Shri Dakshinamurti Sahasranamastotram 1 Lyrics in Hindi:
॥ श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् १ ॥
(चिदम्बरनटनतन्त्रतः)
(दकारादिथकारान्तम् )
अस्य श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रमहामन्त्रस्य गुरुराट् ऋषिः ।
अनुष्टुप्छन्दः । श्रीदक्षिणामूर्तिः परमात्मा देवता ।
ह्रीं बीजं । स्वाहा शक्तिः । नमः कीलकम् ।
चतुःषष्टिकलाविद्याज्ञानप्राप्त्यै नामपरायणे विनियोगः ।
ॐ नमो भगवते दक्षिणामूर्तये ।
मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा इति षडङ्गन्यासः ।
ॐ दक्षिणो दक्षिणामूर्तिर्दयालुर्दीनवल्लभः ।
दीनार्तिहा दीननाथो दीनबन्धुर्दयापरः ॥ १ ॥
दारिद्र्यशमनोऽदीनो दीर्घो दानवनाशनः ।
दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः ॥ २ ॥
दीनार्तिहरणो दान्तो दीप्तिमान्दिव्यलोचनः ।
देदीप्यमानो दुर्गेशः श्रीदुर्गावरदायकः ॥ ३ ॥
दरिसंस्थो दानरूपो दानसन्मानतोषितः ।
दीनो दाडिमपुष्पाढ्यो दाडिमीपुष्पभूषितः ॥ ४ ॥
दैन्यहृद्दुरितघ्नश्च दिशावासो दिगम्बरः ।
दिक्पतिर्दीर्घसूत्री च दरदम्बुदलोचनः ॥ ५ ॥
दक्षिणाप्रेमसन्तुष्टो दारिद्र्यवडवानलः ।
दक्षिणावरदो दक्षो दक्षाध्वरविनाशकृत् ॥ ६ ॥
दामोदरप्रियो दीर्घो दीर्घिकाजनमध्यगः ।
धर्मो धनप्रदो ध्येयो धीमान्धैर्यविभूषितः ॥ ७ ॥
धरणीधारको धाता धनाध्यक्षो धुरन्धरः ।
धीधारको धिण्डिमको नग्नो नारायणो नरः ॥ ८ ॥
नरनाथप्रियो नाथो नदीपुलिनसंस्थितः ।
नानारूपधरो नमो नान्दीश्राद्धप्रियो नरः ॥ ९ ॥
नटाचार्यो नटवरो नारीमानसमोहनः ।
नदीप्रियो नीतिधरो नानामन्त्ररहस्यवित् ॥ १० ॥
नारदो नामरहितो नौकारूढो नटप्रियः ।
परमः परमादश्च परविद्याविकर्षणः ॥ ११ ॥
पतिः पातित्यसंहर्ता परमेशः पुरातनः ।
पुराणपुरुषः पुण्यः पद्यगद्यविशारदः ॥ १२ ॥
पद्यप्रियः पद्यहस्तः परमार्थपरायणः ।
प्रीतः पुराणपुरुषः पुराणागमसूचकः ॥ १३ ॥
पुराणवेत्ता पापघ्नः पार्वतीशः परार्थवित् ।
पद्मावतीप्रियः प्राणः परः पररहस्यवित् ॥ १४ ॥
पार्वतीरमणः पीनः पीतवासाः परात्परः ।
पशूपहाररसिकः पाशी पाशुपतः प्रियः ॥ १५ ॥
पक्षीन्द्रवाहनप्रीतः पुत्रदः पुत्रपूजितः ।
फणिनादः फैङ्कृतिश्च फट्कारिः फ्रें परायणः ॥ १६ ॥
फ्रीं बीजजपसन्तुष्ट फ्रीङ्कारः फणिभूषितः ।
