ॥
देवा ऊचुः ।
जय देवि जगन्मातर्जय देवि परात्परे ।
जय कल्याणनिलये जय कामकलात्मिके ॥ १ ॥

जयकारि च वामाक्षि जय कामाक्षि सुन्दरि ।
जयाखिलसुराराध्ये जय कामेशि मानदे ॥ २ ॥

जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके ।
जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३ ॥

जय श्रीकण्ठदयिते जय श्रीललितेऽंबिके ।
जय श्रीविजये देवि विजय श्रीसमृद्धिदे ॥ ४ ॥

जातस्य जायमानस्य इष्टापूर्तस्य हेतवे ।
नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ५ ॥

कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने ।
नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६ ॥

नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।
अणोरणुतरे देवि महतोऽपि महीयसि ॥ ७ ॥

परात्परतरे मातस्तेजस्तेजीयसामपि ।
अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ८ ॥

रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् ।
हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ९ ॥

दृशश्चन्द्रार्कदहना दिशस्ते बाहवोऽंबिके ।
मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ १० ॥

क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः ।
आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ११ ॥

दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ।
शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ १२ ॥

धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते ।
यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ १३ ॥

स्तनौ स्वाहास्वधाऽऽकरौ लोकोज्जीवनकारकौ ।
प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ १४ ॥

प्रत्याहारस्त्विन्द्रियाणि ध्यानं ते धीस्तु सत्तमा ।
मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ १५ ॥

महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ।
भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ १६ ॥

यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी ।
आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ १७ ॥

हृदयस्थापि लोकानामदृश्या मोहनात्मिका ॥ १८ ॥

नामरूपविभागं च या करोति स्वलीलया ।
तान्यधिष्ठाय तिष्ठन्ती तेष्वसक्तार्थकामदा ।
नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः ॥ १९ ॥

यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः ।
पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः ॥ २० ॥

या ससर्जादिधातारं सर्गादावादिभूरिदम् ।
दधार स्वयमेवैका तस्यै देव्यै नमोनमः ॥ २१ ॥

यथा धृता तु धरणी ययाऽऽकाशममेयया ।
यस्यामुदेति सविता तस्यै देव्यै नमोनमः ॥ २२ ॥

यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् ।
यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः ॥ २३ ॥

नमोनमस्ते रजसे भवायै
नमोनमः सात्त्विकसंस्थितायै ।
नमोनमस्ते तमसे हरायै
नमोनमो निर्गुणतः शिवायै ॥ २४ ॥

नमोनमस्ते जगदेकमात्रे
नमोनमस्ते जगदेकपित्रे ।
नमोनमस्तेऽखिलरूपतन्त्रे
नमोनमस्तेऽखिलयन्त्ररूपे ॥ २५ ॥

नमोनमो लोकगुरुप्रधाने
नमोनमस्तेऽखिलवाग्विभूत्यै ।
नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै
नमोनमः शांभवि सर्वशक्त्यै ॥ २६ ॥

अनादिमध्यान्तमपाञ्चभौतिकं
ह्यवाङ्मनोगम्यमतर्क्यवैभवम् ।
अरूपमद्वन्द्वमदृष्टगोचरं
प्रभावमग्र्यं कथमंब वर्णये ॥ २७ ॥

प्रसीद विश्वेश्वरि विश्ववन्दिते
प्रसीद विद्येश्वरि वेदरूपिणि ।
प्रसीद मायामयि मन्त्राविग्रहे
प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ २८ ॥

इति स्तुत्वा महादेवीं देवाः सर्वे सवासवाः ।
भूयो भूयो नमस्कृत्य शरणं जग्मुरञ्जसा ॥ २९ ॥

ततः प्रसन्ना सा देवी प्रणतं वीक्ष्य वासवम् ।
वरेण च्छन्दयामास वरदाखिलदेहिनाम् ॥ ३० ॥

इन्द्र उवाच ।
यदि तुष्टासि कल्याणि वरं दैत्येन्द्रपीडिताः ।
दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः ॥ ३१ ॥

श्रीदेव्युवाच ।
अहमेव विनिर्जित्य भण्डं दैत्यकुलोद्भवम् ।
अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम् ॥ ३२ ॥

निर्भया मुदिताः सन्तु सर्वे देवगणास्तथा ।
ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः ॥ ३३ ॥

भाजनं ते भविष्यन्ति धर्मश्रीयशसां सदा ।
विद्याविनयसम्पन्ना नीरोगा दीर्घजीविनः ॥ ३४ ॥

पुत्रमित्रकलत्राढ्या भवन्तु मदनुग्रहात् ।
इति लब्धवरा देवा देवेन्द्रोऽपि महाबलः ॥ ३५ ॥

आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः ॥ ३६ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितास्तवराजो नाम त्रयोदशोऽध्यायः ॥

Also Read:

Sri Lalitha Stavaraja Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Stavaraja Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top