Templesinindiainfo

Best Spiritual Website

Yama Gita-s from Vishnu, Nrisimha, Agni Purana Lyrics in Hindi

Shri Yama Geetaa-s from Vishnu, Nrisimha, and Agni Purana in Hindi:

॥ श्रीविष्णु नृसिंह अथवा अग्निपुराणान्तर्गत यमगीता ॥

॥ अथ प्रारभ्यते विष्णुपुराणान्तर्गता यमगीता ॥

मैत्रेय उवाच –
यथावत्कथितं सर्वं यत्पृष्टोऽसि मया द्विज ।
श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ १ ॥

सप्तद्वीपानि पातालवीथ्यश्च सुमहामुने ।
सप्तलोका येऽन्तरस्था ब्रह्माण्डस्यस्य सर्वतः ॥ २ ॥

स्थूलैः सूक्ष्मैस्तथा स्थूलसूक्ष्मैः सूक्ष्मस्थूलैस्तथा ।
स्थूलास्थूलतरैश्चैतत्सर्वं प्राणिभिरावृतम् ॥ ३ ॥

अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम ।
न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ ४ ॥

सर्वे चैते वशं यान्ति यमस्य भगवन्किल ।
आयुषोऽन्तेन ते यान्ति यातनास्तत्प्रचोदिताः ॥ ५ ॥

यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु ।
जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ ६ ॥

सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः ।
न भवन्ति नरा येन तत्कर्म कथयामलम् ॥ ७ ॥

पराशर उवाच –
अयमेव मुने प्रश्नो नकुलेन महात्मना ।
पृष्टः पितामहः प्राह भीष्मो यत्तच्छ्रुणुष्व मे ॥ ८ ॥

भीष्म उवाच –
पुरा ममागतो वत्स सखा कालिंगको द्विजः ।
स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः ॥ ९ ॥

तेनाख्यातमिदं चेदमित्थं चैतद्भविष्यति ।
तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ १० ॥

स पृष्टश्च मया भूयः श्रद्दधानवता द्विजः ।
यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ ११ ॥

एकदा तु मया पृष्टं यदेतद्भवतोदितम् ।
प्राह कालिंगको विप्रः स्मृत्वा तस्य मुनेर्वचः ॥ १२ ॥

जातिस्मरेण कथितो रहस्यः परमो मम ।
यमकिंकरयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥ १३ ॥

कालिंग उवाच –
स्वपुरुषमभिवीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनं प्रपन्नान्
प्रभुरहमस्मि नृणां न वैष्णवानाम् ॥ १४ ॥

अहममरगणार्चितेन धात्रा
यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुवशगोऽस्मि न स्वतन्त्रः
प्रभवति संयमनि ममापि विष्णुः ॥ १५ ॥

कटकमुकुटकर्णिकादिभेदैः
कनकमभेदमपीष्यते यथैकम् ।
सुरपशुमनुजादिकल्पनाभि-
र्हरिरखिलाभिरुदीयते तथैकः ॥ १६ ॥

क्षितिजलपरमाणवोऽनिलान्ते
पुनरपि यान्ति यथैकतां धरित्र्या ।
सुरपशुमनुजादयस्तथान्ते
गुणकलुषेण सनातनेन तेन ॥ १७ ॥

हरिममरगणार्चितांघ्रिपद्मं
प्रणमति यः परमार्थतो हि मर्त्यः ।
तमथ गतसमस्तपापबन्धं
व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ १८ ॥

इति यमवचनं निशम्य पाशी
यमपुरुषमुवाच धर्मराजम् ।
कथय मम विभोः समस्तधातु-
र्भवति हरेः खलु यादृशोऽस्य भक्तः ॥ १९ ॥

यम उवाच –
न चलति निजवर्णधर्मतो
यः सममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न च हन्ति किंचिदुच्चैः
सितमनसं तमवेहि विष्णुभक्तम् ॥ २० ॥

कलिकलुषमलेन यस्य नात्मा
विमलमतेर्मलिनीकृतोऽस्तमोहे ।
मनसि कृतजनार्दनं मनुष्यं
सत्तमवेहि हरेरतीवभक्तम् ॥ २१ ॥