फणिविद्यामयः फ्रैं फ्रैं फ्रैं फ्रैं शब्दपरायणः ॥ १७ ॥
फडस्रजपसन्तुष्टो बलिभुग् बाणभूषितः ।
बाणपूजारतो ब्लूं ब्लूं ब्लूं बीजनिरतः शुचिः ॥ १८ ॥
भवार्णवो बालमतिः बालेशो बालभावधृत् ।
बालप्रियो बालगतिः बलिवरदप्रियो बली ॥ १९ ॥
बालचन्द्रप्रियो बालो बालशब्दपरायणः ।
ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥ २० ॥
भवानी भूपतिर्भद्रो भद्रदो भद्रवाहनः ।
भूताध्यक्षो भूतपतिः भूतभीतिनिवारण ॥ २१ ॥
भद्रङ्करो भीमगर्भो भीमसङ्गमलोलुपः ।
भीमो भयानको भ्राता भ्रान्तो भरकासुरप्रियः ॥ २२ ॥
भस्मभूषो भस्मसंस्थो भैक्षकर्मपरायणः ।
भानुभूषो भानुरूपो भवानीप्रीतिदो भवः ॥ २३ ॥
भगेदवो भर्गवासो भर्गपूजापरायणः ।
भावव्रतो भावरतो भावाभावविवर्जितः ॥ २४ ॥
भर्गो भावानन्तयुक्तो भां भिं शब्दपरायणः ।
भ्रां बीजजपसन्तुष्टो भट्टारो भद्रवाहनः ॥ २५ ॥
भट्टारको भीमभीमो भीमचण्डपतिर्भवः ।
भवानीजपसन्तुष्टो भवानीपूजनोत्सुकः ॥ २६ ॥
भ्रमरो भ्रामरीयुक्तो भ्रमराम्बाप्रपूजितः ।
महादेवो महामान्यो महेशो माधवप्रियः ॥ २७ ॥
मधुपुष्पप्रियो माध्वी मानपूजपरायणः ।
मधुपानप्रियो मीनो मीनाक्षीनायको महान् ॥ २८ ॥
मारदृशो मदनघ्नो माननीयो महोक्षगः ।
माधवो मानरहितो म्राम्बीजजपतोषितः ॥ २९ ॥
मधुपानरतो मानी महार्हो मोहनास्रवित् ।
महाताण्डवकृन्मन्त्रो मधुपूजापरायणः ॥ ३० ॥
मूर्तिर्मुद्राप्रियो मित्रो मित्रसन्तुष्टमानसः ।
म्रीं म्रीं मधुमतीनाथो महादेवप्रियो मृडः ॥ ३१ ॥
यादोनिधिर्यदुपतिः यतिर्यज्ञपरायणः ।
यज्वा यागप्रियो याजी यायीभावप्रियो यमः ॥ ३२ ॥
यातायातादिरहितो यतिधर्मपरायणः ।
यतिसाध्यो यष्टिधरो यजमानप्रियो यजः ॥ ३३ ॥
यजुर्वेदप्रियो यायी यमसंयमसंयुतः ।
यमपीडाहरो युक्तिर्योगी योगीश्वरालयः ॥ ३४ ॥
याज्ञवल्क्यप्रियो योनिः योनिदोषविवर्जितः ।
यामिनीनाथो यूषी च यमवंशसमुद्भवः ॥ ३५ ॥
यक्षो यक्षप्रियो याम्यो रामो राजीवलोचनः ।
रात्रिञ्चरो रात्रिचरो रामेशो रामपूजितः ॥ ३६ ॥
रामपूज्यो रामनाथो रत्नदो रत्नहारकः ।
राज्यदो रामवरदो रञ्जको रतिमार्गकृत् ॥ ३७ ॥
रमणीयो रघुनाथो रघुवंशप्रवर्तकः ।
रामानन्दप्रियो राजा राजराजेश्वरो रसः ॥ ३८ ॥
रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः ।
रत्नाकरो लक्ष्मणेशो लक्ष्मको लक्ष्मलक्षणः ॥ ३९ ॥
लक्ष्मीनाथप्रियो लाली लम्बिकायोगमार्गधृत् ।
