Matripanchakam Lyrics in Hindi॥ मातृपञ्चकम् ॥
मातृपञ्चकम् Lyrics in Hindi: सच्चिदानन्दतीर्थविरचितम् मातः सोऽहमुपस्तितोऽस्मि पुरतः पूर्वप्रतिज्ञां स्मरन् प्रत्यश्रावि पुराहि तेऽन्त्य समये प्राप्तुं समीपं तव । ग्राहग्रासमिषाद्यया ह्यनुमतस्तुर्याश्रमं प्राप्तुवान् यत्प्रीत्यै च समागतोऽहमधुना तस्यै जनन्यै नमः ॥ १॥ ब्रूते मातृसमा श्रुतिर्भगवती यद्बार्हदारण्यकै तत्त्वं वेत्स्यति मातृमांश्च पितृमानाचार्यवानित्यसौ । तत्रादौ किल मातृशिक्षणविधिं सर्वोत्तमं शासती पूज्यात्पूज्यतरां समर्थयति यां तस्यै जनन्यै नमः ॥ २॥ अम्बा तात इति स्वशिक्षणवशादुच्चारणप्रक्रियां […]