Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Krishna Chaitanya Chandrasya | Sahasranama Stotram Lyrics in Hindi

Shri Krishna Chaitanya Chandrasya Sahasranama Stotram Lyrics in Hindi:

॥ श्रीकृष्णचैतन्यचन्द्रस्यसहस्रनामस्तोत्रम् ॥

नमस्तस्मै भगवते चैतन्याय महात्मने ।
कलिकल्मषनाशाय भवाब्धितारणाय च ॥ १ ॥
ब्रह्मणा हरिदासेन श्रीरूपाय प्रकाशितम् ।
तत्सर्वं कथयिष्यामि सावधानं निशामय ॥ २ ॥
श्रुत्वैवं वैष्णवाः सर्वे प्रहृष्टाः प्रेमविह्वलाः ।
सादरं परिपप्रच्छुः प्रेमगद्गदया गिरा ॥ ३ ॥
वैष्णवानां हि कृपया स्मृत्वा वाक्यं पितुस्तदा ।
सणोन्त्य भगवद्रूपं नामानि कथयामि वै ॥ ४ ॥
ध्यानम् ।
ॐ अस्य श्रीकृष्णचैतन्यसहस्रनामस्तोत्रस्य
नारायणः ऋषिः अनुष्टुप् छन्दः श्रीमद्भगवद्भक्तिर्देवता
श्रीराधाकृष्णप्रीतये श्रीकृष्णचैतन्य नामसहस्रपथे विनियोगः ।
ॐ नमः प्रेमसमुच्चयाय गोपीजनवल्लभाय महात्मने ।
ॐ विश्वम्भरः सदानन्दो विश्वजिद्विश्वभावनः ।
महानुभावो विश्वात्मा गौराङ्गो गौरभावनः ॥ ५ ॥
हेमप्रभो दीर्घबाहुर्दीर्घग्रीवः शुचिर्वसुः ।
चैतन्यश्चेतनश्चेतश्चित्तरूपी प्रभुः स्वयम् ॥ ६ ॥
राधाङ्गी राधिकाभावो राधान्वेशी प्रियंवदः ।
नीतिज्ञः सर्वधर्मज्ञो भक्तिमान् पुरुषोत्तमः ॥ ७ ॥
अनुभावी महाधैर्यः शास्त्रज्ञो नित्यनूतनः ।
प्रभावी भगवान् कृष्णश्चैतन्यो रसविग्रहः ॥ ८ ॥
अनादिनिधनो धाता धरणीमन्दनः शुचिः ।
वराङ्गश्चञ्चलो दक्षः प्रतापी साधुसङ्गतः ॥ ९ ॥
उन्मादी उन्मदो वीरो धीरग्राणी रसप्रियः ।
रक्ताम्बरो दण्डधरः संन्यासी यतिभूषणः ॥ १० ॥

दण्डी छत्री चक्रपाणिः कृपालुः सर्वदर्शनः ।
निरायुधः सर्वशास्ता कलिदोषप्रनाशनः ॥ ११ ॥
गुरुवर्यः कृपासिन्धुर्विक्रमी च जनार्दनः ।
म्लेच्छग्राही कुनीतिघ्नो दुष्टहारी कृपाकुलः ॥ १२ ॥
ब्रह्मचारी यतिवरो ब्रह्मण्यो ब्राह्मणः सुधीः ।
द्विजराजश्चक्रवर्ती कविः कृपणवत्सलः ॥ १३ ॥
निरीहः पावकोऽर्थज्ञो निर्धूमः पावकोपमः ।
नारवन्द्यो हराकारो भविष्णुर्नरनायकः ॥ १४ ॥
दानवीरो युद्धवीरो दयावीरो वृकोदरः ।
ज्ञानवीरो महावीरः शान्तिवीरः प्रतापनः ॥ १५ ॥
श्रीजिष्णुर्भ्रमिको जिष्णुः सहिष्णुश्चारुदर्शनः ।
नरो वरीयान् दुर्दर्शो नवद्वीपसुधाकरः ॥ १६ ॥
चन्द्रहास्यश्चन्द्रनखो बलिमदुदरो बली ।
सूर्यप्रभः सूर्यकांशुः सूर्याङ्गो मणिभूषणः ॥ १७ ॥
कम्भुकण्ठः कपोलश्रीर्निम्ननाभिः सुलोचनः ।
जगन्नाथसुतो विप्रो रत्नाङ्गो रत्नभूषणः ॥ १८ ॥
तीर्थार्थी तीर्थदस्तीर्थस्तीर्थाङ्गस्तीर्थसाधकः ।
तीर्थास्पदस्तीर्थवासस्तीर्थसेवी निराश्रयः ॥ १९ ॥
तीर्थालादी तीर्थप्रदो ब्राह्मको ब्रह्मणो भ्रमी ।
श्रीवासपण्डितानन्दो रामानन्दप्रियङ्करः ॥ २० ॥

