Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva from Saurapurana Lyrics in Hindi

Shiva Sahasranama Stotram from Saurapurana in Hindi:

॥ श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम् ॥

ऋषय ऊचु –
सुदर्शनाख्यं यच्चक्रं लब्धवांस्तत्कथं हरिः ।
महादेवाद्भगवतः सत्त तद्वक्तुमर्हसि ॥ १ ॥

सूत उवाच –
देवासुराणामभवत्सङ्ग्रामोऽद्भुतदर्शनः ।
देवा विनिर्जिता दैत्यैर्विष्णुं शरणमागताः ॥ २ ॥

स्तुत्वा तं विविधैः स्तोत्रैः प्रणम्य पुरतः स्थिताः ।
भयभीताश्च ते सर्वे क्षताङ्गाः क्लेशिता भृशम् ॥ ३ ॥

तान्दृष्ट्वा प्राह भगवान्देवदेवो जनार्दनः ।
किमर्थमागता देवा वक्तुमर्हथ साम्प्रतम् ॥ ४ ॥

वचः श्रुत्वा हरेर्देवाः प्रणम्योचुः सुरोत्तमाः ।
निर्जिता दानवैः सर्वे शरणं त्वामिहाऽऽगताः ॥ ५ ॥

गतिस्त्वमेव देवानां त्राता त्वं पुरुषोत्तम ।
हन्तुमर्हसि ताञ्शीघ्रमवध्यान्वारिजेक्षण ॥ ६ ॥

जालन्धरवधार्थाय यच्चक्रं शूलपाणिनः ।
महादेववराल्लब्धं जहि तेन महाबलान् ॥ ७ ॥

तेषां तद्वचनं श्रुत्वा भगवान्वारिजेक्षणः ।
अहं देवास्तथा नूनं करिष्यामीति सुव्रताः ॥ ८ ॥

हिमवत्पर्वतं गत्वा पूजयामास शङ्करम् ।
लिङ्गं तत्र प्रतिष्ठाप्य स्नाप्य गन्धोदकैः शुभैः ॥ ९ ॥

त्वरिताख्येन रुद्रेण सम्पूज्य च महेश्वरम् ।
ततो नाम्नां सहस्रेण तुष्टाव परमेश्वरम् ॥ १० ॥

प्रतिनाम च पद्मानि तैरिष्ट्वा वृषभध्वजम् ।
भवाद्यैर्नामभिर्भक्त्या स्तोतुं समुपचक्रमे ॥ ११ ॥

श्रीविष्णुरुवाच –
भवः शिवो हरो रुद्रः पुष्कलो मुग्धलोचनः ।
अग्रगण्यः सदाचारः सर्वः शम्भुर्महेश्वरः ॥ १२ ॥

ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ।
वरीयान्वरदो वन्द्यः शङ्करः परमेश्वरः ॥ १३ ॥

गङ्गाधरः शूलधरः परार्थैकप्रयोजकः ।
सर्वज्ञः सर्वदेवादिर्गिरिधन्वा जटाधरः ॥ १४ ॥

चन्द्रापीडश्चन्द्रमौलिर्वेधा विश्वामरेश्वरः ।
वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ १५ ॥

ध्यानाहारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥ १६ ॥

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।
वामदेवो महादेवः पटुः परिवृढो दृढः ॥ १७ ॥

विश्वरूपो विरूपाक्षो वागीशः श्रुतिमन्त्रगः ।
सर्वप्रणवसंवादी वृषाङ्को वृषवाहनः ॥ १८ ॥

ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ।
मनोमयो महायोगी स्थिरो ब्रह्माण्डधूर्जटी ॥ १९ ॥

कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।
नागचूडः सुचक्षुष्यो दुर्वासाः पुरशासनः ॥ २० ॥

दृगायुधः स्कन्दगुरुः परमेष्ठी परायणः ।
अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ २१ ॥

कुबेरबन्धुः श्रीकण्ठो लोकवन्द्योत्तमो मृदुः ।
सामान्यो देवको दण्डी नीलकण्ठः परश्वधीः ॥ २२ ॥

