Gita - Geetaa

Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 in Hindi

Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 in Hindi:

॥ याज्ञवल्क्यगीता महाभारते शान्तिपर्वे अध्याय ३१०-३१८ ॥

३१०/२९८
युधिष्ठिर उवाच

धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् ।
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ १ ॥

यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् ।
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ २ ॥

भीष्म उवाच

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ ३ ॥

याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्मया यशः ।
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥ ४ ॥

कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः ।
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ ५ ॥

प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च ।
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रह काङ्क्षिणः ॥ ६ ॥

अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः ।
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ ७ ॥

याज्ञवल्क्य उवाच

श्रूयतामवनी पाल यदेतदनुपृच्छसि ।
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥ ८ ॥

न तवाविदितं किं चिन्मां तु जिज्ञासते भवान् ।
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ ९ ॥

अस्तौ प्रकृतयः प्रोक्ता विकाराश्चापि सोदश ।
अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥ १० ॥

अव्यक्तं च महांश्चैव तथाहङ्कार एव च ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ११ ॥

एताः प्रकृतयस्त्वस्तौ विकारानपि मे श‍ृणु ।
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ १२ ॥

शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ।
वाक्च हस्तौ च पादौ च पायुर्मेध्रं तथैव च ॥ १३ ॥

एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ १४ ॥

मनः सोदशकं प्राहुरध्यात्मगतिचिन्तकाः ।
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ १५ ॥

अव्यक्ताच्च महानात्मा समुत्पद्यति पार्तिव ।
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ १६ ॥

महतश्चाप्यहङ्कार उत्पद्यति नराधिप ।
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥ १७ ॥

अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् ।
तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ॥ १८ ॥

मनसस्तु समुद्भूता महाभूता नराधिप ।
चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ॥ १९ ॥

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ २० ॥

श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ।
सर्गं तु सस्थमित्याहुर्बहु चिन्तात्मकं स्मृतम् ॥ २१ ॥

अधः श्रोत्रेन्द्रिय ग्राम उत्पद्यति नराधिप ।
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥ २२ ॥

ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप ।
अस्तमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २३ ॥

तिर्यक्स्रोतस्त्वधः स्रोत उत्पद्यति नराधिप ।
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २४ ॥

एतानि नव सर्गाणि तत्त्वानि च नराधिप ।
चतुर्विंशतिरुक्तानि यथा श्रुतिनिदर्शनात् ॥ २५ ॥

अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः ।
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥ २६ ॥

३११/२९९
याज्ञवल्क्य उवाच

अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे ।
पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ १ ॥

रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप ।
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ २ ॥

ततो ब्रह्माणमसृजद्धैरण्यान्द समुद्भवम् ।
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ ३ ॥

संवत्सरमुषित्वान्दे निष्क्रम्य च महामुनिः ।
सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ ४ ॥

द्यावापृथिव्योरित्येष राजन्वेदेषु पथ्यते ।
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ ५ ॥

एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः ।
दश कल्पसहस्राणि पादोनान्यहरुच्यते ।
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ॥ ६ ॥

सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा ।
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ।
ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥ ७ ॥

देवाः पितॄणां च सुता देवैर्लोकाः समावृताः ।
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥ ८ ॥

परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ९ ॥

एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः ।
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ १० ॥

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।
यैराविष्टानि भूतानि अहन्यहनि पार्थिव ॥ ११ ॥

अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः ।
अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ॥ १२ ॥

ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः ।
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ॥ १३ ॥

त्रीणि कल्पसहस्राणि एतेषां अहरुच्यते ।
रत्रिरेतावती चैव मनसश्च नराधिप ॥ १४ ॥

मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः ।
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥ १५ ॥

चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा ।
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।
तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ १६ ॥

मनस्युपरते राजन्निन्द्रियोपरमो भवेत् ।
न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ।
एवं मनः प्रधानानि इन्द्रियाणि विभावयेत् ॥ १७ ॥

इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते ।
एतद्विशन्ति भूतानि सर्वाणीह महायशः ॥ १८ ॥

३१२/३००
याज्ञवल्क्य उवाच

तत्त्वानां सर्ग सङ्ख्या च कालसङ्ख्या तथैव च ।
मया प्रोक्तानुपूर्व्येण संहारमपि मे श‍ृणु ॥ १ ॥

