Templesinindiainfo

Best Spiritual Website

335 Names of Shrivallabh Namavali Lyrics in Hindi

Shri Vallabha Namavali Lyrics in Hindi:

॥ श्रीवल्लभनामावली ॥
अविर्भाव-प्रकरणम्
१। श्रीवल्लभाय नमः ।
२। सदानन्दाय नमः ।
३। सच्चिदानन्दविग्रहाय नमः ।
४। दैवोद्धारप्रयत्नात्मने नमः ।
५। प्राकट्यानन्ददायकाय नमः ।
६। देवश्रीलक्ष्मणसुताय नमः ।
७। परमानन्दवर्द्धनाय नमः ।
८। श्रीमदिल्लमगारुप्राक्पुष्कलेन्दवे नमः ।
९। अखण्डिताय नमः ।
१०। चम्पारण्यवनस्थानाविर्भावानन्दकारकाय नमः ।

११। अग्नये नमः ।
१२। लीलाब्धिजनकाय नमः ।
१३। श्रीकृष्णास्याय नमः ।
१४। कृपानिधये नमः ।
१५। अद्भुतस्वीयशिशुताजनन्यानन्दकारकाय नमः ।
१६। बाललीलातिसुखदाय नमः ।
१७। जनन्युत्सङ्गलालिताय नमः ।
१८। परमोदारचरिताय नमः ।
१९। जनतारतिवर्द्धनाय नमः ।
२०। स्वलीलाश्रवणात्यन्तशुद्धाश्यायवशंवदाय नमः ।

२१। स्वयशोगानसंहृष्टहृदयाम्भोजविष्टराय नमः ।
२२। अतिसौन्दर्यनिकरप्राप्तकौमारशोभनाय नमः ।
२३। पञ्चमाब्दोपनयनाय नमः ।
२४। गायत्रीव्रतधारकाय नमः ।
२५। गुरुब्रह्मकुलावासंज्ञापिताखिलसत्क्रियाय नमः ।
२६। सकृन्निगदसम्प्राप्तसर्वविद्याविशारदाय नमः ।
२७। महातेजःप्रकटनाय नमः ।
२८। महामाहात्म्यदर्शकाय नमः ।
२९। सर्वरम्याय नमः ।

३०। भावगम्याय नमः ।
३१। पितृकीर्तिविवर्द्धनाय नमः ।
३२। ब्रह्मानन्दरसासक्ततातभक्तिपरायणाय नमः ।
विजय-प्रकरणम् ।
३३। भक्तिमार्गप्रचारार्थविद्यानगरपावनाय नमः ।
३४। कृष्णदेवाख्यसद्राजसमाचरणधारकाय नमः ।
३५। स्वरूपानन्तशोभाढ्याय नमः ।
३६। सर्वलोकैकपावनाय नमः ।
३७। स्वदर्शनसुधासिक्तराजसौभाग्यवर्द्धनाय नमः ।
३८। अत्युत्तममणिव्रातहेमसिंहासनस्थिताय नमः ।
३९। उग्रप्रतापाय नमः ।
४०। सर्वेशाय नमः ।

४१। नमन्नृपतिमण्डलाय नमः ।
४२। अनेकभूतिशोभाढ्याय नमः ।
४३। चराचरनमस्कृताय नमः ।
४४। विद्वज्जनपरीवारमण्डिताय नमः ।
४५। अखिलमण्डिताय नमः ।
४६- अनल्पसङ्कल्पजल्पवादश्रवणसादराय नमः ।
४७। अनेकमतसन्देहनिराकर्त्रे नमः ।
४८। निराकुलाय नमः ।
४९। नवनीरदगम्भीरध्वनये नमः ।
५०। उल्लसिताखिलाय नमः ।

५१। अखण्डपण्डितव्रातप्रोद्यत्पाखण्डनाय नमः ।
५२। निवारिततमःपुञ्जजगदान्ध्यनिवर्तकाय नमः ।
५३। मायावादनिराकर्त्रे नमः ।
५४। सर्ववादनिरासकृते नमः ।
५५। साकारब्रह्मवादैकस्थापकाय नमः ।
५६। वेदपारगाय नमः ।
५७। सर्वस्तुत्याय नमः ।
५८। अभिसङ्गम्याय नमः ।
५९। वेदमूर्तये नमः ।
६०। शिवङ्कराय नमः ।

६१। विजयोत्सवसाद्यन्तदेवराजप्रसादकृते नमः ।
६२। अत्यादरसमानीतकनकस्थानशोभिताय नमः ।
६३। जयादिमङ्गलोद्घोषविद्वज्जनसमादृताय नमः ।
६४। अदेयदानदक्षाय नमः ।
६५। महोदारचरित्रवते नमः । भक्तिप्रस्तावप्रकरणम् ।
६६। पुण्डरीकवरेण्यश्रीविठ्ठलप्रेक्षणोत्सुकाय नमः ।
६७। तद्दर्शनमहानन्दाय नमः ।
६८। प्राप्तान्योन्यमनोरथाय नमः ।
६९। चन्द्रभागोपकण्ठस्वस्थितितत्कीर्तिवर्द्धनाय नमः ।
७०। पाण्डुरङ्गेशपरमोदारेक्षण कृतक्षणाय नमः ।

७१। स्वानन्दतुन्दिलाय नमः ।
७२। पद्मदलायतविलोचनाय नमः ।
७३। अचिन्त्यानन्तरूपाय नमः ।
७४। सन्मनुष्याकृतये नमः ।
७५। अच्युताय नमः ।
७६। भक्तेच्छापूरकाय नमः ।
७७। सर्वाज्ञातलीलाय नमः ।
७८। अतिमोहनाय नमः ।
७९। स्वार्थोज्झिताखिलप्राणप्रियाय नमः ।
८०। तादृशवेष्टिताय नमः ।

८१। अनेकदेशसञ्चारपवित्रीकतभूतलाय नमः ।
८२। ध्वजवज्राङ्कुशादिश्रीकृतभूमिमहोत्सवाय नमः ।
८३। त्रिलोकीभूषणाय नमः ।
८४। भूमिभाग्याय नमः ।
८५। सहजसुन्दराय नमः ।
८६। भक्तिमार्गाङ्गशरणमन्त्रतत्त्वोपदेशकाय नमः ।
८७। अन्याश्रयनिराकर्त्रे नमः ।
८८। भक्तिक्षेत्रविशुद्धिकृते नमः ।
८९। ब्रह्मसम्बन्धकृज्जीवसर्वदोषनिवारकाय नमः ।
९०। पञ्चाक्षरमहामन्त्रविरहात्मफलप्रदाय नमः ।

९१। पृथक्शरणमार्गोपदेष्ट्रे नमः ।
९२। श्रीकृष्णहार्दविदे नमः ।
९३। दिङ्मूढजनताभीतिनिवारणपराय नमः ।
९४। गुरुवे नमः ।
९५। निजशिक्षार्थश्रीकृष्णभक्तिकृते नमः ।
९६। निखिलेष्टदाय नमः ।
९७। स्वसिद्धान्तप्रबोधार्थानेकग्रन्थप्रवर्तकाय नमः ।
९८। व्याससूत्राणुभाष्योक्तिवेदान्तार्थप्रकाशकाय नमः ।
९९। भक्तिमार्गाविरुद्धैकसिद्धान्तपरिशोधकाय नमः ।
१००। जैमिनीयसूत्रभाष्यवक्त्रे नमः ।

१०१। वेदार्थदर्शकाय नमः ।
१०२। वैयासजैमिनीयोक्तप्रमेयैकार्थ्यवित्तमाय नमः ।
वादग्रन्धः ।
१०३। पत्रावलम्बनकृतये नमः ।
१०४। वादिसन्देहवारकाय नमः ।
१०५। काशीस्थलालङ्करणाय नमः ।
श्रीभागवतविषयकसाहित्यम् ।
१०६। विश्वेशप्रीतिकारकाय नमः ।
१०७। श्रीभागवततत्त्वार्थदीपप्राकट्यकारकाय नमः ।
१०८। स्वान्तध्वान्तनिराकर्त्रे नमः ।
१०९। प्रकाशसुखदायकाय नमः ।
११०। सच्चिदानन्दसन्दोह-शास्त्रार्थविनिरूपकाय नमः ।

१११। मनोवाक्कायकर्तव्यसेवातत्त्वप्रकाशकाय नमःन् ।
११२। मुख्यसिद्धान्तशुद्‍ध्यर्थसर्वनिर्णयदर्शकाय नमः ।
११३। प्रमाणादितत्त्वरूपपदार्थपरिशोधकाय नमः ।
११४। भक्तिमार्गीयभगवत्सेवारीतिप्रकाशकाय नमः ।
११५। श्रीभागवतरूपाख्यप्रक्रियाविनिरूपाकय नमः ।
११६। शास्त्रस्कन्धप्रकरणाध्यायार्थपरिशोधकाय नमः ।
११७। श्रीभागवतसारार्थनामसाहस्रदर्शकाय नमः ।
११८। त्रिधालीलाप्रकाशश्रीकृष्णनामावलीप्रियाय नमः ।
११९। निरोधार्थानुसन्धानकृतेऽनुक्रमदर्शकाय नमः ।
षोडशग्रन्थाः ।
१२०। कलिदोषाप्रवेशार्थकृष्णाश्रयनिरूपकाय नमः ।

१२१। प्रतिबन्धनिरासार्थयमुनाष्टकदर्शकाय नमः ।
१२२। समस्तसिद्धान्तमुक्तावलीग्रन्धनिरूपकाय नमः ।
१२३। सेवोपयिकसिद्धान्तरहस्यप्रतिपादकाय नमः ।
१२४। भक्तचिन्तानिरासार्थनवरत्नप्रकाशकाय नमः ।
१२५। अन्तःकरणबोधोक्तिस्वीयशिक्षाप्रदर्शकाय नमः ।
१२६। कृष्णाङ्गीकारविषयोत्कटसन्देहवारकाय नमः ।
१२७। सेवोत्कर्षप्रकाशार्थसेवाफलनिरूपकाय नमः ।
१२८। सेव्यनिर्द्धारसिद्‍ध्यर्थबालबोधप्रकाशकाय नमः ।
१२९। सेव्यस्वरूपोत्कर्षार्थमधुराष्टकदर्शकाय नमः ।
१३०। पुष्टिप्रवाहमर्यादामार्गत्रयविवेचकाय नमः ।

१३१। सर्वेन्द्रियनिरोधार्थतल्लक्षणनिरूपकाय नमः ।
१३२। बीजदार्ढ्यप्रकारेण भक्तिवर्द्धिन्युपायकृते नमः ।
१३३। विवेकधैर्याश्रयकृते नमः ।
१३४। बाहिर्मुख्यनिवारकाय नमः ।
१३५। सदसद्भवबोधार्थजलभेदनिरूपकाय नमः ।
१३६। दुःसङ्गाभावसत्सङ्गकारकाय नमः ।
१३७। करुणालयाय नमः ।
१३८। विरहानुभवार्थैकसन्न्यासाचारदर्शकाय नमः ।
१३९। भजनावश्यकत्वार्थचतुःश्लोकीप्रकाशकाय नमः ।
१४०। यशोदोत्सङ्गललितप्रभुसेवैकतत्पराय नमः ।

१४१। विस्कद्भर्जद्रासलीलादिरसामृतमहर्ष्णवाय नमः ।
१४२। निर्दोषगुणरत्नाढ्याय नमः ।
१४३। भावनान्तमहोर्मिमते नमः ।
१४४। कृष्णेन्दुविशदालोकपरमानन्दवर्द्धनाय नमः ।
१४५। स्वदासार्थकृताशेषसाधनाय नमः ।
१४६। सर्वशक्तिधृते नमः ।
फलप्रदर्शकप्रकरणम् ।
१४७। नित्यं प्रियव्रजस्थितये नमः ।
१४८ व्रजनाथाय नमः ।
१४९। व्रजार्तिभिदे नमः ।
१५०। व्रजीयजनजीवातवे नमः ।

१५१। व्रजमाहत्म्यदर्शकाय नमः ।
१५२। व्रजलीलाभावनात्मने नमः ।
१५३। श्रीगोपीजनवल्लभाय नमः ।
१५४। गो-गोप-गोपीषु प्रीताय नमः ।
१५५। गोकुलोत्सवाय नमः ।
१५६। उद्धवाय नमः ।
१५७। गोवर्द्धनाद्रिप्रवरप्रेक्षणातिमहोत्सवाय नमः ।
१५८। गोवर्द्धनस्थित्युत्साहाय नमः ।
१५९। तल्लीलाप्रेमपूरिताय नमः ।
१६०। श‍ृङ्गद्रोणीकन्दरादिकेलीस्थानप्रकाशकाय नमः ।