गदाधरप्रियो दासो विक्रमी शङ्करप्रियः ।
योगी योगप्रदो योगो योगकारी त्रियोगकृत् ॥ २१ ॥
सर्वः सर्वस्वदो भूमा सर्वाङ्गः सर्वसम्भवः ।
वाणिर्बाणायुधो वादी वाचस्पतिरयोनिजः ॥ २२ ॥
बुद्धिः सत्यं बलं तेजो धृतिमान् जङ्गमकृतिः ।
मुरारिर्वर्धनो धाता नृहरिः मानवर्धनः ॥ २३ ॥
निष्कर्मा कर्मदो नाथः कर्मज्ञः कर्मनाशकः ।
अनर्घः कारकः कर्म क्रियार्हः कर्मबाधकः ॥ २४ ॥
निर्गुणो गुणवानीशो विधाता सामगोऽजितः ।
जितश्वासो जितप्राणो जितानङ्गो जितेन्द्रियः ॥ २५ ॥
कृष्णभावी कृष्णनामी कृष्णात्मा कृष्णनायकः ।
अद्वैतो द्वैतसाहित्यो द्विभावः पालको वशी ॥ २६ ॥
श्रीवासः श्रीधराहव्यो हलनायकसारवित् ।
विश्वरूपानुजश्चन्द्रो वरीयान् माधवोऽच्युतः ॥ २७ ॥
रूपासक्तः सदाचारो गुणज्ञो बहुभावकः ।
गुणहीनो गुणातीतो गुणग्राही गुणार्णवः ॥ २८ ॥
ब्रह्मानन्दो नित्यानन्दः प्रेमानन्दोऽतिनन्दकः ।
निन्द्यहारी निन्द्यवर्जी निन्द्यघ्नः परितोषकः ॥ २९ ॥
यज्ञबाहुर्विनीतात्मा नामयज्ञप्रचारकः ।
कलिवर्यः सुचिनांशुः पर्यांसुः पावकोपमः ॥ ३० ॥

हिरण्यगर्भः सूक्ष्मात्मा वैराज्यो विरजापतिः ।
विलासी प्रभावी स्वांशी परावस्थः शिरोमणिः ॥ ३१ ॥
मायाघ्नो मायिको मायी मायावादी विचक्षणः ।
कृष्णाच्छादी कृष्णजल्पी विषयघ्नो निराकृतिः ॥ ३२ ॥
सङ्कल्पशून्यो मायीशो मायाद्वेशी व्रजप्रियः ।
व्रजाधीशो व्रजपतिर्गोपगोकुलनन्दनः ॥ ३३ ॥
व्रजवासी व्रजभावो व्रजनायकसत्तमः ।
गुप्तप्रियो गुप्तभावो वाञ्छितः सत्कुलाश्रयः ॥ ३४ ॥
रागानुगो रागसिन्धू रागात्मा रागवर्धनः ।
रागोद्गतः प्रेमसाक्षी भट्टनाथः सनातनः ॥ ३५ ॥
गोपालभट्टगः प्रीतो लोकनाथप्रियः पटुः ।
द्विभुजः षड्भुजो रूपी राजदर्पविनाशनः ॥ ३६ ॥
काशिमिश्रप्रियो वन्द्यो वन्दनीयः शचिप्रसूः ।
मिश्रपुरन्दराधिसो रघुनाथप्रियो रयः ॥ ३७ ॥
सार्वभौमदर्पहारी अमोघारिर्वसुप्रियः ।
सहजः सहजाधीशः शाश्वतः प्रणयातुरः ॥ ३८ ॥
किलकिञ्चिदभावार्तः पाण्डुगण्डः शुचातुरः ।
प्रलापी बहुवाक् शुद्धः ऋजुर्वक्रगतिः शिवः ॥ ३९ ॥
घत्तायितोऽरविन्दाक्षः प्रेमवैचित्यलक्षकः ।
प्रियाभिमानी चतुरः प्रियावर्ती प्रियोन्मुखः ॥ ४० ॥