लब्धलक्ष्यो लब्धसिद्धिर्लभ्यो लाक्षारुणेक्षणः ॥ ४० ॥
लोलाक्षीनायको लोभी लोकनाथो लतामयः ।
लतापूजापरो लीलो लक्षमन्त्रजपप्रियः ॥ ४१ ॥
लम्बिकामार्गनिरतो लक्षकोट्यण्डनायकः ।
वाणीप्रियो वाममार्गो वादी वादपरायणः ॥ ४२ ॥
वीरमार्गरतो वीरो वीरचर्यापरायणः ।
वरेण्यो वरदो वामो वाममार्गप्रवर्तकः ॥ ४३ ॥
वामदेवो वागधीशो वीणाढ्यो वेणुतत्परः ।
विद्याप्रदो वीतिहोत्रो वीरविद्याविशारदः ॥ ४४ ॥
वर्गो वर्गप्रियो वायुः वायुवेगपरायणः ।
वार्तज्ञश्च वशीकारी वर्षिष्ठो वामहर्षकः ॥ ४५ ॥
वासिष्ठो वाक्पतिर्वेद्यो वामनो वसुदो विराट् ।
वाराहीपालको वश्यो वनवासी वनप्रियः ॥ ४६ ॥
वनपतिर्वारिधारी वीरो वाराङ्गनाप्रियः ।
वनदुर्गापतिर्वन्यः शक्तिपूजापरायणः ॥ ४७ ॥
शशाङ्कमौलिः शान्तात्मा शक्तिमार्गपरायणः ।
शरच्चन्द्रनिभः शान्तः शक्तिः संशयवर्जितः ॥ ४८ ॥
शचीपतिः शक्रपूज्यः शरस्थः शापवर्जितः ।
शापानुग्राहकः शङ्खप्रियः शत्रुनिषूदनः ॥ ४९ ॥
शरीरयोगी शान्तारिः शक्ता श्रमगतः शुभः ।
शुक्रपूज्यः शुक्रभोगी शुक्रभक्षणतत्परः ॥ ५० ॥
शारदानायकः शौरिः षण्मुखः षण्मनाः षढः ।
षण्डः षडङ्गः षट्कश्च षडध्वंयागतत्परः ॥ ५१ ॥
षडाम्नायरहस्यज्ञः षष्ठीजपपरायणः ।
षट्चक्रभेदनः षष्ठीनादषड्दर्शनप्रियः ॥ ५२ ॥
षष्ठीदोषहरः षट्कः षट्शास्रार्थरहस्यवित् ।
षड्भूमि हितः षड्वर्गः षडैश्वर्यफलप्रदः ॥ ५३ ॥
षड्गुणः षण्मुखप्रीतः षष्ठिपालः षडात्मकः ।
षट्कृत्तिकासमाजस्थः षडाधारनिवासकः ॥ ५४ ॥
षोढान्यासमयः सिन्धुः सुन्दरः सुरसुन्दरः ।
सुराध्यक्षः सुरपतिः सुमुखः सुसमः सुरः ॥ ५५ ॥
सुभगः सर्ववित्सौम्य सिद्धमार्गप्रवर्तकः ।
सहजानन्दजः साम सर्वशास्त्ररहस्यवित् ॥ ५६ ॥
समिद्धोमप्रियः सर्वः सर्वशक्तिप्रपूजितः ।
सुरदेवः सुदेवश्च सन्मार्गः सिद्धदर्शनः ॥ ५७ ॥
सर्ववित्साधुवित्साधुः सर्वधर्मसमन्वितः ।
सर्वाध्यक्षः सर्ववेद्यः सन्मार्गसूचकोऽर्थवित् ॥ ५८ ॥
हारी हरिर्हरो हृद्यो हरो हर्षप्रदो हरिः ।
हरयोगी हेहरतो हरिवाहो हरिध्वजः ॥ ५९ ॥
ह्रादिमार्गरतो ह्रीं च हारीतवरदायकः ।
हारीतवरदो हीनो हितकृद्धुंकृतिर्हविः ॥ ६० ॥
हविष्यभुग् हविष्याशी हरिद्वर्णो हरात्मकः ।
हैहयेशो ह्रीङ्कृतिश्च हरिमानसतोषणः ॥ ६१ ॥
ह्रांङ्कारजपसन्तुष्टो ह्रीङ्कारजपचिह्नितः ।
हितकारी हरिणदृक् हलितो हरनायकः ॥ ६२ ॥
