1000 Names of Sri Garuda | Sahasranama Stotram Lyrics in Hindi
Garudasahasranama Stotram Lyrics in Hindi: ॥ श्रीगरुडसहस्रनामस्तोत्रम् ॥ श्रीकृष्णभट्टाचार्यप्रणीतम् । सर्ववेदबृहन्नीडसमारूढाय साक्षिणे । सामवेदस्वरूपाय गरुडाय नमो नमः ॥ अस्य श्री गरुडसहस्रनामस्तोत्र महामन्त्रस्य वासिष्ठ ऋषिः, मात्राश्छन्दांसि, सर्वाभीष्टप्रदायी भगवान्पक्षिराजो गरुडो देवता । var मोक्षराजो गरुडो देवता हलो बीजानि, स्वराश्शक्तयः, बिन्दवः कीलकानि, गरूडरूपिमहाविष्णुप्रीत्यर्थे जपे विनियोगः । गरुडात्मने अङ्गुष्ठाभ्यां नमः । वैनतेयाय तर्जनीभ्यां नमः । तार्क्ष्याय मध्यमाभ्यां नमः । […]