लोमाञ्चितः कम्पधरः अश्रुमुखो विशोकहा ।
हास्यप्रियो हास्यकारी हास्ययुग् हास्यनागरः ॥ ४१ ॥
हास्यग्रामी हास्यकरस्त्रिभङ्गी नर्तनाकुलः ।
ऊर्ध्वलोमा ऊर्ध्वहस्त ऊर्ध्वरावी विकारवान् ॥ ४२ ॥
भवोल्लासी धीरशान्तो धीरङ्गो धीरनायकः ।
देवास्पदो देवधामा देवदेवो मनोभवः ॥ ४३ ॥
हेमाद्रिर्हेमलावण्यः सुमेरुर्ब्रह्मसादनः ।
ऐरावतस्वर्णकान्तिः शरघ्नो वाञ्छितप्रदः ॥ ४४ ॥
करोभोरूः सुदीर्घाक्षः कम्पभ्रूचक्षुनासिकः ।
नामग्रन्थी नामसङ्ख्या भावबद्धस्तृषाहरः ॥ ४५ ॥
पापाकर्षी पापहारी पापघ्नः पापशोधकः ।
दर्पहा धनदोऽरिघ्नो मानहा रिपुहा मधुः ॥ ४६ ॥
रूपहा वेशहा दिव्यो दीनबन्धुः कृपामयः ।
सुधक्षरः सुधास्वादी सुधामा कमनीयकः ॥ ४७ ॥
निर्मुक्तो मुक्तिदो मुक्तो मुक्ताख्यो मुक्तिबाधकः ।
निःशङ्को निरहङ्कारो निर्वैरो विपदापहः ॥ ४८ ॥
विदग्धो नवलावण्यो नवद्वीपद्विज प्रभुः ।
निरङ्कुशो देववन्द्यः सुराचार्यः सुरारिहा ॥ ४९ ॥
सुरवर्यो निन्द्यहारी वादघ्नः परितोषकः ।
सुप्रकाशो बृहद्बाहुर्मित्रज्ञः कविभूषणः ॥ ५० ॥

वरप्रदो वरपाङ्गो वरयुग् वरनायकः ।
पुष्पहासः पद्मगन्धिः पद्मरागः प्रजागरः ॥ ५१ ॥
ऊर्ध्वगः सत्पथाचारी प्राणद ऊर्ध्वगायकः ।
जनप्रियो जनाह्लादो जनकऋषि जनस्पृहः ॥ ५२ ॥
अजन्मा जन्मनिलयो जनानदो जनार्द्रधीः ।
जगन्नाथो जगद्बन्धुर्जगद्देवो जगत्पतिः ॥ ५३ ॥
जनकारी जनामोदो जनकानन्दसाग्रहः ।
कलिप्रियः कलिश्लाघ्यः कलिमानविवर्धनः ॥ ५४ ॥
कलिवर्यः सदानन्दः कलिकृत् कलिधन्यमान् ।
वर्धामनः श्रुतिधरः वर्धनो वृद्धिदायकः ॥ ५५ ॥
सम्पदः शारणो दक्षो घृणाङ्गी कलिरक्षकः ।
कलिधन्यः समयज्ञः कलिपुण्यप्रकाशकः ॥ ५६ ॥
निश्चिन्तो धीरललितो धीरवाक् प्रेयसीप्रियः ।
वामास्पर्शी वामभावो वामरूपो मनोहरः ॥ ५७ ॥
अतीन्द्रियः सुराध्यक्षो लोकाध्यक्षः कृतकृतः ।
युगादिकृद् युगकरो युगज्ञो युगनायकः ॥ ५८ ॥
युगावर्तो युगासीमः कालवान् कालशक्तिधृक् ।
प्रणयः शाश्वतो हृष्टो विश्वजिद् बुद्धिमोहनः ॥ ५९ ॥
सन्ध्याता ध्यानकृद् ध्यानी ध्यानमङ्गलसन्धिमान् ।
विस्रुतात्मा हृदिस्थिरो ग्रामनियप्रग्राहकः ॥ ६० ॥

