Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Maha Tripura Sundari | Sahasranama Stotram Lyrics in Hindi

Shri Mahatripurasundari Sahasranamastotram Lyrics in Hindi:

॥ श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् ॥

अथ श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् ।

कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
कल्पपादपमध्यस्थे नानापुष्पोपशोभिते ।
मणिमण्डपमध्यस्थे मुनिगन्धर्वसेविते ।
तङ्कश्चित्सुखमासीनम्भगवन्तञ्जगद्गुरुम् ॥

कपालखट्वाङ्गधरञ्चन्द्रार्द्धकृतशेखरम् ।
त्रिशूलडमरूहस्तमहावृषभवाहनम् ॥

जटाजूटधरन्देववासुकीकण्ठभूषणम् ।
विभूतिभूषणन्देवन्नीलकण्ठन्त्रिलोचनम् ॥

द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् ।
सहस्रादित्यसङ्काशङ्गिरिजार्द्धाङ्गभूषणम् ॥

प्रणम्य शिरसा नाथङ्कारणविश्वरूपिणम् ।
कृताञ्जलिपुटो भूत्वा प्राहैनं शिखिवाहनः ॥

कार्तिकेय उवाच –
देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक ।
त्वमेव परमात्मा च त्वङ्गतिः सर्वदेहिनाम् ॥

त्वं गतिस्सर्वलोकानान्दीनानाञ्च त्वमेव हि ।
त्वमेव जगदाधारस्त्वमेष विश्वकारणः ॥

त्वमेव पूज्यस्सर्वेषान्त्वदन्यो नास्ति मे गतिः ।
किङ्गुह्यम्परमं लोके किमेकं सर्वसिद्धिदम् ॥

किमेकम्परमं श्रेष्ठङ्कि योगं स्वर्गमोक्षदम् ।
विना तीर्थेन तपसा विना दानैर्विना मखैः ॥

विना लयेन ध्यानेन नरः सिद्धिमवाप्नुयात् ।
कस्मादुत्पद्यते सृष्टिः कस्मिंश्च प्रलयो भवेत् ॥

कस्मादुत्तीर्यते देव संसारार्णवसङ्कटात् ।
तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ॥

ईश्वर उवाच –
साधु साधु त्वया पृष्टम्पार्वतीप्रियनन्दन ।
अस्ति गुह्यतमम्पुत्र कथयिष्याम्यसंशयम् ॥

सत्त्वं रजस्तमश्चैव ये चान्ये महदादयः ।
ये चान्ये बहवो भूताः सर्वप्रकृतिसम्भवाः ॥

सैव देवी पराशक्तिर्महात्रिपुरसुन्दरी ।
सैव प्रसूयते विश्वविश्वं सैव प्रयास्यति ॥

सैव संहरते विश्वञ्जगदेतच्चराचरम् ।
आधारस्सर्वभूतानां सैव रोगार्तिहारिणी ॥

इच्छाज्ञानक्रियाशक्तिर्बह्मविष्णुशिवादयः ।
त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी ।
सृज्यते ब्रह्मरूपेण विष्णुरूपेण पाल्यते ।
संहरेद्रुद्ररूपेण जगदेतच्चराचरम् ॥

यस्या योनौ जगत्सर्वमद्यापि परिवर्तते ।
यस्याम्प्रलीयते चान्ते यस्याञ्च जायते पुनः ।
यां समाराध्य त्रैलोक्यं सम्प्राप्तम्पदमुत्तमम् ।
तस्या नाम सहस्रन्तु कथयामि श‍ृणुष्व तत् ॥

ॐ अस्य श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रमन्त्रस्य
श्रीभगवान्दक्षिणामूर्तिरृषिः जगतीच्छन्दः
समस्तप्रकटगुप्तसम्प्रदायकुलकौलोत्तीर्णनिर्गर्भरहस्याचिन्त्यप्रभा
वती देवता ओम्बीजम् ॥ मायाशक्तिः कामराजबीजकीलकम् जीवो बीजम्
सुषुम्ना नाडी सरस्वती शक्तिर्धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥

आधारे तरुणार्कबिम्बरुचिरं हेमप्रभम्वाग्भवम्-
बीजं मन्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् ॥

विष्णुब्रह्मपदस्थशक्तिकलितं सोमप्रभाभासुर
ये ध्यायन्ति पदत्रयन्तव शिवे ते यान्ति सौख्यम्पदम् ॥

कल्याणी कमला काली कराली कामरूपिणी ।
कामाख्या कामदा काम्या कामना कामचारिणी ॥

कालरात्रिर्महारात्रिः कपाली कालरूपिणी ।
कौमारी करुणामुक्तिः कलिकल्मषनाशिनी ॥

कात्यायनी कराधारा कौमुदी कमलप्रिया ।
कीर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ॥

माहेश्वरी महामाया महातेजा महेश्वरी ।
महाजिह्वा महाघोरा महादंष्ट्रा महाभुजा ॥

महामोहान्धकारघ्नी महामोक्षप्रदायिनी ।
महादारिद्र्यनाशा च महाशत्रुविमर्द्दिनी ॥

महामाया महावीर्या महापातकनाशिनी ।
महामखा मन्त्रमयी मणिपूरकवासिनी ॥

मानसी मानदा मान्या मनश्चक्षू रणेचरा ।
गणमाता च गायत्री गणगन्धर्वसेविता ॥

गिरिजा गिरिशा साध्वी गिरिस्था गिरिवल्लभा ।
चण्डेश्वरी चण्डरूपा प्रचण्डा चण्डमालिनी ॥

चर्विका चर्चिकाकारा चण्डिका चारुरूपिणी ।
यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा ॥

यज्ञमाता यज्ञभोक्त्री यज्ञेशी यज्ञसम्भवा ।
सिद्धयज्ञक्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षिका ॥

यज्ञक्रिया यज्ञरूपा यज्ञाङ्गी यज्ञरक्षिका ।
यज्ञक्रिया च यज्ञा च यज्ञायज्ञक्रियालया ॥

जालन्धरी जगन्माता जातवेदा जगत्प्रिया ।
जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी ॥

गङ्गा गोदावरी चैव गोमती च शतद्रुका ।
घर्घरा वेदगर्भा च रेचिका समवासिनी ॥

सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती ।
भद्रा रागविपाशा च गण्डकी विन्ध्यवासिनी ॥

नर्मदा सिन्धु कावेरी वेत्रवत्या सुकौशिकी ।
महेन्द्रतनया चैव अहल्या चर्मकावती ॥

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती तीर्था महाकिल्बिषनाशिनीइ ॥

पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी ।
पद्मवक्त्रा चकोराक्षी पद्मस्था पद्मसम्भवा ॥

ह्रीङ्कारी कुण्डलीधारी हृत्पद्मस्था सुलोचना ।
श्रीङ्कारीभूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी ॥

हरिवक्त्रोद्भवा शान्ता हरिवक्त्रकृतालया ।
हरिवक्त्रोद्भवा शान्ता हरिवक्षस्थलस्थिता ॥

वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी ।
विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला ॥

विश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी ।
विश्वेश्वरी शिवाराध्या शिवनाथा शिवप्रिया ॥

शिवमाता शिवाख्या च शिवदा शिवरूपिणी ।
भवेश्वरी भवाराध्या भवेशी भवनायिका ॥

भवमाता भवगम्या भवकण्टकनाशिनी ।
भवप्रिया भवानन्दा भवानी भवमोहिनी ॥

गायत्री चैव सावित्री ब्रह्माणी ब्रह्मरूपिणी ।
ब्रह्मेशी ब्रह्मदा ब्रह्मा ब्रह्माणी ब्रह्मवादिनी ॥

दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी ।
सुगमा दुर्गमा दान्ता दया दोग्ध्री दुरापहा ॥

दुरितघ्नी दुराध्यक्षा दुरा दुष्कृतनाशिनी ।
पञ्चास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी ॥

सत्त्वस्था सत्त्वरूपा च सत्त्वस्था सत्त्वसम्भवा ।
रजस्स्था च रजोरूपा रजोगुणसमुद्भवा ॥

