1000 Names of Sri Ganga | Sahasranama Stotram Lyrics in Hindi
Shri Gangasahasranama Stotram Lyrics in Hindi: ॥ श्रीगङ्गासहस्रनामस्तोत्रम् ॥ अकारादिक्षकारान्त नामघटितं स्कन्दपुराणान्तर्गतं अगस्त्य उवाच विना स्नानेन गङ्गायां नृणां जन्म निरर्थकम् । उपायान्तरमस्त्यन्यद् येन स्नानफलं लभेत् ॥ १ ॥ अशक्तानां च पङ्गूनामालस्योपहतात्मनाम् । दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेत् ॥ २ ॥ दानं वाथ व्रतं वाथ मन्त्रः स्तोत्रं जपोऽथवा । तीर्थान्तराभिषेको वा देवतोपासनं तु वा ॥ ३ ॥ […]