हारप्रियो हाररतो हाहाशब्दपरायणः ।
ळकार वर्णभूषाढ्यो ळकारेशो महामुनिः ॥ ६३ ॥
ळकारबीजनिलयो ळांळिं मन्त्रप्रवर्तकः ।
क्षेमङ्करीप्रियः क्षाम्यः क्षमाभृत्क्षणरक्षकः ॥ ६४ ॥
क्षाङ्कारबीजनिलयः क्षोभहृत् क्षोभवर्जितः ।
क्षोभहारी क्षोभकारी क्ष्रीं बीज क्ष्रां स्वरूपधृत् ॥ ६५ ॥
क्ष्राङ्कारबीजनिलयः क्षौमाम्बरविभूषितः ।
क्षोणीरथः प्रियकरः क्षमापालः क्षमाकरः ॥ ६६ ॥
क्षेत्रज्ञः क्षेत्रपालश्च क्षयरोगक्षयङ्करः ।
क्षामोदरः क्षामगात्रः क्षामरूपः क्षयोदरः ॥ ६७ ॥
अद्भुतोऽनन्तवरदः अनसूयुः प्रियंवदः ।
अत्रिपुत्रोऽग्निगर्भश्च अभूतोऽनन्तविक्रमः ॥ ६८ ॥
आदिमध्यान्तरहितः अणिमादि गुणाकरः ।
अक्षरोऽष्टगुणैश्वर्यः अर्होऽनर्हः स उच्यते ॥ ६९ ॥
आदित्यश्चागुणश्चात्मा अध्यात्मप्रीतमानसः ।
आद्यश्चाम्रप्रियश्चाम्र आम्रपुष्पविभूषितः ॥ ७० ॥
आम्रपुष्पप्रियः प्राणः आर्ष आम्रातकेश्वरः ।
इङ्गितज्ञश्च इष्टज्ञ इष्टभद्र इष्टप्रदस्तथा ॥ ७१ ॥
इष्टापूर्तप्रियश्चेष्ट ईश ईश्वरवल्लभः ।
ईङ्कारश्चेश्वराधीनः ईशतटिदिन्द्रवाचकः ॥ ७२ ॥
उक्षिरूकारगर्भश्च ऊकाराय नमो नमः ।
ऊह्य ऊहविनिर्मुक्त ऊष्मा ऊष्ममणिस्तथा ॥ ७३ ॥
ऋद्धिकारी ऋद्धिरूपी ऋद्धिप्रावर्तकेश्वरः ।
ॠकारवर्णभूषाढ्यः ॠकाराय नमो नमः ॥ ७४ ॥
ऌकारगर्भो ॡकार ॡं ॡङ्काराय ते नमः ।
एकारगर्भश्चैकारः एकश्चैकप्रवाचकः ॥ ७५ ॥
एकङ्कारिश्चैककर एकप्रियतराय ते ।
एकवीर एकपतिः एं ऐं शब्दपरायणः ॥ ७६ ॥
ऐन्द्रप्रियश्चैक्यकारी ऐं बीजजपतत्परः ।
ओङ्कारश्चोङ्कारबीजः ओङ्काराय नमो नमः ॥ ७७ ॥
ओङ्कारपीठनिलयः ओङ्कारेश्वरपूजितः ।
अङ्कितोत्तमवर्णश्च अङ्कितज्ञाय ते नमः ॥ ७८ ॥
कलङ्कहरः कङ्कालः क्रूरः कुक्कुटवाहनः ।
कामिनीवल्लभः कामी काम्यार्थः कमनीयकः ॥ ७९ ॥
कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ।
कामेश्वरः कामरूपः कालः कालकृपानिधिः ॥ ८० ॥
कृष्णः कालीपतिः कालि कृशचूडामणिः कलः ।
केशवः केवलः कान्तः कालीशो ( श) वरदायकः ॥ ८१ ॥
कालिकासंप्रदायज्ञः कालः कामकलात्मकः ।
खट्वाङ्गपाणिः खतितः खरशूलः खरान्तकृत् ॥ ८२ ॥
खेलनः खेटकः खड्गः खड्गनाथः खगेश्वरः ।
खेचरः खेचरनाथो गणनाथसहोदरः ॥ ८३ ॥
गाढो गहनगम्भीरो गोपालो गूर्जरो गुरुः ।
गणेशो गायको गोप्ता गायत्रीवल्लभो गुणी ॥ ८४ ॥
गोमन्तो गारुडो गौरो गौरीशो गिरिशो गुहः ।