स्वरमूर्च्छी स्वरालापी स्वरमूर्तिविभूषणः ।
गानग्राही गानलुब्धो गायको गानवर्धनः ॥ ६१ ॥
गानमान्यो ह्यप्रमेयः सत्कर्ता विश्वधृक् सहः ।
क्षीराब्धिकमथाकारः प्रेमगर्भझषाकृतिः ॥ ६२ ॥
बीभत्सुर्भावहृदयः अदृश्यो बर्हिदर्शकः ।
ज्ञानरुद्धो धीरबुद्धिरखिलात्मप्रियः सुधीः ॥ ६३ ॥
अमेयः सर्वविद्भानुर्बभ्रूर्बहुशिरो रुचिः ।
उरुश्रवाः महादीर्घो वृषकर्मा वृषाकृतिः ॥ ६४ ॥
श्रुतिस्मृतिधरो वेदः श्रुतिज्ञः श्रुतिबाधकः ।
हृदिस्पृश आस आत्मा श्रुतिसारो विचक्षणः ॥ ६५ ॥
कलापी निरनुग्राही वैद्यविद्याप्रचारकः ।
मीमांसकारिर्वेदाङ्ग वेदार्थप्रभवो गतिः ॥ ६६ ॥
परावरज्ञो दुष्पारो विरहाङ्गी सतां गतिः ।
असङ्ख्येयोऽप्रमेयात्मा सिद्धिदः सिद्धिसाधनः ॥ ६७ ॥
धर्मसेतुर्धर्मपरो धर्मात्मा धर्मभावनः ।
उदीर्णसंशयच्छिन्नो विभूतिः शाश्वतः स्थिरः ॥ ६८ ॥
शुद्धात्मा शोभनोत्कण्ठोऽनिर्देश्यः साधनप्रियः ।
ग्रन्थप्रियो ग्रन्थमयः शास्त्रयोनिर्महाशयः ॥ ६९ ॥
अवर्णो वर्णनिलयो नाश्रमी चतुराश्रमः ।
अविप्र विप्रकृत् स्तुत्यो राजन्यो राज्यनाशकः ॥ ७० ॥

अवश्यो वश्यताधीनः श्रीभक्तिव्यवसायकः ।
मनोजवः पुरयिता भक्तिकीर्तिरनामयः ॥ ७१ ॥
निधिवर्जी भक्तिनिधिर्दुर्लभो दुर्गभावकृत् ।
कर्तनीः कीर्तिरतुलः अमृतो मुरजप्रियः ॥ ७२ ॥
श‍ृङ्गारः पञ्चमो भावो भावयोनिरनन्तरः ।
भक्तिजित् प्रेमभोजी च नवभक्तिप्रचारकः ॥ ७३ ॥
त्रिगर्तस्त्रिगुणामोदस्त्रिवाञ्छी प्रीतिवर्धनः ।
नियन्ता श्रमगोऽतीतः पोषणो विगतज्वरः ॥ ७४ ॥
प्रेमज्वरो विमानार्हः अर्थहा स्वप्ननाशनः ।
उत्तारणो नामपुण्यः पापपुण्यविवर्जितः ॥ ७५ ॥
अपराधहरः पाल्यः स्वस्तिदः स्वस्तिभूषणः ।
पूतात्मा पूतगः पूतः पूतभावो महास्वनः ॥ ७६ ॥
क्षेत्रज्ञः क्षेत्रविजयी क्षेत्रवासो जगत्प्रसूः ।
भयहा भयदो भास्वान् गौणभावसमन्वितः ॥ ७७ ॥
मण्डितो मण्डलकरो वैजयन्तीपवित्रकः ।
चित्राङ्गश्चित्रितश्चित्रो भक्तचित्तप्रकाशकः ॥ ७८ ॥
बुद्धिगो बुद्धिदो बुद्धिर्बुद्धिधृग् बुद्धिवर्धनः ।
प्रेमाद्रिधृक् प्रेमवहो रतिवोढ रतिस्पृशः ॥ ७९ ॥
प्रेमचक्षुः प्रेमगह्नः प्रेमहृत् प्रेमपूरकः ।
गम्भीरगो बहिर्वासो भावानुष्ठितगो पतिः ॥ ८० ॥

नैकरूपो नैकभावो नैकात्मा नैकरूपधृक् ।
श्लथसन्धिः क्षीणधर्मस्त्यक्तपाप उरुश्रवः ॥ ८१ ॥
उरुगाय उरुग्रीव उरुभाव उरुक्रमः ।
निर्धूतो निर्मलो भावो निरीहो निरनुग्रहः ॥ ८२ ॥
निर्धूमोऽग्निः सुप्रतापस्तीव्रतापो हुताशनः ।
एको महद्भूतव्यापी पृथग्भूतः अनेकशः ॥ ८३ ॥
निर्णयी निरनुज्ञातो दुष्टग्रामनिवर्तकः ।
विप्रबन्धुः प्रियो रुच्यो रोचकाङ्गो नराधिपः ॥ ८४ ॥
लोकाध्यक्षः सुवर्णाभः कनकाब्जः शिखामणिः ।
हेमकुम्भो धर्मसेतुर्लोकनाथो जगद्गुरुः ॥ ८५ ॥
लोहिताक्षो नामकर्मा भावस्थो हृद्गुहाशयः ।
रसप्राणो रतिज्येष्ठो रसाब्धिरतिराकुलः ॥ ८६ ॥
भावसिन्धुर्भक्तिमेघो रसवर्षी जनाकुलः ।
पीताब्जो नीलपीताभो रतिभोक्ता रसायनः ॥ ८७ ॥
अव्यक्तः स्वर्णराजीवो विवर्णी साधुदर्शनः ।
अमृत्युः मृत्युदोऽरुद्धः सन्धाता मृत्युवञ्चकः ॥ ८८ ॥
प्रेमोन्मत्तः कीर्तनर्त्तः सङ्कीर्तनपिता सुरः ।
भक्तिग्रामः सुसिद्धार्थः सिद्धिदः सिद्धिसाधनः ॥ ८९ ॥
प्रेमोदरः प्रेमवाहू लोकभर्ता दिशाम्पतिः ।
अन्तः कृष्णो बहिर्गौरो दर्शको रतिविस्तरः ॥ ९० ॥