तमस्स्था च तमोरूपा तामसी तामसप्रिया ।
तमोगुणसमुद्भूता सात्त्विकी राजसी कला ॥

काष्ठा मुहूर्ता निमिषा अनिमेषा ततः परम् ।
अर्द्धमासा च मासा च सँवत्सरस्वरूपिणी ॥

योगस्था योगरूपा च कल्पस्था कल्परूपिणी ।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥

विश्वात्मिका विश्वमाता विश्वपाशविनाशिनी ।
विश्वासकारिणी विश्वा विश्वशक्तिविचारणा ॥

यवाकुसुमसङ्काशा दाडिमीकुसुमोपमा ।
चतुरङ्गी चतुर्बाहुश्चतुराचारवासिनी ॥

सर्वेशी सर्वदा सर्वा सर्वदा सर्वदायिनी ।
माहेश्वरी च सर्वाद्या शर्वाणी सर्वमङ्गला ॥

नलिनी नन्दिनी नन्दा आनन्दा नन्दवर्द्धिनी ।
व्यापिनी सर्वभूतेषु शवभारविनाशिनी ॥

सर्वश‍ृङ्गारवेषाढ्या पाशाङ्कुशकरोद्यता ।
सूर्यकोटिसहस्राभा चन्द्रकोटिनिभानना ॥

गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ।
दावाग्निकोटिनलिनी रुद्रकोट्युग्ररूपिणी ॥

समुद्रकोटिगम्भीरा वायुकोटिमहाबला ।
आकाशकोटिविस्तारा यमकोटिभयङ्करी ॥

मेरुकोटिसमुच्छ्राया गणकोटिसमृद्धिदा ।
निष्कस्तोका निराधारा निर्गुणा गुणवर्जिता ॥

अशोका शोकरहिता तापत्रयविवर्जिता ।
वसिष्ठा विश्वजननी विश्वाख्या विश्ववर्द्धिनी ।
चित्रा विचित्रचित्राङ्गी हेतुगर्भा कुलेश्वरी ।
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता ॥

शुचिः स्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया ।
महासत्त्वमयी सत्त्वा पञ्चतत्त्वोपरिस्थिता ॥

पार्वती हिमवत्पुत्री पारस्था पाररूपिणी ।
जयन्ती भद्रकाली च अहल्या कुलनायिका ॥

भूतधात्री च भूतेशी भूतस्था भूतभावना ।
महाकुण्डलिनी शक्तिर्महाविभववर्द्धिनी ॥

हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी ।
सोमसूर्याग्निमध्यस्था मणिमण्डलवासिनी ॥

द्वादशारसरोजस्था सूर्यमण्डलवासिनी ।
अकलङ्का शशाङ्काभा षोडशारनिवासिनी ॥

डाकिनी राकिनी चैव लाकिनी काकिनी तथा ।
शाकिनी हाकिनी चैव षट्चक्रेषु निवासिनी ॥

सृष्टिस्थितिविनाशाय सृष्टिस्थित्यन्तकारिणी ।
श्रीकण्ठप्रियहृत्कण्ठा नन्दाख्या बिन्दुमालिनी ॥

चतुष्षष्टिकलाधारा देहदण्डसमाश्रिता ।
माया काली धृतिर्मेधा क्षुधा तुष्टिर्महाद्युतिः ॥

हिङ्गुला मङ्गला सीता सुषुम्नामध्यगामिनी ।
परघोरा करालाक्षी विजया जयदायिनी ॥

हृत्पद्मनिलया भीममहाभैरवनादिनी ।
आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी ॥

महत्सूक्ष्मा च कङ्काली भीमरूपा महाबला ।
मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा ॥

अन्तरस्था कूटबीजा त्रिकूटाचलवासिनी ।
वर्णाख्या वर्णरहिता पञ्चाशद्वर्णभेदिनी ॥

विद्याधरी लोकधात्री अप्सरा अप्सरः प्रिया ।
दीक्षा दाक्षायणी दक्षा दक्षयज्ञविनाशिनी ॥