गीरर्गर्यो गोपनीयो गोमयो गोचरो गुणः ॥ ८५ ॥
हेरम्बायुष्यरुचिरो गाणापत्यागमप्रियः ।
घण्टाकर्णो घर्मरश्मिर्घृणिर्घण्टाप्रियो घटः ॥ ८६ ॥
घटसर्पो घूर्णितश्च घृमणिर्घृतकम्बलः ।
घण्टादिनादरुचिरो घृणी लज्जाविवर्जितः ॥ ८७ ॥
घृणिमन्त्रजपप्रीतो घृतयोनिर्घृतप्रियः ।
घर्घरो घोरनादश्चाघोरशास्त्रप्रवर्तकः ॥ ८८ ॥
घनाघनो घोषयुक्तो घेटको घेटकेश्वरः ।
घनो घनरुचिः घ्रिं घ्रां घ्रां घ्रिं मन्त्रस्वरूपधृत् ॥ ८९ ॥
घनश्यामो घनतरो घटोत्कचो घटात्मजः ।
घङ्घादो घुर्घुरो घूको घकाराय नमो नमः ॥ ९० ॥
ङकाराख्यो ङकारेशो ङकाराय नमो नमः ।
ङकारबीजनिलयो ङां ङिं मन्त्रस्वरूपधृत् ॥ ९१ ॥
चतुष्षष्टिकलादायी चतुरश्चञ्चलश्चलः ।
चक्री चक्रश्चक्रधरः श्रीबीजजपतत्परः ॥ ९२ ॥
चण्डश्चण्डेश्वरश्चारुः चक्रपाणिश्चराचरः ।
चराचरमयश्चिन्तामणिश्चिन्तितसारथिः ॥ ९३ ॥
चण्डरश्मिश्चन्द्रमौलिश्चण्डीहृदयनन्दनः ।
चक्राङ्कितश्चण्डदीप्तिप्रियश्चूडालशेखरः ॥ ९४ ॥
चण्डश्चण्डालदमनः चिन्तितश्चिन्तितार्थदः ।
चित्तार्पितश्चित्तमायी चित्रविद्यामयश्च चित् ॥ ९५ ॥
चिच्छक्तिश्चेतनश्चिन्त्यः चिदाभासश्चिदात्मकः ।
छन्दचारी छन्दगतिश्छात्रश्छात्रप्रियश्च छित् ॥ ९६ ॥
छेदकृच्छेदनश्छेदः छन्दः शास्त्रविशारदः ।
छन्दोमयश्च छान्दोग्यश्छन्दसां पतिरित्यपि ॥ ९७ ॥
छन्दोभेदश्छन्दनीयः छन्दश्छन्दोरहस्यवित् ।
छत्रधारी छत्रभृतश्छत्रदश्छत्रपालकः ॥ ९८ ॥
छिन्नप्रियश्छिन्नमस्तः छिन्नमन्त्रप्रसादकः ।
छिन्नताण्डवसम्भूतः छिन्नयोगविशारदः ॥ ९९ ॥
जाबालिपूज्यो जन्माद्यो जनिता जन्मनाशकः ।
जपायुष्यप्रियकरो जपादाडिमरागधृत् ॥ १०० ॥
जमलो जैनतो जन्यो जन्मभूमिर्जनप्रियः ।
जन्माद्यश्च प्रियकरो जनिता जाजिरागधृत् ॥ १०१ ॥
जैनमार्गरतो जैनो जितक्रोधो जितेन्द्रियः ।
जर्जज्जटो जर्जभूषी जटाघारो जटाधरः ॥ १०२ ॥
जगद्गुरुर्जगत्कारी जामातृवरदोऽजरः ।
जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ १०३ ॥
ज्योतिर्ज्योत्स्नामयो जेता जयो जन्मकृतादरः ।
जामित्रो जैमिनीपुत्रो ज्योतिःशास्त्रप्रवर्तकः ॥ १०४ ॥
ज्योतिर्लिङ्गो ज्योतीरूपो जीमूतवरदायकः ।
जितो जेता जन्मपुत्रो ज्योत्स्नाजालप्रवर्तकः ॥ १०५ ॥
जन्मादिनाशको जीवो जीवातुर्जीवनौषधम् ।
जराहरो जाड्यहरो जन्माजन्मविवर्जितः ॥ १०६ ॥