सङ्कल्पसिद्धो वाञ्छात्मा अतुलः सच्छरीरभृत् ।
ऋड्धार्थः करुणापाङ्गो नदकृद् भक्तवत्सलः ॥ ९१ ॥
अमत्सरः परानन्दः कौपीनी भक्तिपोषकः ।
अकैतवो नाममाली वेगवान् पूर्णलक्षणः ॥ ९२ ॥
मिताशनो विवर्ताक्षो व्यवसाया व्यवस्थितः ।
रतिस्थानो रतिवनः पश्चात्तुष्टः शमाकुलः ॥ ९३ ॥
क्षोभणो विरभो मार्गो मार्गधृग् वर्त्मदर्शकः ।
नीचाश्रमी नीचमानी विस्तारो बीजमव्ययः ॥ ९४ ॥
मोहकायः सूक्ष्मगतिर्महेज्यः सत्त्रवर्धनः ।
सुमुखः स्वापनोऽनादिः सुकृत् पापविदारणः ॥ ९५ ॥
श्रीनिवासो गभीरात्मा श‍ृङ्गारकनकादृतः ।
गभीरो गहनो वेधा साङ्गोपाङ्गो वृषप्रियः ॥ ९६ ॥
उदीर्णरागो वैचित्री श्रीकरः स्तवनार्हकः ।
अश्रुचक्षुर्जलाब्यङ्ग पूरितो रतिपूरकः ॥ ९७ ॥
स्तोत्रायणः स्तवाध्यक्षः स्तवनीयः स्तवाकुलः ।
ऊर्ध्वरेतः सन्निवासः प्रेममूर्तिः शतानलः ॥ ९८ ॥
भक्तबन्धुर्लोकबन्धुः प्रेमबन्धुः शताकुलः ।
सत्यमेधा श्रुतिधरः सर्वशस्त्रभृतांवरः ॥ ९९ ॥
भक्तिद्वारो भक्तिगृहः प्रेमागारो निरोधहा ।
उद्घूर्णो घूर्णितमना आघूर्नितकलेवरः ॥ १०० ॥

भवभ्रान्तिजसन्देहः प्रेमराशिः शुचापहः ।
कृपाचार्यः प्रेमसङ्गो वयुनः स्थिरयौवनः ॥ १०१ ॥
सिन्धुगः प्रेमसङ्गाहः प्रेमवश्यो विचक्षणः ।
पद्मकिञ्जल्कसङ्काशः प्रेमादारो नियामकः ॥ १०२ ॥
विरक्तो विगतारातिर्नापेक्षो नारददृतः ।
नतस्थो दक्षिणः क्षामः शठजीवप्रतारकः ॥ १०३ ॥
नामप्रवर्तकोऽनर्थो धर्मोगुर्वादिपुरुषः ।
न्यग्रोधो जनको जातो वैनत्यो भक्तिपादपः ॥ १०४ ॥
आत्ममोहः प्रेमलीधः आत्मभावानुगो विराट् ।
माधुर्यवत् स्वात्मरतो गौरख्यो विप्ररूपधृक् ॥ १०५ ॥
राधारूपी महाभावी राध्यो राधनतत्परः ।
गोपीनाथात्मकोऽदृश्यः स्वाधिकारप्रसाधकः ॥ १०६ ॥
नित्यास्पदो नित्यरूपी नित्यभावप्रकाशकः ।
सुस्थभावश्चपलधीः स्वच्छगो भक्तिपोषकः ॥ १०७ ॥
सर्वत्रगस्तीर्थभूतो हृदिस्थः कमलासनः ।
सर्वभावानुगाधीशः सर्वमङ्गलकारकः ॥ १०८ ॥
इत्येतत्कथितं नित्यं साहस्रं नामसुन्दरम् ।
गोलोकवासिनो विष्णोर्गौररूपस्य शार्ङ्गिनः ॥ १०९ ॥
इदं गौरसहस्राख्याम् आमयघ्नं शुचापहम् ।
प्रेमभक्तिप्रदं नृणां गोविन्दाकर्षकं परम् ॥ ११० ॥
प्रातःकाले च मध्याह्ने सन्ध्यायां मध्यरात्रिके ।
यः पठेत्प्रयतो भक्त्या चैतन्ये लभते रतिम् ॥ १११ ॥
नामात्मको गौरदेवो यस्य चेतसि वर्तते ।
स सर्वं विषयं त्यक्त्वा भावानन्दो भवेद्ध्रुवम् ॥ ११२ ॥
यस्मै कस्मै न दातव्यम् दाने तु भक्तिहा भवेत् ।
विनीताय प्रशान्ताय गौरभक्ताय धीमते ॥ ११३ ॥
तस्मै देयं ततो ग्राह्यमिति वैष्णवशासनम् ॥
इति श्रीकविकर्णपूरविरचितम्
श्रीकृष्णचैतन्यचन्द्रस्य
सहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Krishna Chaitanya Chandrasya:

1000 Names of Sri Krishna Chaitanya Chandrasya | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Krishna Chaitanya Chandrasya | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top