यथा संहरते जन्तून्ससर्ज च पुनः पुनः ।
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥ २ ॥

अहः क्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा ।
चोदयामास भवगानव्यक्तोऽहं कृतं नरम् ॥ ३ ॥

ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ॥ ४ ॥

चतुर्विधं प्रजा जालं निर्दहत्याशु तेजसा ।
जराय्वन्द स्वेदजातमुद्भिज्जं च नराधिप ॥ ५ ॥

एतदुन्मेष मात्रेण विनिष्टं स्थानु जङ्गमम् ।
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥ ६ ॥

जगद्दग्ध्वामित बलः केवलं जगतीं ततः ।
अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥ ७ ॥

ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् ।
विनस्तेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महा ॥ ८ ॥

तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् ।
ऊष्मानं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥ ९ ॥

भक्षयामास बलवान्वायुरस्तात्मको बली ।
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ १० ॥

तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना ।
आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ॥ ११ ॥

मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः ।
अहङ्कारं महानात्मा भूतभव्य भविष्यवित् ॥ १२ ॥

तमप्यनुपमात्मानं विश्वं शम्भः प्रजापतिः ।
अनिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १३ ॥

सर्वतः पानि पादान्तः सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ १४ ॥

हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठ मात्रकः ।
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ॥ १५ ॥

ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।
भूतभव्य मनुष्याणां स्रष्टारमनघं तथा ॥ १६ ॥

एषोऽप्ययस्ते राजेन्द्र यथावत्परिभासितः ।
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ १७ ॥

३१३/३०१
याज्ञवल्क्य उवाच

पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ १ ॥

पायुरध्यात्ममित्याहुर्यथातत्त्वार्थ दर्शिनः ।
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ २ ॥

उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् ।
अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥ ३ ॥

हस्तावध्यात्ममित्याहुर्यथा साङ्ख्यनिदर्शनम् ।
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ ४ ॥

वागध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ ५ ॥

चक्षुरध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् ।
रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥ ६ ॥

श्रोत्रमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् ।
शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥ ७ ॥

जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् ।
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ ८ ॥

घ्राणमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् ।
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥ ९ ॥

त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः ।
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥ १० ॥

मनोऽध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् ।
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥ ११ ॥

अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् ।
अभिमानोऽधिबूतं तु भवस्तत्राधिदैवतम् ॥ १२ ॥

बुद्धिरध्यात्ममित्याहुर्यथा वेद निदर्शनम् ।
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥ १३ ॥

एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता ।
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥ १४ ॥

प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्म काम्यया ।
क्रीदार्थं तु महाराज शतशोऽथ सहस्रशः ॥ १५ ॥

यथा दीपसहस्राणि दीपान्मर्थाय्प्रकुर्वते ।
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ १६ ॥

सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च ।
सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता ॥ १७ ॥

अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता ।
समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥ १८ ॥

शौचमार्जवमाचारमलौल्यं हृद्य सम्भ्रमः ।
इष्टानिष्ट वियोगानां कृतानामविकत्थनम् ॥ १९ ॥

दानेन चानुग्रहणमस्पृहार्थे परार्थता ।
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥ २० ॥

रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे ।
अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥ २१ ॥

परापवादेषु रतिर्विवादानां च सेवनम् ।
अहङ्कारस्त्वसत्कारश्चैन्ता वैरोपसेवनम् ॥ २२ ॥

परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा ।
भेदः परुषता चैव कामक्रोधौ मदस्तथा ।
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥ २३ ॥

तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम् ।
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्र सञ्ज्ञितम् ॥ २४ ॥

मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते ।
तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥ २५ ॥

भोजनानानपर्याप्तिस्तथा पेयेष्वतृप्तता ।
गन्धवासो विहारेषु शयनेष्वासनेषु च ॥ २६ ॥

दिवा स्वप्ने विवादे च प्रमादेषु च वै रतिः ।
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ २७ ॥

३१४/३०२
याज्ञवल्क्य उवाच

एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम ।
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ १ ॥

शतधा सहस्रधा चैव तथा शतसहस्रधा ।
कोतिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ २ ॥

सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् ।
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ॥ ३ ॥

केलवेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् ।
पुण्यपापेनमानुष्यमधर्मेणाप्यधो गतिम् ॥ ४ ॥

द्वन्द्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः ।
सत्त्वस्य रजसश्चैव तमसश्च श‍ृणुष्व मे ॥ ५ ॥

सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा ।
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ॥ ६ ॥

अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् ।
रजः सत्त्वसमायुक्तो मनुष्येषूपपद्यते ॥ ७ ॥

रजस्तमो भ्यां संयुक्तस्तिर्यग्योनिषु जायते ।
रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ॥ ८ ॥

पुण्यपापवियुक्तानां स्थानमाहुर्मनीसिनाम् ।
शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥ ९ ॥

ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् ।
अतीन्द्रियमबीलं च जन्ममृत्युतमो नुदम् ॥ १० ॥

अव्यक्तस्थं परं यत्तत्पृष्ठस्तेऽहं नराधिप ।
स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते ॥ ११ ॥

अचेतनश्चैष मतः प्रकृतिष्ठश्च पार्थिव ।
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ॥ १२ ॥

जनक उवाच

अनादिनिधनावेतावुभावेव महामुने ।
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रनौ ॥ १३ ॥

अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः ।
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भासितः ॥ १४ ॥

त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे ।
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥ १५ ॥

अस्तित्वं केवलत्वं च विना भावं तथैव च ।
तथैवोत्क्रमण स्थानं देहिनोऽपि वियुज्यतः ॥ १६ ॥

कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज ।
साङ्ख्यज्ञानं च तत्त्वेन पृथ योगं तथैव च ॥ १७ ॥

अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम ।
विदितं सर्वमेतत्ते पानावामलकं यथा ॥ १८ ॥

३१५/३०३
याज्ञवल्क्य उवाच

न शक्यो निर्गुणस्तात गुणी कर्तुं विशां पते ।
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥ १ ॥

गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा ।
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥ २ ॥

गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते ।
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥ ३ ॥

अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः ।
न मत्तः परमस्तीति नित्यमेवाभिमन्यते ॥ ४ ॥

अनेन कारणेनैतदव्यक्तं स्यादचेतनम् ।
नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ॥ ५ ॥

यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः ।
यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ॥ ६ ॥

कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते ।
कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ॥ ७ ॥

कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता ।
कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते ॥ ८ ॥

गुणानां प्रसवत्वाच्च तथा प्रसव धर्मवान् ।
कर्तृत्वात्प्रलयानां च तथा प्रलय धर्मिता ॥ ९ ॥

बीलत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च ।
उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ॥ १० ॥

मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः ।
अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ॥ ११ ॥

अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा ।
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥ १२ ॥

अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञिकः ।
यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ॥ १३ ॥

अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा ।
न चोदुम्बर संयोगैर्मशकस्तत्र लिप्यते ॥ १४ ॥

अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् ।
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥ १५ ॥

अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः ।
न चोपलिप्यते सोऽग्निरुखा संस्पर्शनेन वै ॥ १६ ॥

पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् ।
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥ १७ ॥

एतेषां सह संवासं विवासं चैव नित्यशः ।
यथातथैनं पश्यन्ति न नित्यं प्राकृता जनाः ॥ १८ ॥

ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् ।
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥ १९ ॥

साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् ।
एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ॥ २० ॥

ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् ।
अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ॥ २१ ॥

३१६/३०४
याज्ञवल्क्य उवाच

साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे ।
यथा श्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ १ ॥

नास्ति साङ्क्य समं ज्ञानं नास्ति योगसमं बलम् ।
तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ॥ २ ॥

पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः ।
वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ ३ ॥

यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते ।
एकं साङ्क्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४ ॥

रुद्र प्रधानानपरान्विद्धि योगान्परन्तप ।
तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ ५ ॥

यावद्धि प्रलयस्तात सूक्ष्मेणास्त गुणेन वै ।
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥ ६ ॥

वेदेषु चास्त गुणितं योगमाहुर्मनीषिणः ।
सूक्ष्ममस्तगुणं प्राहुर्नेतरं नृपसत्तम ॥ ७ ॥