जनको जननीनाथो जीमूतो जाम्बवप्रियः ।
जपमूर्तिर्जगन्नाथो जगत्स्थावरजङ्गमः ॥ १०७ ॥
जारदो जारविद्जारो जठराग्निप्रवर्तकः ।
जीर्णो जीर्णरतो जातिः जातिनाथो जगन्मयः ॥ १०८ ॥
जगत्प्रदो जगत्त्राता जगज्जीवनकौतुकः ।
जङ्गमो जङ्गमाकारो जटिलश्च जगद्गुरुः ॥ १०९ ॥
झीरर्झञ्झारिको झञ्झो झञ्झानुर्झरुलन्दकृत् ।
झकारबीजनिलयो झूं झूं झूं मन्त्ररूपधृत् ॥ ११०
ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ।
ज्ञानकाण्डी ज्ञेयकाण्डी ज्ञेयाज्ञेयविवर्जितः ॥ १११ ॥
टङ्कास्त्रधारी टङ्कारः टीकाटिप्पणकारकः ।
टां टीं टूं जपसन्तुष्टो टिट्टिभष्टिट्टिभाननः ॥ ११२ ॥
टिट्टिभाननसहितः टकाराक्षरभूषितः ।
टङ्कारकार्यष्टसिद्धिरष्टमूर्त्यष्टकष्टहा ॥ ११३ ॥ ॥
ठाङ्कुरष्ठकुरुष्ठष्ठः ठं ठे बीजपरायणः ।
ठां ठीं ठूं जपयोगाढ्यो डामरो डाकिनीप्रियः ॥ ११४ ॥
डाकिनीनायको डाडिः डूं डूं शब्दपरायणः ।
डकारात्मा डामरश्च डामरीशक्तिरञ्जितः ॥ ११५ ॥
डाकारो डाङ्करो डां डिं डिण्डिवादनतत्परः ।
डकाराढ्यो डङ्कहीनो डामरीवादनप्रियः ॥ ११६ ॥
ढाङ्कृतिढां पतिः ढां ढीं ढूं ढैं ढौं शब्दतत्परः ।
ढोढिभूषण भूषाढ्यो ढीं ढीं पालो ढपारजः ॥ ११७ ॥
णकारकुण्डलो णाडीवर्गप्राणो णणाद्रिभूः ।
णकारपञ्जरीशाय णां णिं णूं णं प्रवर्तकः ॥ ११८ ॥
तरुशस्तरुमध्यस्थः तर्वन्तस्तरुमध्यगः ।
तारकस्तारतम्यश्च तारनाथः सनातनः ॥ ११९ ॥
तरुणस्ताम्रचूडश्च तमिस्रानायकस्तमी ।
तोतस्त्रिपथगस्तीव्रस्तीव्रवेगस्त्रिशब्दकृत् ॥ १२० ॥
तारिमतस्तालधरः तपःशीलस्त्रपाकरः ।
तन्त्रमार्गरतस्तन्त्रस्तान्त्रिकस्तान्त्रिकोत्तमः ॥ १२१ ॥
तुषाराचलमध्यस्थः तुषारवरभूषितः ।
तुरस्तुम्बीफलप्राणस्तुलजापुरनायकः ॥ १२२
तीव्रयष्टिकरस्तीव्रस्तुण्डदुर्गसमाजगः ।
त्रिवर्गयज्ञकृत्त्रयी त्र्यम्बकस्त्रिपुरान्तकः ॥ १२३ ॥
त्रिपुरान्तकसंहारस्त्रिधामा स्त्रीतृतीयकः ।
त्रिलोकमुद्रिकाभूषः त्रिपञ्चन्याससंयुतः ॥ १२४ ॥
त्रिसुगन्धिस्त्रिमूर्तिर्स्त्रिगुणस्त्रिगुणसारथिः ।
त्रयीमयश्च त्रिगुणः त्रिपादश्च त्रिहस्तकः ॥ १२५ ॥
तन्त्ररूपस्त्रिकोणेशस्त्रिकालज्ञस्त्रयीमयः ।
त्रिसन्ध्यश्च त्रिकालश्च ताम्रपर्णीजलप्रियः ॥ १२६ ॥
तोमरस्तुमुलः स्थूलः स्थूलपुरुषरूपधृत् ।
तत्तन्त्री तन्त्रतन्त्री तृतीयस्तरुशेखरः ॥ १२७ ॥
तरुणेन्दुशिखस्तालस्तीर्थस्नातस्त्रिशेखरः ।
