Templesinindiainfo

Best Spiritual Website

109 Names of Shree Siddhi Vinayaka | Ashtottara Shatanamavali Lyrics in Hindi

Shri Siddhi Vinayak Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीसिद्धिविनायकनामावली ॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥

गणानामधिपश्चण्डो गजवक्त्रस्तिलोचनः ।
प्रीतो भवतु मे नित्यं वरदाता विनायकः ॥

गजाननं गणपतिं गुणानामालयं परम् ।
तं देवं गिरिजासूनुं वन्देऽहम् अमरार्चितम् ॥

गजवदनम् अचिन्त्यं तीक्ष्णदन्तं त्रिनेत्रम्
बृहदुदरम् अशेषं पूतरूपं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशम्
पशुपतिसुतम् ईशं विघ्नराजं नमामि ॥

हरिहरविरिञ्चिवासवाद्यैः अपि कृतपूजमुपक्रमे क्रियायाः
सकलदुरितहरम् अम्बिकायायाः प्रथमसुतं प्रणमामि विघ्नराजम् ॥

ध्यायेन्नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम्
एकं देवं त्वमेकं परमसुखयुतं देवदेवं प्रसन्नम्
शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोलमत्तालिमालम्
श्रीदन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥

बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्त्थदः ॥

ॐ विनायकाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ गौरीपुत्राय नमः ।
ॐ गणेश्वराय नमः ।
ॐ स्कन्दाग्रजाय नमः ।
ॐ अव्ययाय नमः ।
ॐ पूताय नमः ।
ॐ दक्षाध्यक्ष्याय नमः ।
ॐ द्विजप्रियाय नमः ।
ॐ अग्निगर्भच्छिदे नमः । १० ।

ॐ इन्द्रश्रीप्रदाय नमः ।
ॐ वाणीबलप्रदाय नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ शर्वतनयाय नमः ।
ॐ गौरीतनूजाय नमः ।
ॐ शर्वरीप्रियाय नमः ।
ॐ सर्वात्मकाय नमः ।
ॐ सृष्टिकर्त्रे नमः ।
ॐ देवोऽनेकार्चिताय नमः ।
ॐ शिवाय नमः । २० ।

ॐ शुद्धाय नमः ।
ॐ बुद्धिप्रियाय नमः ।
ॐ शान्ताय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ गजाननाय नमः ।
ॐ द्वैमातुराय नमः ।
ॐ मुनिस्तुत्याय नमः ।
ॐ भक्त विघ्न विनाशनाय नमः ।
ॐ एकदन्ताय नमः ।
ॐ चतुर्बाहवे नमः । ३० ।

ॐ शक्तिसंयुताय नमः ।
ॐ चतुराय नमः ।
ॐ लम्बोदराय नमः ।
ॐ शूर्पकर्णाय नमः ।
ॐ हेरम्बाय नमः ।
ॐ ब्रह्मवित्तमाय नमः ।
ॐ कालाय नमः ।
ॐ ग्रहपतये नमः ।
ॐ कामिने नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः । ४० ।

ॐ पाशाङ्कुशधराय नमः ।
ॐ छन्दाय नमः ।
ॐ गुणातीताय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ अकल्मषाय नमः ।
ॐ स्वयंसिद्धार्चितपदाय नमः ।
ॐ बीजापूरकराय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ गदिने नमः ।
ॐ वरदाय नमः । ५० ।

ॐ शाश्वताय नमः ।
ॐ कृतिने नमः ।
ॐ विद्वत्प्रियाय नमः ।
ॐ वीतभयाय नमः ।
ॐ चक्रिणे नमः ।
ॐ इक्षुचापधृते नमः ।
ॐ अब्जोत्पलकराय नमः ।
ॐ श्रीधाय नमः ।
ॐ श्रीहेतवे नमः ।
ॐ स्तुतिहर्षताय नमः । ६० ।

ॐ कलाद्भृते नमः ।
ॐ जटिने नमः ।
ॐ चन्द्रचूडाय नमः ।
ॐ अमरेश्वराय नमः ।
ॐ नागयज्ञोपवीतिने नमः ।
ॐ श्रीकान्ताय नमः ।
ॐ रामार्चितपदाय नमः ।
ॐ वृतिने नमः ।
ॐ स्थूलकान्ताय नमः ।
ॐ त्रयीकर्त्रे नमः । ७० ।

ॐ सङ्घोषप्रियाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ स्थूलतुण्डाय नमः ।
ॐ अग्रजन्याय नमः ।
ॐ ग्रामण्ये नमः ।
ॐ गणपाय नमः ।
ॐ स्थिराय नमः ।
ॐ वृद्धिदाय नमः ।
ॐ सुभगाय नमः ।
ॐ शूराय नमः । ८० ।

ॐ वागीशाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ दूर्वाबिल्वप्रियाय नमः ।
ॐ कान्ताय नमः ।
ॐ पापहारिणे नमः ।
ॐ कृतागमाय नमः ।
ॐ समाहिताय नमः ।
ॐ वक्रतुण्डाय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ सौम्याय नमः । ९० ।

ॐ भक्ताकाङ्क्षितदाय नमः ।
ॐ अच्युताय नमः ।
ॐ केवलाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ ज्ञानिने नमः ।
ॐ मायायुक्ताय नमः ।
ॐ दन्ताय नमः ।
ॐ ब्रह्मिष्ठाय नमः ।
ॐ भयावर्चिताय नमः । १०० ।

ॐ प्रमत्तदैत्यभयदाय नमः ।
ॐ व्यक्तमूर्तये नमः ।
ॐ अमूर्तये नमः ।
ॐ पार्वतीशङ्करोत्सङ्गखेलनोत्सवलालनाय नमः ।
ॐ समस्तजगदाधाराय नमः ।
ॐ वरमूषकवाहनाय नमः ।
ॐ हृष्टस्तुताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ सर्वसिद्धिप्रदायकाय नमः । १०९ ।

॥ इति श्रीसिद्धिविनायकाष्टोत्तरशतनामावलिः ॥

Also Read 108 Names of Sri Siddhi Vinayak :

109 Names of Shree Siddhi Vinayaka | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

109 Names of Shree Siddhi Vinayaka | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top