द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् ।
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ ८ ॥

धारणा चैव मनसः प्राणायामश्च पार्थिव ।
प्राणायामो हि सगुणो निर्गुणं धारणं मनः ॥ ९ ॥

यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिल सत्तम ।
वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ॥ १० ॥

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः ।
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ॥ ११ ॥

तदेवमुपशान्तेन दान्तेनैकान्त शीलना ।
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ १२ ॥

पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा ।
शब्दं स्पर्शं तथारूपं रसं गन्धं तथैव च ॥ १३ ॥

प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल ।
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥ १४ ॥

मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप ।
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥ १५ ॥

एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् ।
विरजस्क मलं नित्यमनन्तं शुद्धमव्रणम् ॥ १६ ॥

तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् ।
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥ १७ ॥

युक्तस्य तु महाराज लक्षणान्युपधारयेत् ।
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥ १८ ॥

निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः ।
निश्चलोर्ध्व शिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥ १९ ॥

पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः ।
नालं चालयितुं शक्यस्तथायुक्तस्य लक्षणम् ॥ २० ॥

शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः ।
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥ २१ ॥

तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः ।
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसि पानिभिः ॥ २२ ॥

संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् ।
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ॥ २३ ॥

स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च ।
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ॥ २४ ॥

स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् ।
महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ॥ २५ ॥

एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् ।
कालेन महता राजञ्श्रुतिरेषा सनातनी ॥ २६ ॥

एतद्धि योगं योगानां किमन्यद्योगलक्षणम् ।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ २७ ॥

३१७/३०५
याज्ञवल्क्य उवाच

तथैवोत्क्रममाणं तु श‍ृणुष्वावहितो नृप ।
पद्भ्यामुत्क्रममाणस्य वैष्नवं स्थानमुच्यते ॥ १ ॥

जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् ।
जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ॥ २ ॥

पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् ।
पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ॥ ३ ॥

पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च ।
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥ ४ ॥

ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् ।
विश्वे देवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥ ५ ॥

घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च ।
भ्रूभ्यां चैवाश्विनौ देवौ ललातेन पितॄनथ ॥ ६ ॥

ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा ।
एतान्युत्क्रमण स्थानान्युक्तानि मिथिलेश्वर ॥ ७ ॥

अरिष्टानि तु वक्ष्यामि विहितानि मनीसिभिः ।
संवत्सरवियोगस्य सम्भवेयुः शरीरिणः ॥ ८ ॥

योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन ।
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ।
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ॥ ९ ॥

परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ।
आत्मछाया कृती भूतं तेऽपि संवत्सरायुषः ॥ १० ॥

अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा ।
प्रकृतेर्विक्रियापत्तिः सो मासान्मृत्युलक्षणम् ॥ ११ ॥

दैवतान्यवजानाति ब्राह्मणैश् च विरुध्यते ।
कृष्ण श्याव छवि छायः सो मासान्मृत्युलक्षणम् ॥ १२ ॥

शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति ।
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाज् ॥ १३ ॥

शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः ।
देवतायतनस्थस्तु सो रात्रेण स मृत्युभाज् ॥ १४ ॥

कर्णनासावनमनं दन्तदृष्टिविरागिता ।
सञ्ज्ञा लोपो निरूस्मत्वं सद्यो मृत्युनिदर्शनम् ॥ १५ ॥

अकस्माच्च स्रवेद्यस्य वाममक्षिनराधिप ।
मूर्धतश्चोत्पतेद्धूमः सद्यो मृत्युनिदर्शनम् ॥ १६ ॥

एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् ।
निशि चाहनि चात्मानं योजयेत्परमात्मनि ॥ १७ ॥

प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् ।
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ॥ १८ ॥

सर्वगन्धान्रसांश्चैव धारयेत समाहितः ।
तथा हि मृत्युं जयति तत्परेणान्तरात्मना ॥ १९ ॥

ससाङ्ख्य धारणं चैव विदित्वा मनुजर्षभ ।
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥ २० ॥

गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् ।
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ २१ ॥

३१८/३०६
याज्ञवल्क्य उवाच

अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
परं गुह्यमिमं प्रश्नं श‍ृणुष्वावहितो नृप ॥ १ ॥

यथार्षेणेह विधिना चरतावमतेन ह ।
मयादित्यादवाप्तानि यजूंसि मिथिलाधिप ॥ २ ॥

महता तपसा देवस्तपिष्ठः सेवितो मया ।
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ॥ ३ ॥

वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ ४ ॥

ततः प्रनम्य शिरसा मयोक्तस्तपतां वरः ।
यजूंसि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ ५ ॥

ततो मां भगवानाह वितरिष्यामि ते द्विज ।
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ ६ ॥

ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ ७ ॥

ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ ।
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥ ८ ॥

ततो विदह्यमानं मामुवाच भगवान्रविः ।
मुहूर्तं सह्यतां दाहस्ततः शीती भविष्यति ॥ ९ ॥

शीती भूतं च मां दृष्ट्वा भगवानाह भास्करः ।
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ॥ १० ॥

कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ ११ ॥

प्राप्स्यसे च यदिष्टं तत्साङ्क्य योगेप्सितं पदम् ।
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ १२ ॥

ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ १३ ॥

ततः प्रवृत्तातिशुभा स्वरव्यञ्जन भूषिता ।
ओङ्कारमादितः कृत्वा मम देवी सरस्वती ॥ १४ ॥

ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् ।
तपतां च वरिष्ठाय निषण्णस्तत्परायनः ॥ १५ ॥

ततः शतपथं कृत्स्नं सहरस्य ससङ्ग्रहम् ।
चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ १६ ॥

कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।
विप्रियार्थं सशिष्यस्य मातुलल्स्य महात्मनः ॥ १७ ॥

ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।
व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ १८ ॥

मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् ।
स्ववेद दक्षिणायाथ विमर्दे मातुलेन ह ॥ १९ ॥

सुमन्तु नाथ पैलेन तथ जैमिनिना च वै ।
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ २० ॥

दश पञ्च च प्राप्तानि यजूंस्यर्कान्मयानघ ।
तथैव लोमहर्षाच्च पुराणमवधारितम् ॥ २१ ॥

बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् ।
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥ २२ ॥

कर्तुं शतपथं वेदमपूर्वं कारितं च मे ।
यथाभिलसितं मार्थं तथा तच्चोपपादितम् ॥ २३ ॥

शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् ।
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ २४ ॥

शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः ।
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ॥ २५ ॥

किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् ।
चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ॥ २६ ॥

विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।
चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव ।
पञ्चविंशतिमं प्रश्नं पप्रच्छान्विक्षिकीं तथा ॥ २७ ॥

विश्वा विश्वं तथाश्वाश्वं मित्रं वरुणमेव च ।
ज्ञानं ज्ञेयं तथाज्ञोऽज्ञः कस्तपा अपता तथा ।
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ॥ २८ ॥

वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।
अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ॥ २९ ॥

अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः ।
पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ॥ ३० ॥

मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये ।
बाधमित्येव कृत्वा स तूस्नीं गन्धर्व आस्थितः ॥ ३१ ॥

ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् ।
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ॥ ३२ ॥

तत्रोपनिषदं चैव परिशेषं च पार्थिव ।
मघ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ ३३ ॥

चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी ।
उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ॥ ३४ ॥

अथोतस्तु मया राजन्राजा विश्वावसुस्तदा ।
श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ॥ ३५ ॥

विश्वा विश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।
विश्वाव्यक्तं परं विद्याद्भूतभव्य भयङ्करम् ॥ ३६ ॥

त्रिगुणं गुणकर्तृत्वादशिश्वो निष्कलस्तथा ।
अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ॥ ३७ ॥

अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् ।
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ ३८ ॥

ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च ।
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ॥ ३९ ॥

कस्तपा अतपाः प्रोक्ताः कोऽसौ पुरुष उच्यते ।
तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ॥ ४० ॥

तथैवावेद्यमव्यक्तं वेधः पुरुष उच्यते ।
चलाचलमिति प्रोक्तं त्वया तदपि मे श‍ृणु ॥ ४१ ॥

चलां तु प्रकृतिं प्राहुः कारणं क्षेप सर्गयोः ।
अक्षेप सर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥ ४२ ॥