त्रिजोऽजेशस्त्रिस्वरूपस्त्रित्रिशब्दपरायणः ॥ १२८ ॥
तारनायकभूषश्च तरुवादनचञ्चलः ।
तिष्कस्त्रिराशिकस्त्र्यक्षः तरुणस्ताटवाहनः ॥ १२९ ॥
तृतीयस्तारकः स्तम्भः स्तम्भमध्यगतः स्थिरः ।
तत्त्वरूपस्तलस्तालस्तान्त्रिकस्तन्त्रभूषणः ॥ १३० ॥
तथ्यस्तुतिमयः स्थूलः स्थूलबुद्धिस्त्रपाकरः ।
तुष्टः स्तुतिमयः स्तोता स्तोत्रप्रीतः स्तुतीडितः ॥ १३१ ॥
त्रिराशिश्च त्रिबन्धुश्च त्रिप्रस्तारस्त्रिधागतिः ।
त्रिकालेशस्त्रिकालज्ञः त्रिजन्मा च त्रिमेखलः ॥ १३२ ॥
त्रिदोषश्च त्रिवर्गश्च त्रैराशिकफलप्रदः ।
तन्त्रसिद्धस्तन्त्ररतस्तन्त्रस्तन्त्रफलप्रदः ॥ १३३ ॥
त्रिपुरारिस्त्रिमधुरस्त्रिशक्तिस्त्रिकतत्त्वधृत् ।
तीर्थप्रीतस्तीर्थरतस्तीर्थोदानपरायणः ॥ १३४ ॥
त्रयक्लेशः तन्त्रणेशः तीर्थश्राद्धफलप्रदः ।
तीर्थभूमिरतस्तीर्थस्तित्तिडीफलभोजनः ॥ १३५ ॥
तित्तिडीफलभूषाढ्यः ताम्रनेत्रविभूषितः ।
तक्षः स्तोत्रपाठप्रीतः स्तोत्रमयः स्तुतिप्रियः ॥ १३६ ॥
स्तवराजजपप्राणः स्तवराजजपप्रियः ।
तैलस्तिलमनास्तैलपक्वान्नप्रीतमानसः ॥ १३७ ॥
तैलाभिषेकसन्तुष्टः तैलचर्वणतत्परः ।
तैलाहारप्रियः प्राणः तिलमोदकतोषणः ॥ १३८ ॥
तिलपिष्टान्नभोजी च तिलपर्वतरूपधृत् ।
थकार कूटनिलयः थैरिः थैः शब्दतत्परः ॥ १३९ ॥
थिमाथिमाथिमारूपः थै थै थै नाट्यनायकः ।
स्थाणुरूपो महेशानि प्रोक्तनामसहस्रकम् ॥ १४० ॥
गोप्याद्गोप्यं महेशानि सारात्सारतरं परम् ।
ज्ञानकैवल्यनामाख्यं नामसाहस्रकं शिवे ॥ १४१ ॥
यः पठेत्प्रयतो भूत्वा भस्मभूषितविग्रहः ।
रुद्राक्षमूलाभरणो भक्तिमान् जपतत्परः ॥ १४२ ॥
सहस्रनाम प्रपठेत् ज्ञानकैवल्यकाभिधम् ।
सर्वसिद्धिमवाप्नोति साक्षात्कारं च विन्दति ॥ १४३ ॥
तत्त्वमुद्रां वामकरे कृत्वा नामसहस्रकम् ।
प्रपठेत्पञ्चसाहस्रं पुरश्चरणमुच्यते ॥ १४४ ॥
शिवनाम्ना जातभावो वाङ्मनः कायकर्मभिः ।
शिवोऽहमिति वै ध्यायन्नामसाहस्रकं पठेत् ॥ १४५ ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
विद्यार्थी लभते विद्यां अभीष्टं लभते तथा ॥ १४६ ॥
॥ इति चिदम्बरनटनतन्त्रतः श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Also Read 1000 Names of Dakshinamurti 1:
1000 Names of Sri Dakshinamurti | Sahasranama Stotram 1 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil