Gita - Geetaa

Uttara Gita Lyrics in Hindi

Uttara Geetaa in Hindi:

॥ उत्तरगीता ॥
खण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥

अर्जुन उवाच –
यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् ।
अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ १ ॥

कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ।
हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥ २ ॥

तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ।
श्रीभगवानुवाच –
साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥ ३ ॥

यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ।
आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥ ४ ॥

योगेन गतकामानां भावना ब्रह्म चक्षते ।
शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५ ॥

हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ ६ ॥

काकीमुखं ककारान्तमुकारश्चेतनाकृतिः ।
मकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ ७ ॥

काकीमुखककारान्तमुकारश्चेतनाकृतिः ।
अकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ ७ ॥

गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् ।
सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥ ८ ॥

यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् ।
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ९ ॥

स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ।
बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ।
निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥ १० ॥

पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥ ११ ॥

तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥ १२ ॥

निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् ।
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ १३ ॥

सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् ।
त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥ १४ ॥

स्वयमुच्चलिते देहे देही न्यस्तसमाधिना ।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ १५ ॥

अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् ।
बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ १६ ॥

प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते ।
लब्धशान्तिपदे देहे न योगो नैव धारणा ॥ १७ ॥

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८ ॥

नावार्थी च भवेत्तावद्यावत्पारं न गच्छति ।
उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ १९ ॥

ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २० ॥

उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत्
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ २१ ॥

यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् ।
एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥ २२ ॥

ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३ ॥

तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ २४ ॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५ ॥

तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः ।
विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम् ॥ २६ ॥

दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः ।
विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७ ॥

कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते ।
कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ २८ ॥

कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते ।
तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥ २९ ॥

पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः ।
काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥ ३० ॥

तथा सर्वगतो देही देहमध्ये व्यवस्थितः ।
मनस्थो देशिनां देवो मनोमध्ये व्यवस्थितः ॥ ३१ ॥

मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् ।
मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥ ३२ ॥

आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् ।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ ३३ ॥

योगामृतरसं पीत्वा वायुभक्षः सदा सुखी ।
यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४ ॥

ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् ।
सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् ॥ ३५ ॥

शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते ।
अर्जुन उवाच-
अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥ ३६ ॥

अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः ।
श्रीभगवानुवाच-
ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥ ३७ ॥

सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् ।
अर्जुन उअवाच-
सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥ ३८ ॥

उभयोरपि दुष्ठत्वात्कथं ध्यायन्ति योगिनः ।
श्रीभगवानुवाच-
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥ ३९ ॥

अहमेव इदं सर्वमिति पश्येत्परं सुखम् ।
अर्जुन उवाच-
अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥ ४० ॥

बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते ।
श्रीभगवानुवाच-
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ४१ ॥

ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ ४२ ॥

ॐकारध्वनिनादेन वायोः संहरणान्तिकम् ।
निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ ४३ ॥

अर्जुन उवाच-
भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा ।
प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४ ॥

श्रीभगवानुवाच-
धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च ।
इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ ४५ ॥

ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः ।
जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६ ॥

अर्जुन उवाच-
स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् ।
जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ ४७ ॥

श्रीभगवानुवाच-
मुखनासिकयोर्मध्ये प्राणः संचरते सदा ।
आकाशः पिबते प्राणं स जीवः केन जीवति ॥ ४८ ॥

अर्जुन उवाच-
ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् ।
अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥ ४९ ॥

श्रीभगवानुवाच-
आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् ।
आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ ५० ॥

अर्जुन उवाच-
दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते ।
अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ ५१ ॥

अघोषमव्यञ्जनमस्वरं चा-
प्यतालुकण्ठोष्ठमनासिकं च ।
अरेखजातं परमूष्मवर्जितं
तदक्षरं न क्षरते कथंचित् ॥ ५२ ॥

अर्जुन उवाच-
ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् ।
इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३ ॥

श्रीभगवानुवाच-
इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः ।
देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता ॥ ५४ ॥

तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति ।
विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥ ५५ ॥

भवच्छिद्रकृता देहाः स्रवन्ति गलिका इव ।
नैव ब्रह्म न शुद्धं स्यात्पुमान्ब्रह्म न विन्दति ॥ ५६ ॥

अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ५७ ॥

इति उत्तरगीतायां प्रथमोऽध्यायः ॥

॥ द्वितीयोऽध्यायः ॥

अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते ।
तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥

अर्जुन उवाच-
ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् ।
अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ १ ॥

श्रीभगवानुवाच-
यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ २ ॥

जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् ।
प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥ ३ ॥

अर्जुन उवाच-
ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु ।
ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥ ४ ॥

श्रीभगवानुवाच-
ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता ।
ब्रह्मज्ञानाग्निना विद्वान्निर्दहेत्कर्मबन्धनम् ॥ ५ ॥

ततः पवित्रं परमेश्वराख्य-
मद्वैतरूपं विमलाम्बराभम् ।
यथोदके तोयमनुप्रविष्टं
तथात्मरूपो निरुपाधिसंस्थः ॥ ६ ॥

आकाशवत्सूक्ष्मशरीर आत्मा
न दृश्यते वायुवदन्तरात्मा ।
स बाह्यमभ्यन्तरनिश्चलात्मा
ज्ञानोल्कया पश्यति चान्तरात्मा ॥ ७ ॥

यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना ।
यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ ८ ॥

शरीरव्यापितं व्योम भुवनानि चतुर्दश ।
निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९ ॥

मुहूर्तमपि यो गच्छेन्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १० ॥

दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा ।
देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ ११ ॥