कनकमपि रहस्यवेक्ष्य बुद्ध्या
तृणमिव यः समवैति वै परस्वम् ।
भवति च भगवत्यनन्यचेताः
पुरुषवरं तमवेहि विष्णुभक्तम् ॥ २२ ॥

स्फटिकगिरिशिलामलः क्व विष्णु-
र्मनसि नृणां क्व च मत्सरादिदोषः ।
न हि तुहिनमयूखरश्मिपुञ्जे
भवति हुताशनदीप्तिजः प्रतापः ॥ २३ ॥

विमलमतिविमत्सरः प्रशान्तः
शुचिचरितोऽखिलसत्त्वमित्रभूतः ।
प्रियहितवचनोऽस्तमानमायो
वसति सदा हृदि तस्य वासुदेवः ॥ २४ ॥

वसति हृदि सनातने च तस्मिन्
भवतिपुमाञ्जगतोऽस्य सौम्यरूपः ।
क्षितिरसमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैव शालपोतः ॥ २५ ॥

यमनियमविधूतकल्मषाणा-
मनुदिनमच्युतसक्तमानसानाम् ।
अपगतमदमानमत्सराणां
व्रज भट दूरतरेण मानवानाम् ॥ २६ ॥

हृदि यदि भगवाननादिरास्ते
हरिरसिशंखगदाधरोऽव्ययात्मा ।
तदघमघविघातकर्तृभिन्नम्
भवति कथं सति वान्धकारमर्के ॥ २७ ॥

हरति परधनं निहन्ति जन्तून्
वदति तथानिशनिष्ठुराणि यश्च ।
अशुभजनितदुर्मदस्य पुंसः
कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ २८ ॥

न सहति परमं पदं विनिन्दां
कलुषमतिः कुरुते सतामसाधुः ।
न यजति न ददाति यश्च सन्तं
मनसि न तस्य जनार्दनोऽधमस्य ॥ २९ ॥

परमसुहृदि बान्धवे कलत्रे
सुततनयापितृमातृभृत्यवर्गे ।
शठमतिरुपयाति योऽर्थतृष्णां
तमधमचेष्टमवेहि नास्य भक्तम् ॥ ३० ॥

अशुभमतिरसत्प्रवृत्तिसक्तः
सततमनार्यविशालसंगमत्तः ।
अनुदिनकृतपापबन्धयत्नः
पुरुषपशुर्न हि वासुदेवभक्तः ॥ ३१ ॥

सकलमिदमहं च वासुदेवः
परमपुमान्परमेश्वरः स एकः ।
इति मतिरमला भवत्यनन्ते
हृदयगते व्रज तान्विहाय दूरात् ॥ ३२ ॥

कमलनयन वासुदेव विष्णो
धरणिधराच्युत शंखचक्रपाणे ।
भव शरणमितीरयन्ति ये वै
त्यज भट दूरतरेण तानपापान् ॥ ३३ ॥

वसति मनसि यस्य सोऽव्ययात्मा
पुरुषवरस्य न तस्य दृष्टिपाते ।
तव गतिरथवा ममास्ति चक्र-
प्रतिहतवीर्यवलस्य सोऽन्यलोक्यः ॥ ३४ ॥

कालिंग उवाच –
इति निजभटशासनाय देवो
रवितनयः स किलाह धर्मराजः ।
मम कथितमिदं च तेन तुभ्यं
कुरुवर सम्यगिदं मयापि चोक्तम् ॥ ३५ ॥

भीष्म उवाच –
नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना ।
कलिंगदेशादभ्येत्य प्रीयता सुमहात्मना ॥ ३६ ॥

मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् ।
यथा विष्णुमृते नान्यत्त्राणं संसारसागरे ॥ ३७
किंकरा दण्डपाशौ वा न यमो न च यातनाः ।
समर्थास्तस्य यस्यात्मा केशवालम्बनः सदा ॥ ३८ ॥

पराशर उवाच –
एतन्मुने तवाख्यातं गीतं वैवस्वतेन यत् ।
त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ३९ ॥

॥ इति विष्णुपुराणान्तर्गता यमगीता समाप्ता ॥

॥ अथ प्रारभ्यते नृसिंहपुराणान्तर्गता यमगीता ॥

व्यास उवाच –
मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः ।
स्वराज्ञस्तेऽनुनिर्वेशं गत्वा संचक्रुशुर्भृशम् ॥ १ ॥

मृत्युकिंकराः ऊचुः –
श‍ृणु राजन्वचोऽस्माकं तवाग्रे यद्ब्रवीमहे ।
त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥ २ ॥

ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तमः ।
तं ध्यायमानं कमपि देवमेवाग्रमानसम् ॥ ३ ॥

गन्तुं न शक्तास्तत्पार्श्वं वयं सर्वे महामते ।
यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः ॥ ४ ॥

वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः ।
अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः ॥ ५ ॥

एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् ।
अशक्ता वयमेवात्र मृत्युना सह वै प्रभो ॥ ६ ॥

तद्ब्रवीमि महाभाग यद्ब्रह्म ब्राह्मणस्य तु ।
देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् ॥ ७ ॥

व्यास उवाच –
इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते ।
ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ॥ ८ ॥

यम उवाच –
श‍ृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः ।
सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः ॥ ९ ॥

भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः ।
स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥ १० ॥

भृगुणोक्तेन मार्गेण स तेपे परमं तपः ।
हरिमाराध्य मेधावी जपन्वै द्वादशाक्षरम् ॥ ११ ॥

एकाग्रेणैव मनसा ध्यायते हृदि केशवम् ।
सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः ॥ १२ ॥

हरिध्यानमहादक्षा बलं तस्य महामुनेः ।
नान्यद्वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥ १३ ॥

हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले ।
पश्यन्तं विष्णुभूतं नु को हि स्यात्केशवाश्रयम् ॥ १४ ॥

तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् ।
अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥ १५ ॥

न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः ।
भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः ॥ १६ ॥

नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् ।
युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् ।
समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् ॥ १७ ॥

नरसिंहं महादेवं ये नराः पर्युपासते ।
तेषां पार्श्वं न गन्तव्यं युष्माभिर्मम शासनात् ॥ १८ ॥

व्यास उवाच –
स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् ।
यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥ १९ ॥

कृपया परया युक्तो विष्णुभक्त्या विशेषतः ।
जनस्यानुग्रहार्थाय तेनोक्ता चागिरः श‍ृणु ॥ २० ॥

नरके पच्यमानस्य यमेन परिभाषितम् ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ २१ ॥

उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥ २२ ॥

नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः ।
स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥ २३ ॥

इत्युक्त्वा नारकान्सर्वान्पुनराह स किंकरान् ।
वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः ॥ २४ ॥

नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः ।
अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् ॥ २५ ॥

तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् ।
शिक्षार्थं किंकराः सर्वे श‍ृणुत प्रणता हरेः ॥ २६ ॥

हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ २७ ॥

पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम ।
त्वामहं शरणं प्राप्त इति यस्तं समुद्धर ॥ २८ ॥

त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन ।
इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ २९ ॥

व्यास उवाच –
इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च ।
नारकाः कृष्ण कृष्णेति नारसिंहेति चुक्रुशुः ॥ ३० ॥

यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः ।
तथा तथा हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ॥ ३१ ॥

नारका ऊचुः –
नमो भगवते तस्मै केशवाय महात्मने ।
यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ ३२ ॥

भक्तप्रियाय देवाय रक्षाय हरये नमः ।
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ ३३ ॥

अनन्तायाप्रमेयाय नरसिंहाय ते नमः ।
नारायणाय गुरवे शंखचक्रगदाभृते ॥ ३४ ॥

वेदप्रियाय महते विक्रमाय नमो नमः ।
वाराहायाप्रतर्क्याय वेदांगाय महीभृते ॥ ३५ ॥

नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः ।
वामनाय बहुज्ञाय वेदवेदांगधारिणे ॥ ३६ ॥

बलिबन्धनदत्ताय वेदपालाय ते नमः ।
विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ३७ ॥

चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः ।
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥ ३८ ॥

रामाय रावणान्ताय नमस्तुभ्यं महात्मने ।
अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥ ३९ ॥

इति नृसिंहपुराणे यमगीताध्यायः ॥

॥ इति यमगीता समाप्ता ॥

॥ अथ प्रारभ्यते अग्निपुराणान्तर्गता यमगीता ॥

अग्निरुवाच –
यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे ।
पठतां श‍ृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनं सताम् ॥ १ ॥

यम उवाच –
आसनं शयनं यानपरिधानगृहादिकम् ।
वांछन्त्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥ २ ॥

भोगेषु शक्तिः सततं तथैवात्मावलोकनम् ।
श्रेयः परं मनुष्याणां कपिलोद्गीतमेव हि ॥ ३ ॥

सर्वत्र समदर्शित्वं निर्ममत्वमसंगता ।
श्रेयः परं मनुष्याणां गीतं पंचशिखेन हि ॥ ४ ॥

आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् ।
श्रेयः परं मनुष्याणां गंगाविष्णुप्रगीतकम् ॥ ५ ॥

आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया ।
श्रेयः परं मनुष्याणां जनकोद्गीतमेव च ॥ ६ ॥

अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः ।
तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतम् ॥ ७ ॥

कर्तवयमिति यत्कर्म ऋग्यजुःसामसंज्ञितम् ।
कुरुते श्रेयसे संगान् जैगीषव्येण गीयते ॥ ८ ॥

हानिः सर्वविधित्सानामात्मनः सुखहैतुकी ।
श्रेयः परं मनुष्याणां देवलोद्गीतमीरितम् ॥ ९ ॥

कामत्यागात्तु विज्ञानं सुखं ब्रह्मपरं पदम् ।
कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥ १० ॥

प्रवृत्तं च निवृत्तं च कार्यं कर्मपरोऽब्रवीत् ।
श्रेयसा श्रेय एतद्धि नैष्कर्म्य ब्रह्म तद्दहरिः ॥ ११ ॥

पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः ।
ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च ॥ १२ ॥

ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ।
तपसा लक्ष्यते सर्वं मनसा यद्यदिच्छति ॥ १३ ॥

नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् ।
नास्त्यारोग्यसमं धन्यं नास्ति गंगासमा सरित् ॥ १४ ॥

न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् ।
अधश्चोर्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥ १५ ॥

इत्येव संस्मरन्प्राणान्यस्त्यजेत्स हरिर्भवेत् ।
यत्तद्ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥ १६ ॥

अग्राह्यकमनिर्देश्यं सुप्रतीकं च यत्परम् ।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥ १७ ॥

यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम् ।
केचिद्विष्णुं हरं केचित्केचिद्ब्रह्माणमीश्वरम् ॥ १८ ॥

इन्द्रादिनामभिः केचित्सूर्यं सोमं च कालकम् ।
ब्रह्मादिस्तम्बपर्यन्तं जगद्विष्णुं वदन्ति च ॥ १९ ॥

स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः ।
सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥ २० ॥

ध्यानैर्व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥ २१ ॥

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥ ॥ २२ ॥

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।
यस्त्वविज्ञानवान्भवत्ययुक्येन मनसा सदा ॥ २३ ॥

न तत्पदमवाप्नोति संसारं चाधिगच्छति ।
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ॥ २४ ॥

स तत्पदमवाप्नोति यस्माद्भूयो न जायते ।
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ २५ ।
सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ॥ २६ ॥

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ २७ ॥

पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः ।
एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥ २८ ॥

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥ २९ ॥

ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ।
ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥ ३० ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाश्च नियमाः पंचं शौचं संतोषसत्तमः ॥ ३१ ॥

स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकम् ।
प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥ ३२ ॥

शुभे ह्येकत्र विषये चेतसो यत्प्रधारणम् ।
निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥ ३३ ॥

पौनः पुन्येन तत्रैव विषयेष्वेव धारणा ।
ध्यानं स्मृतं समाधिस्तु अहंब्रह्मात्मसंस्थितिः ॥ ३४ ॥

घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।
मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥ ३५ ॥

आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा ।
जीवो ह्यज्ञानतत्कार्यमुक्तः स्यादजरामरः ॥ ३६ ॥

अग्निरुवाच –
वसिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा ।
आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥ ३७ ॥

॥ इति अग्निपुराणान्तर्गता यमगीता समाप्ता ॥

Also Read:

Sri Yama Gita-s from Vishnu, Nrisimha, and Agni Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Yama Gita-s from Vishnu, Nrisimha, Agni Purana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top