१६१। द्रुमपुष्पलतागुल्मदर्शनप्रीतमानसाय नमः ।
१६२। गह्वरप्रायदेशाढ्यगिरिकेलिकलोत्सवाय नमः ।
१६३। गोवर्द्धनाचलसखाय नमः ।
१६४। अनेकधा प्रीतिकारकाय नमः ।
१६५। हरिदाससर्वसेवासादराय नमः ।
१६६। हार्दवित्तमाय नमः ।
१६७। गोवर्द्धनाचलारूढाय नमः ।
१६८। स्मृताचलशिरोमणये नमः ।
१६९। सन्मुखस्वागतश्रीमद्गोवर्द्धनधराय नमः ।
१७०। प्रियाय नमः ।

१७१। अन्योन्ययोजितकराय नमः ।
१७२। हसद्वदनपङ्कजाय नमः ।
१७३। सूक्तिसारसुधावृष्टिस्वानन्दितव्रजाधिपाय नमः ।
१७४। श्रीगोवर्द्धनानुमतोत्तमाधिष्ठानकारकाय नमः ।
१७५। प्रसन्नाम्बुजसङ्काशकलशानन्दिताखिलाय नमः ।
१७६। कुङ्कुम्मारुणरागातिविलक्षणरसप्रदाय नमः ।
१७७। चतुर्दिग्दृष्टिमृगराड् बद्धस्थापनतत्त्वविदे नमः ।
१७८। सुदर्शननिरस्तार्तिप्रतिपक्षमहासुराय नमः ।
१७९। समुल्लसत्प्रेमपूरनानाध्वजवरप्रियाय नमः ।
१८०। निगूढनिजकुञ्जस्थमन्दिरस्थापितप्रभवे नमः ।

१८१। वृन्दावनप्रियतमाय नमः ।
१८२। वृन्दारण्यपुरन्दराय नमः ।
१८३। वृन्दावनेन्दुसेवैकप्रकारसुखदायकाय नमः ।
१८४। कृष्णकुम्भनदासादिलीलापरिकरावृताय नमः ।
१८५। गानस्वानन्दितश्रीमन्नन्दराजकुमारकाय नमः ।
१८६। सप्रेमनवधाभक्तिप्रचाराचरणक्षमाय नमः ।
१८७। देवाधिदेवस्वप्रेष्ठप्रियवस्तूपनायकाय नमः ।
१८८। बाल्यकौमारपौगण्डकैशोरचरितप्रियाय नमः ।
१८९। वशीकृतनिजस्वामिने नमः ।
१९०। प्रेमपूरपयोनिधये नमः ।

१९१। मथुरास्थितिसानन्दाय नमः ।
१९२। विश्रान्तस्वाश्रमप्रियाय नमः ।
१९३। यमुनादर्शनानन्दाय नमः ।
१९४। यमुनानन्दवर्द्धनाय नमः ।
१९५। यमुनातीरसंवासरुचये नमः ।
१९६। तद्रूपवित्तमाय नमः ।
१९७। यमुनानन्तभावात्मने नमः ।
१९८। तन्माहात्म्यप्रदर्शकाय नमः ।
१९९। अनन्यसेवितपदाय नमः ।
२००। स्वानन्यजनवत्सलाय नमः ।

२०१। सेवकानन्तसुखदाय नमः ।
२०२। अनन्यभक्तिप्रदायकाय नमः ।
जीवनप्रपत्तिः ।
२०३। कृष्णाज्ञापालनार्थस्वगृहस्थाश्रमदर्शकाय नमः ।
२०४। महालक्ष्मीप्राणपतये नमः ।
२०५। सर्वसौभाग्यवर्द्धनाय नमः ।
२०६। श्रुतिस्मृतिसदाचारपालनैकपरायणाय नमः ।
२०७। मर्यादास्थापनपराय नमः ।
२०८। कर्ममार्गप्रवर्तकाय नमः ।
२०९ कर्मस्वरूपवक्त्रे नमः ।
२१०। अनुष्ठानकृते नमः ।

२११। जनशिक्षकाय नमः ।
२१२। आधिदैविकसर्वाङ्गयज्ञकृते नमः ।
२१३। यज्ञपूरुषाय नमः ।
२१४। मूलमाहात्म्यबोधार्थविभूत्युत्कर्षपोषकाय नमः ।
२१५। ब्रह्मण्यदेवाय नमः ।
२१६। धर्मात्मने नमः ।
२१७। सर्वधर्मप्रवर्तकाय नमः ।
२१८। स्वाविर्भावितसन्मार्गप्रचारार्थस्ववंशकृते नमः ।
२१९। श्रीगोपीनाथजनकाय नमः ।
२२०। विश्वमङ्गलकारकाय नमः ।

२२१। दयानिधिविभुश्रीमद्विठ्ठलप्रियपुत्रवते नमः ।
२२२। जन्मोत्सवमहोत्साहाय नमः ।
२२३। स्मार्तसंस्कारसादराय नमः ।
२२४। प्रदर्शितनिजाचाराय नमः ।
२२५। सर्वधर्मैकपालकाय नमः ।
श्रीगोसा‍ईजी-ग्रन्थप्रवृत्तिः ।
२२६। स्वकीयापरमूर्तिश्रीविठ्ठलेशकृतिप्रियाय नमः ।
२२७। भाष्यादिशेषसम्पूर्तिपरमोत्कर्षमोदकाय नमः ।
२२८। सुबोधिनीदुरूहोक्तिव्याख्यानप्रीतमानसाय नमः ।
२२९। निगूढस्वाशयगतस्वतन्त्रार्थप्रियप्रियाय नमः ।
२३०। स्वरूपगुणनामोक्तिस्वीयसौभाग्यवर्द्धनाय नमः ।

२३१। विद्वन्मण्डनवादोक्तिपरपक्षनिरासकृते नमः ।
ब्रह्मस्वरूपनिर्णयः ।
२३२। सोपाधिब्रह्मवादार्थनिराकरणपण्डिताय नमः ।
२३३। अप्राकृतानन्तगुणाधारब्रह्यस्वरूपविदे नमः ।
२३४। सामान्यप्राकृतगुणानाश्रयत्वप्रकाशकाय नमः ।
२३५। विरुद्धधर्माधारत्वस्थापनैकप्रयत्नकृते नमः ।
२३६। असम्भवनिरासार्थानन्तानिर्वाच्यशक्तिविदे नमः ।
२३७। प्राकृतेन्द्रियसामर्थ्यसुखवेद्यत्ववित्तमाय नमः ।
२३८। भगवद्दत्तसामर्थ्यसुखवेद्यत्ववित्तमाय नमः ।
२३९। तर्कशास्त्रोक्तसिद्धान्तनिरासवरयुक्तिमते नमः ।
जीवनस्वरूपनिर्णयः ।
२४०। सोपाधिजीववादैकनिराकर्त्रे नमः ।

२४१। महाशयाय नमः ।
२४२। आत्मव्यापकतातर्कपराहतविचक्षणाय नमः ।
२४३। श्रुतिसूत्रादिसंसिद्धजीवाणुत्वप्रदर्शकाय नमः ।
२४४। चिद्रूपब्रह्मधर्मात्मजीवनित्यत्वदर्शकाय नमः ।
२४५। भेदवादनिराकर्त्रे नमः ।
२४६। ब्रह्मांशत्वनिरूपकाय नमः ।
२४७। नित्यानन्दब्रह्मधर्मधर्म्यभेदप्रकाशकाय नमः ।
जगत्स्वरूपनिर्णयः ।
२४८। सद्रूपब्रह्मधर्मात्मजगन्नित्यत्वदर्शकाय नमः ।
२४९। मिथ्यात्वजन्यतावादाऽवैदिकत्वप्रकाशकाय नमः ।
२५०। अविद्याकार्यसंसारमिथ्यात्वपरिदर्शकाय नमः ।