अजावुभावप्रजनुचाक्षयौ चाप्युभावपि ।
अजौनित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ॥ ४३ ॥

अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् ।
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ ४४ ॥

गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ॥ ४५ ॥

विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ ४६ ॥

जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ॥ ४७ ॥

साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।
वेद वेद्यं न जानीते वेद भारवहो हि सः ॥ ४८ ॥

यो घृतार्थी खरी क्षीरं मथेद्गन्धर्वसत्तम ।
विष्ठां तत्रानुपश्येत न मन्दं नापि वा घृतम् ॥ ४९ ॥

तथा वेद्यमवेद्यं च वेद विद्यो न विन्दति ।
स केवलं मूढ मतिर्ज्ञानभार वहः स्मृतः ॥ ५० ॥

द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना ।
यथास्य जन्म निधने न भवेतां पुनः पुनः ॥ ५१ ॥

अजस्रं जन्म निधनं चिन्तयित्वा त्रयीमिमाम् ।
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ ५२ ॥

यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप ।
तदा स केवली भूतः सद्विंसमनुपश्यति ॥ ५३ ॥

अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः ।
तस्य द्वावनुपश्येत तमेकमिति साधवः ॥ ५४ ॥

तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् ।
जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ॥ ५५ ॥

विश्वावसुरुवाच

पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।
तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ॥ ५६ ॥

जैगीसव्यस्यासितस्य देवलस्य च मे श्रुतम् ।
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ ५७ ॥

भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च ।
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥ ५८ ॥

नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ ५९ ॥

कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ ६० ॥

दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः ।
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ ६१ ॥

तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।
भवान्प्रवर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ ६२ ॥

न तवाविदितं किं चिद्भवाञ्श्रुतिनिधिः स्मृतः ।
कथ्यते देवलोके च पितृलोके च ब्राह्मण ॥ ६३ ॥

ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।
पतिश्च तपतां शश्वदादित्यस्तव भासते ॥ ६४ ॥

साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ॥ ६५ ॥

निःसन्दिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।
श्रोतुमिच्छामि तज्ज्ञानं घृतं मन्दमयं यथा ॥ ६६ ॥

याज्ञवल्क्य उवाच

कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।
जिज्ञाससि च मां राजंस्तन्निबोध यथा श्रुतम् ॥ ६७ ॥

अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः ।
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥ ६८ ॥

अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् ।
साङ्ख्ययोगाश्च तत्त्वज्ञा यथा श्रुतिनिदर्शनात् ॥ ६९ ॥

पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ ।
सद्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति ।
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ॥ ७० ॥

पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम ।
न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ॥ ७१ ॥

मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् ।
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।
सस्नेहः सह वासाच्च साभिमानश्चनित्यशः ॥ ७२ ॥

स निमज्जति कालस्य यदैकत्वं न बुध्यते ।
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ॥ ७३ ॥

यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः ।
तदा स केवली भूतः सद्विंशमनुपश्यति ॥ ७४ ॥

अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥ ७५ ॥

तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् ।
जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ।
सद्विंसमनुपश्यन्ति शुचयस्तत्परायनाः ॥ ७६ ॥

यदा स केवली भूतः सद्विंशमनुपश्यति ।
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ ७७ ॥

एवमप्रतिबुद्धश्च बुध्यमानश् च तेऽनघ ।
बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ ७८ ॥

पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप ।
केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ॥ ७९ ॥

विश्वावसुरुवाच

तथ्यं शुभं चैतदुक्तं त्वया भोः
सम्यक्क्षेम्यं देवताद्यं यथावत् ।
स्वस्त्य क्षयं भवतश्चास्तु नित्यं
बुद्ध्या सदा बुधि युक्तं नमस्ते ॥ ८० ॥

याज्ञवल्क्य उवाच

एवमुक्त्वा सम्प्रयातो दिवं स
विभ्राजन्वै श्रीमत दर्शनेन ।
तुष्टश्च तुष्ट्या परयाभिनन्द्य
प्रदक्षिणं मम कृत्वा महात्मा ॥ ८१ ॥