विशालाक्षो महाव्याधः सुरेशः सूर्यतापनः ।
धर्मधामा क्षमाक्षेत्रं भगवान्भगनेत्रहा ॥ २३ ॥

उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः प्रियंवदः ।
दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ २४
श्मशाननिलयस्तिष्यः श्मशानस्थो महेश्वरः ।
लोककर्ता भूतपतिर्महाकर्ता महौषधिः ॥ २५ ॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः ॥ २५ ॥

सोमपोऽमृतपः सौम्यो महानीतिर्महास्मृतिः ।
अजातशत्रुरालोक्यः सम्भाव्यो हव्यवाहनः ॥ २७ ॥

लोककारो वेदकारः सूत्रकारः सनातनः ।
महर्षिः कपिलाचार्यो विश्वदीप्तिर्विलोचनः ॥ २८ ॥

पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदः सुधा ।
धात्रीधामा धामकरः सर्वगः सर्वगोचरः ॥ २९ ॥

ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ।
शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥ ३० ॥

गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थितः ।
विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥ ३१ ॥

सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः ।
कामदेवः कामकालो भस्मोद्धूलितविग्रहः ॥ ३२ ॥

भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ।
समावृत्तो निवृत्तात्मा धर्मपुञ्जः सदाशिवः ॥ ३३ ॥

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः ।
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ ३४ ॥

अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ।
शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः ॥ ३५ ॥

भस्मशुद्धिकरो मेरुस्तेजस्वी शुद्धविग्रहः ।
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥ ३६ ॥

महाह्रदो महागर्तः सिद्धवृन्दारवन्दितः ।
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥ ३७ ॥

अमृतात्माऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ।
पञ्चविंशतितत्त्वस्थः पारिजातः परापरः ॥ ३८ ॥

सुलभः सुव्रतः शूरो वाग्मायैकनिधिर्निधिः ।
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ ३९ ॥

आश्रमः क्षपणः क्षामो ज्ञानवानचलश्चलः ।
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ ४० ॥

धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ।
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ॥ ४१ ॥

अविवाद्यो महाकायो विश्वकर्मा विशारदः ।
वीतरागो विनीतात्मा तपस्वी भूतवाहनः ॥ ४२ ॥

उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ।
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥ ४३ ॥

तपस्वी तारको धीमान्प्रधानप्रभुरव्ययः ।
लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥ ४४
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ।
राहुः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥ ४५ ॥

भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ।
अद्रिद्रोणिकृतस्थानः पवनात्मा जगत्पतिः ॥ ४६ ॥

सर्वकर्माचलस्त्वष्टा मङ्गऽल्यो मङ्गलप्रदः ।
महातपा दीर्घतपाः स्थविष्णुः स्थविरो ध्रुवः ॥ ४७ ॥

अहः संवत्सरो व्यालः प्रमाणं परमं तपः ।
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥ ४८ ॥

अजः सर्वेश्वरः सिद्धो महारेता महाबलः ।
योगी योगो महादेवः सिद्धः सर्वादिरच्युतः ॥ ४९ ॥

वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ।
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ॥ ५० ॥

कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ।
भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥ ५१ ॥

अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ।
कालयोगी महानादो महोत्साहो महाचलः ॥ ५२ ॥

महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ।
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ५३ ॥

अनिर्देश्यवपुः श्रीमान्सर्वाकर्षकरो मतः ।
बहुश्रुतो बहुमायो नियतात्माऽभयोद्भवः ॥ ५४ ॥

ओजस्तेजोद्युतिधरो नर्तकः सर्वनायकः ।
नित्यघण्टाप्रियो नित्यप्रकाशात्मा प्रतापनः ॥ ५५ ॥

ऋद्धः स्पष्टाक्षरो मन्त्रः सङ्ग्रामः शारदप्लवः ।
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ५६ ॥

इष्टो विशिष्टः शिष्टेष्टः शरभः सरभो धनुः ।
अपां निधिरधिष्ठानं विजयो जयकालवित् ॥ ५७ ॥

प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ।
विमोचनं सुरगणो विद्येशो विबुधाश्रयः ॥ ५८ ॥