२५१। प्रपञ्चसंसारभिदाप्रदर्शनसुयुक्तिमते नमः ।
२५२। आविर्भावतिरोभावसिद्धान्तपरिशोधकाय नमः ।
२५३। मूलेच्छाशक्तिसर्वार्थसामञ्जस्य प्रदर्शकाय नमः ।
२५४। कार्यप्रपञ्चभगवद्विभूत्यात्मत्वदर्शकाय नमः ।
लीलासृष्टिनिरूपणम् ।
२५५। लीलाप्रपञ्चभगवत्स्वरूपात्मवित्तमाय नमः ।
२५६। द्वारिकामथुरागोष्ठलीलानित्यत्वदर्शकाय नमः ।
२५७। वृन्दावनगोवर्द्धनकालिन्दीकेलिकौतुकाय नमः ।
२५८। अन्यथाभानसञ्जातसन्देहविनिवारकाय नमः ।
२५९। श्रुतिदृष्टान्तरचनाविस्पष्टार्थनिरूपकाय नमः ।
२६०। श्रुतिस्मृतिवरप्राप्तिप्रकारपरिदर्शकाय नमः ।

२६१। श‍ृङ्गाररसरूपत्वस्थापनातिविशारदाय नमः ।
२६२। अनेकनित्यनामात्मक्रियावद्ब्रह्मदर्शकाय नमः ।
२६३। अत्यनुग्रहवद्भक्तनित्यलीलाप्रवेशविदे नमः ।
२६४। आसुरव्यामोहलीलावश्यकत्वनिदानविदे नमः ।
२६५। मायैकमूलभगवद्विमोहकचरित्रविदे नमः ।
२६६ निर्दोषानन्दरूपैककृष्णतत्त्वप्रकाशकाय नमः ।
२६७। स्फुरद्विहृतिनित्यत्वभावनानन्ददायकाय नमः ।
भक्तिहंसोक्त-सिद्धान्त-निरूपणम् ।
२६८। भक्त्युपास्तिविवेकार्थभक्तिहंसप्रकाशकाय नमः ।
२६९। मन्त्राद्यगम्यभक्त्येकगम्यश्रीकृष्णरूपविदे नमः ।
भक्तिहेतुग्रन्थ-निरूपणम् ।
२७०। अनुग्रहविमर्शार्थभक्तिहेतुप्रकाशकाय नमः ।

२७१। कृष्णानुग्रहलभ्यैकभक्तितत्त्वप्रकाशकाय नमः ।
२७२। मर्यादानुगृहीतात्मभक्त्यर्थाचारदर्शकाय नमः ।
२७३। पुष्ट्यनुग्रहवद्भक्तधर्मान्तरनिषेधविदे नमः ।
पुरुषोत्तमप्रतिष्ठाप्रकारादिग्रन्थनिरूपणम्- ।
२७४। भक्तिमार्गीयभगवत्प्रतिष्ठारीतिबोधकाय नमः ।
२७५। कृष्णजन्माष्टमीरामनवमीव्रतशोधकाय नमः ।
२७६। मुक्तावलीप्रकाशोक्तिसिद्धान्तपरिशोधकाय नमः ।
२७७। नवरत्नप्रकाशोक्तिचिन्तासन्ताननाशकायन मः ।
२७८। न्यासादेशीयविवृतिधर्मत्यागोक्तिचिन्तकाय नमः ।
२७९। जीवन्मुक्तितारतम्यसिद्धान्तपरिशोधकाय नमः ।
२८०। गीतातात्पर्यसद्वक्त्रे नमः ।

२८१। गायत्र्यर्थप्रकाशकाय नमः ।
२८२। मुख्यश्रीस्वामिनीकेलीश‍ृङ्गारोल्लासदर्शकाय नमः ।
२८३। स्वामिनीप्रार्थनास्तोत्रनानाभावविभावकाय नमः ।
२८४। स्वामिन्यष्टकगूढोक्तिमार्गतत्त्वप्रकाशकाय नमः ।
२८५। प्रेमामृतरसास्वादानुपानपरिदर्शकाय नमः ।
२८६। उक्तान्यपूर्वश‍ृङ्गारदानलीलाप्रकाशकाय नमः ।
२८७। कुमारिकानन्यसिद्धव्रतचर्यानिरूपकाय नमःन् ।
२८८। तदेकरससर्वस्वनिभृतात्मने नमः ।
२८९। रसार्णवाय नमः ।
२९०। यमुनास्तोत्रविवृतितुर्यशक्तिप्रकाशकाय नमः ।