यशः पूर्णा यशोदा च यशोदागर्भसम्भवा ।
देवकी देवमाता च राधिका कृष्णवल्लभा ॥

अरुन्धती शचीन्द्राणी गान्धारी गन्धमालिनी ।
ध्यानातीता ध्यानगम्या ध्यानज्ञा ध्यानधारिणी ॥

लम्बोदरी च लम्बोष्ठी जाम्बवन्ती जलोदरी ।
महोदरी मुक्तकेशी मुक्तकामार्थसिद्धिदा ॥

तपस्विनी तपोनिष्ठा सुपर्णा धर्मवासिनी ।
वाणचापधरा धीरा पाञ्चाली पञ्चमप्रिया ॥

गुह्याङ्गी च सुभीमा च गुह्यतत्त्वा निरञ्जना ।
अशरीरा शरीरस्था संसारार्णवतारिणी ॥

अमृता निष्कला भद्रा सकला कृष्णपिङ्गला ।
चक्रप्रिया च चक्राह्वा पञ्चचक्रादिदारिणी ॥

पद्मरागप्रतीकाशा निर्मलाकाशसन्निभा ।
अधःस्था ऊर्द्ध्वरूपा च ऊर्द्ध्वपद्मनिवासिनी ॥

कार्यकारण कर्तृत्वे शश्वद्रूपेषु संस्थिता ।
रसज्ञा रसमध्यस्था गन्धस्था गन्धरूपिणी ॥

प्रब्रह्मस्वरूपा च परब्रह्मनिवासिनी ।
शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्जिता ॥

सिद्धिर्बुद्धिः पराबुद्धिः सन्दीप्तिर्मध्यसंस्थिता ।
स्वगुह्या शाम्भवीशक्तिस्तत्त्वस्था तत्त्वरूपिणी ॥

शाश्वती भूतमाता च महाभूताधिपप्रिया ।
शुचिप्रेता धर्मसिद्धिर्धर्मवृद्धिः पराजिता ॥

कामसन्दीपिणी कामा सदा कौतूहलप्रिया ।
जटाजूटधरा मुक्ता सूक्ष्मा शक्तिविभूषणा ॥

द्वीपिचर्मपरीधाना चीरवल्कलधारिणी ।
त्रिशूलडमरुधरा नरमालाविभूषणा ॥

अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा ।
त्रैलोक्यसाधिनी साध्या सिद्धिसाधकवत्सला ॥

सर्वविद्यामयी सारा चासुराणाविनाशिनी ।
दमनी दामनी दान्ता दया दोग्ध्री दुरापहा ॥

अग्निजिह्वोपमा घोरा घोरघोरतरानना ।
नारायणी नारसिंही नृसिंहहृदयेस्थिता ॥

योगेश्वरी योगरूपा योगमाता च योगिनी ।
खेचरी खचरी खेला निर्वाणपदसंश्रया ॥

नागिनी नागकन्या च सुवेशा नागनायिका ।
विषज्वालावती दीप्ता कलाशतविभूषणा ॥

तीव्रवक्त्रा महावक्त्रा नागकोटित्वधारिणी ।
महासत्त्वा च धर्मज्ञा धर्मातिसुखदायिनी ॥

कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा वरानना ।
सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी ॥

सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता ।
सर्वपीडोपशमनी सर्वारिष्टनिवारिणी ॥

सर्वैश्वर्यसमुत्पन्ना सर्वग्रहविनाशिनी ।
मातङ्गी मत्तमातङ्गी मातङ्गीप्रियमण्डला ॥

अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता ।
अमृतोदधिमध्यस्था प्रवालवसनाम्बुजा ॥