बालरूपो बलोन्मायी विकर्ता गहनो गुहः ।
करणं कारणं कर्ता सर्वबन्धप्रमोचनः ॥ ५९ ॥

व्यवसायो व्यवस्थानः स्थानदो जनदादिजः ।
दुन्दुभो ललितो विश्वो भवात्माऽऽत्मनि संस्थितः ॥ ६० ॥

राजराजप्रियो रामो राजचूडामणिः प्रभुः ।
वीरेश्वरो वीरभद्रो वीरासनविधिर्विराट् ॥ ६१ ॥

वीरचूडामणिहर्ता तीव्रानन्दो नदीधरः ।
आत्माधारस्त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥ ६२ ॥

बालखिल्यो महाचारस्तिग्मांशुर्वारिधिः खगः ।
अभिरामः सुशरण्यः सुब्रह्मण्यः सुधापतिः ॥ ६३ ॥

मधुमान्कौशिको गोमान्विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ६४ ॥

अमोघदण्डो मध्यस्थो हिरण्यो ब्रह्मवर्चसी ।
परब्रह्मपदो हंसः शबरो व्याघ्रकोऽनलः ॥ ६५ ॥

रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ।
रविर्विरोचनः स्कन्दः शास्ता वैवस्वतोऽर्जुनः ॥ ६६ ॥

मुक्तिरुन्नतकीर्तिश्च शान्तरामः पुरञ्जयः ।
कैलासपतिः कामारिः सविता रविलोचनः ॥ ६७ ॥

विद्वत्तमो वीतभयो विश्वकर्माऽनिवारितः ।
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ६८ ॥

दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ।
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥ ६९ ॥

अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।
विश्वगोप्ता विश्वहर्ता सुवीरो रुचिराङ्गदी ॥ ७० ॥

जननो जनजन्मादिः प्रीतिमान्नीतिमानथ ।
वसिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ७१ ॥

प्रणवः सत्पथाचारो महाकायो महाधनुः ।
जन्माधिपो महादेवः सकलागमपारगः ॥ ७२ ॥

तत्त्वं तत्त्वविदेकात्मा विभूतिर्भूतिभूषणः ।
ऋषिर्ब्राह्मणविद्विष्णुर्जन्ममृत्युजरातिगः ॥ ७३ ॥

यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ।
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ॥ ७४ ॥

पञ्चब्रह्मसमुत्पत्तिर्विश्वतो विमलोदयः ।
आत्मयोनिरनाद्यन्तः पट्त्रिंशो लोकभृत्कविः ॥ ७५ ॥

गायत्रीवल्लभः प्रांशुर्विश्वावासः सदाशिवः ।
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ७६ ॥

अमेयोऽरिष्टमथनो मुकुन्दो विगतज्वरः ।
स्वयञ्ज्योतिरनुज्योतिरचलः परमेश्वरः ॥ ७७ ॥

पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ।
ज्ञानस्कन्धो महाज्ञानी वीरोत्पत्तिरुपप्लवी ॥ ७८ ॥

भगो विवस्वानादित्यो योगाचारो दिवस्पतिः ।
उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥ ७९ ॥

नक्षत्रमार्ला नाकेशः स्वाधिष्ठानषडाश्रयः ।
पवित्रपादः पापारिर्मणिपूरो नभोगतिः ॥ ८० ॥

हृत्पुण्डरीकमासीनः शुक्राशानो वृषाकपिः ।
तुष्टो गृहपतिः कृष्णः समर्थोऽनर्थशासनः ॥ ८१ ॥

अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥

बृहद्भुजो ब्रह्मगर्भो धर्मधेनुर्धनागमः ॥ ८२ ॥

जगद्धितैषी सुगतः कुमारः कुशलागमः ।
हिरण्यगर्भो ज्योतिष्मानुपेन्द्रस्तिमिरापहः ॥ ८३ ॥

अरोगस्तपनाध्यक्षो विश्वामित्रो द्विजेश्वरः ।
ब्रह्मज्योतिः सुबुद्धात्मा बृहज्ज्योतिरनुत्तमः ॥ ८४
मातामहो मातरिश्वा मनस्वी नागहारधृक् ।
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥

निरावरणविज्ञानो विरञ्चो विष्टरश्रवाः ।
आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥ ८६ ॥

लोकचूडामणिर्वीरश्चन्द्रः सत्यपराक्रमः ।
व्यालकल्पो महाकल्पः कल्पवृक्षः कलानिधिः ॥ ८७ ॥

अलकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ।
आशुः सप्तपतिर्वेगी प्लवनः शिखिसारथिः ॥ ८८ ॥

असन्तुष्टोऽतिथिः शुक्तः प्रमाथी पापशासनः ।
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥ ८९ ॥

जयो जरारिशमनो लोहिताश्वस्तनूनपात् ।
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥ ९० ॥

निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ।
सुखी नीलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥ ९१ ॥

वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।
मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ॥ ९२ ॥

जमदग्निर्जलनिधिर्विपाको विश्वकारकः ।
अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥ ९३ ॥

शैलो नाम तरुर्दाहो दानवारिररिन्दमः ।
चामुण्डी जनकश्चारुर्निःशल्यो लोकशल्यहृत् ॥ ९४ ॥

चतुर्वेदश्चतुर्भावश्चतुरश्चत्वरप्रियः ।
आम्नायोऽथ समाम्नायरतीर्थदेवः शिवालयः ॥ ९५ ॥

वज्ररूपो महादेवः सर्वरूपश्चराचरः ।
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ॥ ९६ ॥

सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ।
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तरः ॥ ९७ ॥

पिङ्गलाक्षोऽथ हर्यश्वो नीलग्रीवो निरामयः ।
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् ॥ ९८ ॥

पद्मासनः परं ज्योतिः परावरः परं फलम् ।
पद्मगर्भो महागर्भो विश्वगर्भो विलक्षणः ॥ ९९ ॥

यज्ञभुग्वरदो देवो वरेशश्च महास्वनः ।
देवासुरगुरुर्देवः शङ्करो लोकसम्भवः ॥ १०० ॥

सर्ववेदमयोऽचिन्त्यो देवतासत्यसम्भवः ।
देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १०१ ॥

देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ।
देवासुराणां वरदो देवासुरनमस्कृतः ॥ १०२ ॥

देवासुरमहामात्रो देवासुरमहाश्रयः ।
सर्वदेवमयोऽचिन्त्यो देवानामात्मसम्भवः ॥ १०३ ॥

ईड्योऽनीशः सुरव्याप्तो देवसिंहो दिवाकरः ।
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १०४ ॥

शिवध्यानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः ।
वज्रहस्तः प्रतिष्टम्भी विश्वज्ञानी निशाकरः ॥ १०५ ॥

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ॥ १०६ ॥

लिङ्गाध्यक्षः सुराध्यक्षो धर्माध्यक्षो युगावहः ।
स्ववशः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥ १०७ ॥

बीजाध्यक्षो बीजकर्ता धर्मकृद्धर्मवर्धनः ।
दम्भोऽदम्भो महादम्भः सर्वेभूतमहेश्वरः ॥ १०८ ॥

श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ।
लोकोत्तरः स्फुतालोकस्त्र्यम्बको भक्तवत्सलः ॥ १०९ ॥

अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ।
वीतदोषोऽक्षयगुणोऽन्तकारिः पूषदन्तभित् ॥ ११० ॥

धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ।
आकारः सकलाधारः पाण्डुरागो मृगो नटः ॥ १११ ॥

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।
सामगेयः प्रियः क्रूरः पूण्यकीर्तिरनामयः ॥ ११२ ॥

मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ।
जीवितान्तकरोऽनन्तो वसुरेता वसुप्रदः ॥ ११३ ॥

सद्गतिः सत्कृतिः शान्तः कालकण्ठः कलाधरः ।
मानी मन्तुर्महाकालः सद्भूतिः सत्परायणः ॥ ११४ ॥