इला च वामनिश्वाससोममण्डलगोचरा ।
पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ १२ ॥

गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डस्य देहभृत् ।
दीर्घास्ति मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३ ॥

तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः ।
इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी ।
सर्वं प्रतिष्ठितं यस्मिन्सर्वगं सर्वतोमुखम् ॥ १४ ॥

तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः ।
भूतलोका दिशः क्षेत्रसमुद्राः पर्वताः शिलाः ॥ १५ ॥

द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ।
स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥ १६ ॥

बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः ।
सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥ १७ ॥

नानानाडीप्रसवकं सर्वभूतान्तरात्मनि ।
ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥ १८ ॥

द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः ।
कर्ममार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः ॥ १९ ॥

अधश्चोर्ध्वगतास्तासु नवद्वाराणि शोधयन् ।
वायुना सह जीवोर्ध्वज्ञानी मोक्षमवाप्नुयात् ॥ २० ॥

अमरावतीन्द्रलोकोऽस्मिन्नासाग्रे पूर्वतो दिशि ।
अग्निलोको हृदि ज्ञेयश्चक्षुस्तेजोवती पुरी ॥ २१ ॥

याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः ।
नैरृतो ह्यथ तत्पार्श्वे नैरृतो लोक आश्रितः ॥ २२ ॥

विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी ।
वायोर्गन्धवती कर्णपार्श्वे लोकः प्रतिष्ठितः ॥ २३ ॥

सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः ।
वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ २४ ॥

वामे चक्षुषि चैशानी शिवलोको मनोन्मनी ।
मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥ २५ ॥

पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः ।
अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ २६ ॥

अधः पदोऽतलं विद्यात्पादं च वितलं विदुः ।
नितलं पादसन्धिश्च सुतलं जङ्घमुच्यते ॥ २७ ॥

महातलं तु जानु स्यादूरुदेशो रसातलम् ।
कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ २८ ॥

कालाग्निनरकं घोरं महापातालसंज्ञया ।
पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥ २९ ॥

वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः ।
भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३० ॥

हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः ।
सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१ ॥

मन्दश्च सप्तमो ह्येष ध्रुवोऽतः स्वर्गलोकतः ।
हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२ ॥

हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः ।
तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३ ॥

ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते ।
अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४ ॥

आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च ।
बुद्ध्यहङ्कारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५ ॥

अहं ब्रह्मेति मां ध्यायेदेकाग्रमनसा सकृत् ।
सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ ३६ ॥

घटसंवृतमाकाशं नीयमाने घटे यथा ।
घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ ३७ ॥

घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः ।
स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ ३८ ॥

तपेद्वर्षसहस्राणि एकपादस्थितो नरः ।
एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ३९ ॥

आलोड्य चतुरो वेदान्धर्मशास्त्राणि सर्वदा ।
यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ ४० ॥

यथा खरश्चन्दनभारवाही
सारस्य वाही न तु चन्दनस्य ।
एवं हि शास्त्राणि बहून्यधीत्य
सारं त्वजानन्खरवद्वहेत्सः ॥ ४१ ॥

अनन्तकर्म शौचं च जपो यज्ञस्तथैव च ।
तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥ ४२ ॥

गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् ।
क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥ ४३ ॥

अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् ।
द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥ ४४ ॥

ममेति बध्यते जन्तुर्न ममेति विमुच्यते ।
मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते ।
यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४५ ॥

हन्यान्मुष्टिभिराकाशं क्षुधार्तः कण्डयेत्तुषम् ।
नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते ॥ ४६ ॥

इति उत्तरगीतायां द्वितीयोऽध्यायः ॥

॥ तृतीयोऽध्यायः ॥

योगी व्यर्थक्रियालापपरित्यागेन शान्तधीः ।
तृतीये शरणं यायाद्धरिमेवेति कीर्त्यते ॥

श्रीभगवानुवाच-
अनन्तशास्त्रं बहुवेदितव्य-
मल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ १ ॥

पुराणं भारतं वेदशास्त्राणि विविधानि च ।
पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥ २ ॥

इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति ।
अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ ३ ॥

विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् ।
विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ ४ ॥

पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तिकम् ।
जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥ ५ ॥

तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ।
योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः ॥ ६ ॥

अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम् ॥ ७ ॥

सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् ।
ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम् ॥ ८ ॥

यत्र यत्र मनो याति तत्र तत्र परं पदम् ।
तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ ९ ॥

दृश्यन्ते दृशि रूपाणि गगनं भाति निर्मलम् ।
अहमित्यक्षरं ब्रह्म परमं विष्णुमव्ययम् ॥ १० ॥

दृश्यते चेत्खगाकारं खगाकारं विचिन्तयेत् ।
सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् ॥ ११ ॥

अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् ।
सर्वज्योतिर्निराकारं सर्वभूतगुणान्वितम् ॥ १२ ॥

सर्वत्र परमात्मानं अहमात्मा परमव्ययम् ।
अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा ।
हन्यात्स्वयमिमान्कामान्सर्वाशी सर्वविक्रयी ॥ १३ ॥

निमिषं निमिषार्धं वा शीताशीतनिवारणम् ।
अचला केशवे भक्तिर्विभवैः किं प्रयोजनम् ॥ १४ ॥

भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् ।
अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ १५ ॥

समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते ।
भूतवस्तुन्यशोचित्वं पुनर्जन्म न विद्यते ॥ १६ ॥

आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् ।
तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम् ॥

इति उत्तरगीतायां तृतीयोऽध्यायः ॥

Also Read:

Uttara Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Add Comment

Click here to post a comment