मणिमण्डलमध्यस्था ईषत्प्रहसितानना ।
कुमुदा ललिता लोला लाक्षा लोहितलोचना ॥

दिग्वासा देवदूती च देवदेवाधिदेवता ।
सिंहोपरिसमारूढा हिमाचलनिवासिनी ॥

अट्टाट्टहासिनी घोरा घोरदैत्यविनाशिनी ।
अत्युग्ररक्तवस्त्राभा नागकेयूरमण्डिता ॥

मुक्ताहारलतोपेता तुङ्गपीनपयोधरा ।
रक्तोत्पलदलाकारा मदाघूर्णितलोचना ॥

समस्तदेवतामूर्तिः सुरारिक्षयकारिणी ।
खड्गिनी शूलहस्ता च चक्रिणी चक्रमालिनी ॥

शङ्खिनी चापिनी वाणी वज्रिणी वज्रदण्डिनी ।
आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥

नानाभरणदीप्ताङ्गा नानामणिविभूषिता ।
जगदानन्दसम्भूता चिन्तामणिगुणान्विता ॥

त्रैलोक्यनमिता तुर्या चिन्मयानन्दरूपिणी ।
त्रैलोक्यनन्दिनी देवी दुःखसुस्स्वप्ननाशिनी ॥

घोराग्निदाहशमनी राज्यदेवार्थसाधिनी ।
महापराधराशिघ्नी महाचौरभयापहा ॥

रागादिदोषरहिता जरामरणवर्जिता ।
चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा ॥

सर्वदेवैः स्तुता देवी सर्वसिद्धैर्न्नमस्कृता ।
अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधी ॥

अस्तिस्वस्तिमयी बाला मलयाचलवासिनी ।
धात्री विधात्री संहारी रतिज्ञा रतिदायिनी ॥

रुद्राणी रुद्ररूपा च रुद्ररौद्रार्त्तिनाशिनी ।
सर्वज्ञा चैव धर्मज्ञा रसज्ञा दीनवत्सला ॥

अनाहता त्रिनयना निर्भारा निर्वृतिः परा ।
पराघोरा करालाक्षी सुमती श्रेष्ठदायिनी ॥

मन्त्रालिका मन्त्रगम्या मन्त्रमाला सुमन्त्रिणी ।
श्रद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका ॥

धरिणी धारिणी पृथ्वी धरा धात्री वसुन्धरा ।
मेरुमन्दरमध्यस्थास्थितिः शङ्करवल्लभा ॥

श्रीमती श्रीमयी श्रेष्ठा श्रीकरी भावभाविनी ।
श्रीदा श्रीमा श्रीनिवासा श्रीमती श्रीमताङ्गतिः ॥

उमा सारङ्गिणी कृष्णा कुटिला कुटिलालका ।
त्रिलोचना त्रिलोकात्मा पुण्यपुण्या प्रकीर्तिता ॥

अमृता सत्यसङ्कल्पा सासत्या ग्रन्थिभेदिनी ।
परेशी परमा साध्या पराविद्या परात्परा ॥

सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता ।
प्रजा प्रजावती धन्या धनधान्यसमृद्धिदा ॥

ईशानी भुवनेशानी भवानी भुवनेश्वरी ।
अनन्तानतमहिता जगत्सारा जगद्भवा ॥

अचिन्त्यात्मा चिन्त्यशक्तिश्चिन्त्याचिन्त्यस्वरूपिणी ।
ज्ञानगम्या ज्ञानमूर्तिर्ज्ञानिनी ज्ञानशालिनी ॥

असिता घोररूपा च सुधाधारा सुधावहा ।
भास्करी भास्वती भीतिर्भास्वदक्षानुशायिनी ॥

अनसूया क्षमा लज्जा दुर्लभा भरणात्मिका ।
विश्वघ्नी विश्ववीरा च विश्वघ्नी विश्वसंस्थिता ॥

शीलस्था शीलरूपा च शीला शीलप्रदायिनी ।
बोधनी बोधकुशला रोधनी बोधनी तथा ॥

विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा ।
विश्वयोनिर्महायोनिः कर्मयोनिः प्रियात्मिका ॥

रोहिणी रोगशमनी महारोगज्वरापहा ।
रसदा पुष्टिदा पुष्टिर्मानदा मानवप्रिया ॥

कृष्णाङ्गवाहिनी कृष्णा कृष्णाकृष्णसहोदरी ।
शाम्भवी शम्भुरूपा च शम्भुस्था शम्भुसम्भवा ॥