चन्द्रसञ्जीवनः शास्ता लोकरूढो महाधिपः ।
लोकबन्धुर्लोकनाथः कृतज्ञः कृतभूषणः ॥ ११५ ॥

अनपायोऽक्षरः शान्तः सर्वशस्त्रभृतां वरः ।
तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ॥ ११६ ॥

सुविस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ।
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ॥ ११७ ॥

तुम्बी वीणा महाशोको विशोकः शोकनाशनः ।
त्रिलोकेशस्रिलोकात्मा सिद्धिः शुद्धिरधोक्षजः ॥ ११८ ॥

अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ।
वरशीलो वरगुणो गतो गव्ययनो मयः ॥ ११९ ॥

ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्मतः ।
वेधा विधाता स्रष्टा च कर्ता हर्ता चतुर्मुखः ॥ १२० ॥

कैलासशिखरावासी सर्वावासी सदागतिः ।
हिरण्यगर्भो गगनः पुरुषः पूर्वजः पिता ॥ १२१ ॥

भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ।
संयमो योगविद्भ्रष्टो ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२२ ॥

देवप्रियो देवनाथो दैवज्ञो देवचिन्तकः ।
विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥ १२३
निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।
दर्पहा दर्पणो दृप्तः सर्वर्तुपरिवर्तकः ॥ १२४ ॥

सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ।
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ॥ १२५ ॥

अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ।
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजदर्शनः ॥

सत्त्ववान्सात्विकः सत्यः कीर्तिस्तम्भः कृतागमः ।
अकम्पितो गुणग्राही नैकात्मा लोककर्मकुत् ॥ १२७ ॥

श्रीवल्लभः शिवारम्भः शान्तभद्रः समञ्जसः ।
भूशयो भूतिकृद्भूतिर्विभूतिर्भूतिवाहनः ॥ १२८ ॥

अकायो भूतकायरथः कालज्ञानो महापटुः ।
सत्यव्रतो महात्याग इच्छाशान्तिपरायणः ॥ १२९ ॥

परार्थवृत्तिवरदो विविक्तः श्रुतिसागरः ।
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥ १३० ॥

स्वभावभद्रो मध्यस्थः शत्रुघ्नः शत्रुनाशनः ।
शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १३१ ॥

मेखली कञ्चुकी खड्गी मौली संसारसारथिः ।
अमृत्युः सर्वजित्सिंहस्तेजोराशिर्महामणिः ॥ १३२ ॥

असङ्ख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ।
वेद्यो वैद्यो वियद्गोप्ता सप्तावरमुनीश्वरः ॥ १३३ ॥

अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।
सुरेशः शरणं शर्म सर्वः शब्दवतां गतिः ॥ १३४ ॥

कालः पक्षः करङ्कारिः कङ्कणीकृतवासुकिः ।
महेष्वासो महीभर्ता निष्कलङ्को विश‍ृङ्खलः ॥ १३५ ॥

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।
विवृतः संवृतः शिल्पी व्यूढोरस्को महाभुजः ॥ १३६ ॥

एकज्योतिर्निरातङ्को नरनारायणप्रियः ।
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ १३७ ॥

स्तव्यः स्तवप्रियः स्तोता व्योममूर्तिरनाकुलः ।
निरवेद्यपदोपायो विद्याराशिरकृत्रिमः ॥ १३८ ॥

प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ।
ध्येयोऽग्रधुर्यो धात्रीशः साकल्यः शर्वरीपतिः ॥ १३९ ॥

परमार्थगुरुर्व्यापी शुचिराश्रितवत्सलः ।
रसो रसज्ञः सारज्ञः सर्वसत्त्वावलम्बनः ॥ १४० ॥

एवं नाम्नां सहस्रेण तुष्टाव गिरिजापतिम् ।
सम्पूज्य परया भक्त्या पुण्डरीकैद्विजोत्तमाः ॥ १४१ ॥

जिज्ञासार्थं हरेर्भक्त्या कमलेषु शिवः स्वयम् ।
तत्रैकं गोपयामास कमलं मुनिपुङ्गवाः ॥ १४२ ॥

हृते पुष्पे तदा विष्णुश्चिन्तयन्किमिदं त्विति ।
ज्ञात्वाऽऽत्मनोऽक्षिमुद्धृत्य पूजयामास शङ्करम् ॥ १४३ ॥

अथ ज्ञात्वा महादेवो हरेर्भक्ति सुनिश्चलाम् ।
प्रादुर्भूतो महादेवो मण्डलात्तिग्मदीधितेः ॥ १४४ ॥

सूर्यकोटिप्रतीकाशस्त्रिनेत्रश्चन्द्रशेखरः ।
शूलटङ्कदगाचक्रकुन्तपाशधरो विभुः ॥ १४५ ॥

वरदाभयपाणिश्च सर्वाभरणभूषितः ।
तं दृष्ट्वा देवदेवेशं भगवान्कमलेक्षणः ॥ १४६ ॥

पुनर्ननाम चरणौ दण्डवच्छूलपाणिनः ।
दृष्ट्वा शम्भुं तदा देवा दुद्रुवुर्भयविह्वलाः ॥ १४७ ॥

चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ।
अधश्चोर्ध्वं ततः प्रीते ददाह शतयोजनम् ॥ १४८ ॥

शम्भोर्भगवतस्तेजस्तद्दृष्ट्वा प्रहसञ्शिवः ।
अब्रवीच्छार्ङ्गिणं विप्राः कृताञ्जलिपुटं स्थितम् ॥ १४९ ॥

देवकार्यमिऽदं ज्ञातमिदानीं मधुसूदन ।
दिव्यं ददामि ते चक्रमद्भुतं तत्सुदर्शनम् ॥ १५० ॥

हितार्थं सर्वदेवानां निर्मितं यन्मया पुरा ।
गृहीत्वा तद्गुणैर्दैत्याञ्जहि विष्णो ममाऽऽज्ञया ॥ १५१ ॥

एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।
लोकेषु पुण्डरीकाक्ष इति ख्यातिं गता हरिः ॥ १५२ ॥

पुनस्तमब्रवीच्छम्भुर्नारायणमनामयम् ।
वरानन्यान्सुरश्रेष्ठ वरयस्व यथेप्सितान् ॥ १५३ ॥

एवं शम्भोर्निगदितं श्रुत्वा देवो जनार्दनः ।
अब्रवीत्खण्डपरशुं प्राञ्जलिः प्रणयान्वितः ॥ १५४ ॥

श्रीविष्णुरुवाच –
भगवन्देवदेवेश परमात्मञ्शिवाव्यय ।
निश्चला त्वयि मे भक्तिर्भवत्विति वरो मम ॥ १५५ ॥

ईश्वर उवाच –
भक्तिर्मयि दृढा विष्णो भविष्यति तवानघ ।
अजेयस्त्रिषु लोकेषु मत्प्रसादाद्भविष्यसि ॥ १५६ ॥

सूत उवाच –
एवं दत्त्वा वरं शम्भुर्विष्णवे प्रभविष्णवे ।
अन्तर्हितो द्विजश्रेष्ठा इति देवोऽब्रवीद्रविः ॥ १५७ ॥

नाम्नां सहस्रं यद्दिव्यं विष्णुना समुदीरितम् ।
यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ १५८ ॥

अश्वमेधसहस्रस्य फलं प्राप्नोति निश्चितम् ।
पठतः सर्वभावेन विद्या वा महती भवे ॥ १५९ ॥

जायते महदैश्वर्यं शिवस्य दयितो भवेत् ।
दुस्तरे जलसङ्घाते यज्जलं स्थलतां व्रजेत् ॥ १६० ॥

हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ।
तस्मान्नाम्नां सहस्रेण स्तोतव्यो भगवाञ्शिवः ॥ १६१ ॥

प्रयच्छत्यखिलान्कामान्देहान्ते च परां गतिम् ॥ १६२ ॥

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे
(विष्णुचक्रप्राप्तिकथनं नामैकचत्वारिंशोऽध्यायः)
श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

1000 Names of Sri Shiva | Sahasranama Stotram from Saurapurana Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva from Saurapurana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top