ब्रह्मादीनां खेचराणां क्षितौ च
ये चाधस्तात्संवसन्ते नरेन्द्र ।
तत्रैव तद्दर्शनं दर्शयन्वै
सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ ८२ ॥

साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश् च
तद्वद्योगा योगधर्मे रताश् च ।
ये चाप्यन्ये मोक्षकामा मनुष्यास्
तेषामेतद्दर्शनञ्ज्ञान दृष्टम् ॥ ८३ ॥

ज्ञानान्मोक्षो जायते पूरुषानां
नास्त्यज्ञानादेवमाहुर्नरेन्द्र ।
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं
येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ ८४ ॥

प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा
वैश्याच्छूद्रादपि नीचादभीक्ष्णम् ।
श्रद्धातव्यं श्रद्दधानेन नित्यं
न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ ८५ ॥

सर्वे वर्णा ब्राह्मणा ब्रह्मजाश् च
सर्वे नित्यं व्याहरन्ते च ब्रह्म ।
तत्त्वं शास्त्रं ब्रह्म बुद्ध्या ब्रवीमि
सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥ ८६ ॥

ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता
बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः ।
नाभ्यां वैश्याः पादतश्चापि शूद्राः
सर्वे वर्णा नान्यथा वेदितव्याः ॥ ८७ ॥

अज्ञानतः कर्म योनिं भजन्ते
तां तां राजंस्ते यथा यान्त्यभावम् ।
तथा वर्णा ज्ञानहीनाः पतन्ते
घोरादज्ञानात्प्राकृतं योनिजालम् ॥ ८८ ॥

तस्माज्ज्ञानं सर्वतो मार्गितव्यं
सर्वत्रस्थ चैतदुक्तं मया ते ।
तस्थौ ब्रह्मा तस्थिवांश्चापरो यस्
तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ॥ ८९ ॥

यत्ते पृष्ठं तन्मया चोपदिष्टं
याथातथ्यं तद्विशोको भवस्व ।
राजन्गच्छस्वैतदर्थस्य पारं
सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ॥ ९० ॥

भीष्म उवाच

स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता ।
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ ९१ ॥

गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे ।
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ ९२ ॥

गोकोतिं स्पर्शयामास हिरण्यस्य तथैव च ।
रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ॥ ९३ ॥

विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै ।
यति धर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ॥ ९४ ॥

साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ॥ ९५ ॥

अनन्तमिति कृत्वा स नित्यं केवलमेव च ।
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ ९६ ॥

जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ ९७ ॥

पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः ।
इष्टानिष्ट वियुक्तं हि तस्थौ ब्रह्म परात्परम् ।
नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ॥ ९८ ॥

दीयते यच्च लभते दत्तं यच्चानुमन्यते ।
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ।
ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ॥ ९९ ॥

आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् ।
एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ १०० ॥

यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।
तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ॥ १०१ ॥

न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।
लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ॥ १०२ ॥

तथैव महतः स्थानमाहङ्कारिकमेव च ।
अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ॥ १०३ ॥

ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।
जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ॥ १०४ ॥

एतन्मयाप्तं जनकात्पुरस्तात्
तेनापि चाप्तं नृप याज्ञवल्क्यात् ।
ज्ञानं विशिष्टं न तथा हि यज्ञा
ज्ञानेन दुर्गं तरते न यज्ञैः ॥ १०५ ॥

दुर्गं जन्म निधनं चापि राजन्
न भूतिकं ज्ञानविदो वदन्ति ।
यज्ञैस्तपोभिर्नियमैर्व्रतैश् च
दिवं समासाद्य पतन्ति भूमौ ॥ १०६ ॥

तस्मादुपासस्व परं महच्छुचि
शिवं विमोक्षं विमलं पवित्रम् ।
क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञम्
उपास्य वै तत्त्वमृषिर्भविष्यसि ॥ १०७ ॥

उपनिषदमुपाकरोत्तदा वै जनक नृपस्य पुरा हि याज्ञवल्क्यः ।
यदुपगणितशाश्वताव्ययं तच्-
छुभममृतत्वमशोकमृच्छतीति ॥ १०८ ॥

Also Read:

Sri Yama Gita-s from Vishnu, Nrisimha, and Agni Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil