Templesinindiainfo

Best Spiritual Website

Vishnorashtottara Shatanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Vishnu Ashtottara Shatanama Stotram Hindi Lyrics:

विष्णोरष्टोत्तरशतनामस्तोत्रम्

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः ।
दामोदरो दीनबन्धुरादिदेवोऽदितेः सुतः ॥ १ ॥

पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारी विश्वात्मा कृष्णः कलिमलापहः ॥ २ ॥

कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ ३ ॥

हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः ।
वामनो वेदवक्ता च वासुदेवः सनातनः ॥ ४ ॥

रामो विरामो विरजो रावणारी रमापतिः ।
वैकुण्ठवासी वसुमान् धनदो धरणीधरः ॥ ५ ॥

धर्मेशो धरणीनाथो ध्येयो धर्मभृतां वरः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ६ ॥

सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः ।
कौसल्यानन्दनः श्रीमान् रक्षःकुलविनाशकः ॥ ७ ॥

जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा ।
जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥ ८ ॥

क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा ।
शेषशायी पन्नगारिवाहनो विष्टरश्रवाः ॥ ९ ॥

माधवो मधुरानाथो मोहदो मोहनाशनः ।
दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ॥ १० ॥

सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः ।
नित्यो निरामयः शुद्धो नरदेवो जगत्प्रभुः ॥ ११ ॥

हयग्रीवो जितरिपुरुपेन्द्रो रुक्मणीपतिः ।
सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥ १२ ॥

साम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ।
यशोदातनयो योगी योगशास्त्रपरायणः ॥ १३ ॥

रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूदनः ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १४ ॥

सर्वपापहरं पुण्यं विष्णोरमिततेजसः ।
दुःखदारिद्रयदौर्भाग्यनाशनं सुखवर्धनम् ॥ १५ ॥

सर्वसम्पत्करं सौम्यं महापातकनाशनम् ।
प्रातरुत्थाय विप्रेन्द्र पठेदेकाग्रमानसः ।
तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ १६ ॥

इति शाक्तप्रमोदतः विष्णोः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Vishnorashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Vishnorashtottara Shatanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top