विश्वोदरी योगमाता योगमुद्राध्नयोगिनी ।
वागीश्वरी योगनिद्रा योगिनीकोटिसेविता ॥

कौलिका मन्दकन्या च श‍ृङ्गारपीठवासिनी ।
क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरी ॥

धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ।
पिनाकी रुद्रवेताली महावेतालरूपिणी ॥

तपिनी तापिनी दीक्षा विष्णुविद्यात्मनाश्रीता ।
मन्थरा जठरा तीव्रा अग्निजिह्वा भयापहा ॥

पशुघ्नी पशुरूपा च पशुहा पशुबाहिनी ।
पीता माता च धीरा च पशुपाशविनाशिनी ॥

चन्द्रप्रभा चन्द्ररेखा चन्द्रकान्तिविभूषिणी ।
कुङ्कुमाङ्कितसर्वाङ्गी सुधासद्गुरुलोचना ॥

शुक्लाम्बरधरा देवी वीणापुस्तकधारिणी ।
ऐरावतपद्मधारा श्वेतपद्मासनस्थिता ॥

रक्ताम्बरधरा देवी रक्तपद्मविलोचना ।
दुस्तरा तारिणी तारा तरुणी ताररूपिणी ॥

सुधाधारा च धर्मज्ञा धर्मसङ्गोपदेशिनी ।
भगेश्वरी भगाराध्या भगिनी भगनायिका ॥

भगबिम्बा भगक्लिन्ना भगयोनिर्भगप्रदा ।
भगेश्वरी भगाराध्या भगिनी भगनायका ॥

भगेशी भगरूपा च भगगुह्या भगावहा ।
भगोदरी भगानन्दा भगस्था भगशालिनी ॥

सर्वसङ्क्षोभिणी शक्तिस्सर्वविद्राविणी तथा ।
मालिनी माधवी माध्वी मधुरूपा महोत्कटा ॥

भरुण्डचन्द्रिका ज्योत्स्ना विश्वचक्षुस्तमोपहा ।
सुप्रसन्ना महादूती यमदूती भयङ्करी ॥

उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता ।
चैतन्यरूपिणी नित्या क्लिन्ना काममदोद्धता ॥

मदिरानन्दकैवल्या मदिराक्षी मदालसा ।
सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धसम्भवा ॥

सिद्धर्द्धिः सिद्धमाता च सिद्धिस्सर्वार्थसिद्धिदा ।
मनोमयी गुणातीता परञ्ज्योतिःस्वरूपिणी ॥

परेशी परगा पारा परासिद्धिः परागतिः ।
विमला मोहिनी आद्या मधुपानपरायणा ॥

वेदवेदाङ्गजननी सर्वशास्त्रविशारदा ।
सर्वदेवमयी विद्या सर्वशास्त्रमयी तथा ॥

सर्वज्ञानमयी देवी सर्वधर्ममयीश्वरी ।
सर्वयज्ञमयी यज्ञा सर्वमन्त्राधिकारिणी ॥

सर्वसम्पत्प्रतिष्ठात्री सर्वविद्राविणी परा ।
सर्वसङ्क्षोभिणी देवी सर्वमङ्गलकारिणी ॥

त्रैलोक्याकर्षिणी देवी सर्वाह्लादनकारिणी ।
सर्वसम्मोहिनी देवी सर्वस्तम्भनकारिणी ॥

त्रैलोक्यजृम्भिणी देवी तथा सर्ववशङ्करी ।
त्रैलोक्यरञ्जिनी देवी सर्वसम्पत्तिदायिनी ।
सर्वमन्त्रमयी देवी सर्वद्वन्द्वक्षयङ्करी ॥

सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदायिनी ।
सर्वप्रियकरी देवी सर्वमङ्गलकारिणी ॥

सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ।
सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ॥

सर्वाङ्गसुन्दरी माता सर्वसौभाग्यदायिनी ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ॥

सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥

सर्वानन्दमयी देवी सर्वेक्षायाःस्वरूपिणी ।
सर्वलक्ष्मीमयी विद्या सर्वेप्सितफलप्रदा ॥

सर्वारिष्टप्रशमनी परमानन्ददायिनी ।
त्रिकोणनिलया त्रिस्था त्रिमात्रा त्रितनुस्थिता ॥

त्रिवेणी त्रिपथा त्रिस्था त्रिमूर्तिस्त्रिपुरेश्वरी ।
त्रिधाम्नी त्रिदशाध्यक्षा त्रिवित्त्रिपुरवासिनी ॥

त्रयीविद्या च त्रिशिरा त्रैलोक्या च त्रिपुष्करा ।
त्रिकोटरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका ॥

त्रिपुराश्री त्रिजननी त्रिपुरा त्रिपुरसुन्दरी ।
इदन्त्रिपुरसुन्दर्याः स्तोत्रन्नाम सहस्रकम् ॥

गुह्याद्गुह्यतरम्पुत्र तव प्रीत्यै प्रकीर्तितम् ।
गोपनीयम्प्रयत्नेन पठनीयम्प्रयत्नतः ॥

नातः परतरम्पुण्यन्नातः परतरन्तपः ।
नातः परतरं स्तोत्रन्नातः परतरा गतिः ॥

स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिर्गतम् ।
यः पठेत्प्रयतो भक्त्या श‍ृणुयाद्वा समाहितः ॥

मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ।
कामांश्च प्राप्नुयात्कामी धनार्थी च लभेद्धनम् ॥

विद्यार्थी लभते विद्यायशोर्थी लभते यशः ।
कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् ॥

गुर्विणी जनयेत्पुत्रङ्कन्या विन्दति सत्पतिम् ।
मूर्खोऽपि लभते शास्त्रं हीनोऽपि लभते गतिम् ॥

सङ्क्रान्त्यावार्कामावस्यामष्टम्याञ्च विशेषतः ।
पौर्णमास्याञ्चतुर्द्दश्यान्नवम्याम्भौमवासरे ॥

पठेद्वा पाठयेद्वापि श‍ृणुयाद्वा समाहितः ।
स मुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत् ॥

लक्ष्मीवान्धर्मवांश्चैव वल्लभस्सर्वयोषिताम् ।
तस्य वश्यम्भवेदाशु त्रैलोक्यं सचराचरम् ॥

रुद्रन्दृष्ट्वा यथा देवा विष्णुन्दृष्ट्वा च दानवाः ।
यथाहिर्गरुडन्दृष्ट्वा सिंहन्दृष्ट्वा यथा गजाः ।
कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् ।
अग्निचौरभयन्तस्य कदाचिन्नैव सम्भवेत् ॥

पातका विविधाः शान्तिर्मेरुपर्वतसन्निभाः ।
यस्मात्तच्छृणुयाद्विघ्नांस्तृणवह्निहुतय्यथा ॥

एकदा पठनादेव सर्वपापक्षयो भवेत् ।
दशधा पठनादेव वाचा सिद्धिः प्रजायते ॥

शतधा पठनाद्वापि खेचरो जायते नरः ।
सहस्रदशसङ्ख्यातयः पठेद्भक्तिमानसः ॥

मातास्य जगतान्धात्री प्रत्यक्षा भवति ध्रुवम् ।
लक्षपूर्णे यथा पुत्र स्तोत्रराजम्पठेत्सुधीः ॥

भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।
सर्वतीर्थेषु यत्पुण्यं सकृज्जप्त्वा लभेन्नरः ॥

सर्ववेदेषु यत्प्रोक्तन्तत्फलम्परिकीर्तितम् ।
भूत्वा च बलवान्पुत्र धनवान्सर्वसम्पदः ॥

देहान्ते परमं स्थानयत्सुरैरपि दुर्लभम् ।
स यास्यति न सन्देहः स्तवराजस्य कीर्तनात् ॥

इति श्रीवामकेश्वरतन्त्रे हरकुमारसँवादे महात्रिपुरसुन्दर्याः
षोडश्याः सहस्रनामस्तोत्रं समाप्तम् ॥

Also Read 1000 Names of Sri Tripura Sundari:

1000 Names of Sri Maha Tripura Sundari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Maha Tripura Sundari | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top