२९१। सकृष्णयमुनाभाववर्द्धिन्यष्टपदीप्रियाय नमः ।
२९२। चौरचर्यागुप्तरसानन्दभावनिरूपकाय नमः ।
२९३। रूपामृतैकचषकत्रिभङ्गललितप्रियाय नमः ।
२९४। दशावताराष्टपदीश‍ृङ्गारार्थत्वदर्शकाय नमः ।
२९५। श‍ृङ्गाररससन्दर्भासङ्गतत्त्वनिरासकाय नमः ।
२९६। प्रबोधगद्यरचनाप्रत्यहश्रवणोत्सुकाय नमः ।
२९७। मङ्गलाखिललीलाब्धिकृष्णगानरसप्रदाय नमः ।
२९८। प्रेङ्खपर्यङ्कशयनगीतनृत्यप्रियङ्कराय नमः ।
२९९। सदारप्रेष्ठरतिकृत्प्रार्थनागीतभावविदे नमः ।
३००। असकृद्गोविन्ददासप्रभृत्यार्यसमन्विताय नमः ।

३०१। गोपीपरिवृढस्तोत्रव्रजाधीशरतिप्रदाय नमः ।
३०२। व्रजराजार्यतनयप्रीतिकृत्स्तोत्रकीर्तनाय नमः ।
३०३। गोकुलोत्कर्षबोधार्थगोकुलाष्टकदर्शकाय नमः ।
३०४। श्रीगोकुलसुखावासस्वकीयानन्दवर्द्धनाय नमः ।
३०५। श्रीमन्नन्द्रालयक्रीडत्कृष्णलीलाप्रकाशकाय नमः ।
३०६। पुत्रपौत्रादिसौभाग्यसेवर्द्धिपरिदर्शकाय नमः ।
३०७। श्रीकृष्णसेवाचातुर्यसीम्ने नमः ।
३०८। सर्वशिरोमणये नमः ।
३०९। संसारसागरोत्तारनौकासत्कर्णधारकाय नमः ।
३१०। शरणस्थानन्तजीवापराधदलनक्षमाय नमः ।

३११। कृष्णसेवाशिक्षणार्थभक्तिमार्गप्रदर्शकाय नमः ।
३१२। मर्यादामार्गविधिना गृहस्थाश्रममास्थिताय नमः ।
३१३। दारागारसुताप्तादिसर्वस्वात्मनिवेदकाय नमः ।
३१४। वैदिकाचारनिपुणाय नमः ।
३१५। दीक्षिताख्याप्रसिद्धिमते नमः ।
३१६। षड्गुणैश्वर्यसम्पत्तिराजमानाय नमः ।
३१७। सतां पतये नमः ।
स्वतन्त्रनामानि ।
३१८। विठ्ठलेशप्रभावज्ञाय नमः ।
३१९। कृतकृत्यतमाय नमः ।
३२०। हरये नमः ।

३२१। निवृत्तिधर्माभिरताय नमः ।
३२२। निजशिक्षापरायणाय नमः ।
३२३। भगवद्भक्त्यनुगुणसन्न्यासाचारदर्शकाय नमः ।
३२४। अलौकिकमहातेजःपुञ्जरूपप्रकाशकाय नमः ।
३२५। नित्यलीलाविहरणाय नमः ।
३२६। नित्यरूपप्रकाशवते नमः ।
३२७। अदभ्रसौहार्दनिधये नमः ।
३२८। सर्वोद्धारविचारकाय नमः ।
३२९। शुकवाक्सिन्धुलहरीसारोद्धारविशारदाय नमः ।
३३०। श्रीभागवतपीयूषसमुद्रमथनक्षमाय नमः ।

३३१। श्रीभागवतप्रत्यर्थमणिप्रवरभूषिताय नमः ।
३३२। अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनाय नमः ।
३३३। शरणस्थसमुद्धाराय नमः ।
३३४। कृपालवे नमः ।
३३५। तत्कथाप्रदाय नमः ।

इति मथुरावासिगोस्वामिश्रीरमणलालजीमहाराजविरचिता
श्रीवल्लभनामावली समाप्ता ।

Also Read Sree Vallabha Namavali:

335 Names of Shrivallabh Namavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

335 Names of Shrivallabh Namavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top