Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bhavani | Sahasranama Stotram Lyrics in Hindi

Shri Bhavani Sahasranamastotram Lyrics in Hindi:

॥ श्रीभवानीसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।
कैलास शिखरे रम्ये देवदेवं महेश्वरम् ।
ध्यानोपरतमासीनं प्रसन्नमुखपङ्कजम् ॥ १ ॥

सुरासुरशिरोरत्नरञ्जिताङ्घ्रियुगं प्रभुम् ।
प्रणम्य शिरसा नन्दी बद्धाञ्जलिरभाषत ॥ २ ॥

श्रीनन्दिकेश्वर उवाच ।
देवदेव जगन्नाथ संशयोऽस्ति महान्मम ।
रहस्यमेकमिच्छामि प्रष्टुं त्वां भक्तवत्सल ॥ ३ ॥

देवतायास्त्वया कस्याः स्तोत्रमेतद्दिवानिशम् ।
पठ्यते निरतं नाथ त्वत्तः किमपरं महत् ॥ ४ ॥

इति पृष्टस्तदा देवो नन्दिकेन जगद्गुरुः ।
प्रोवाच भगवानीशो विकसन्नेत्रपङ्कजः ॥ ५ ॥

ईश्वर उवाच ।
साधु साधु गुणश्रेष्ठ पृष्टवानसि मां च यत् ।
स्कन्दस्यापि च यद्गोप्यं रहस्यं कथयामि तत् ॥ ६ ॥

पुरा कल्पक्षये लोकान्सिसृक्षुर्मूढचेतनः ।
गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता ॥ ७ ॥

तस्यामहं समुत्पन्नस्तत्वैस्तैर्महदादिभिः ।
चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्य तस्थुषी ॥ ८ ॥

हेतुस्सङ्कल्पजालस्य मनोधिष्ठायिनी शुभा ।
इच्छेति परमा शक्तिरुन्मिलति ततः परम् ॥ ९ ॥

ततो वागिति विख्याता शक्तिः शब्दमयी पुरा ।
प्रादुरासीज्जगन्माता वेदमाता सरस्वती ॥ १० ॥

ब्राह्मी च वैष्णवी सैन्द्री कौमारी पार्वती शिवा ।
सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी ॥ ११ ॥

तयैतत्सृज्यते विश्वमनाधारं च धार्यते ।
तयैतत्पाल्यते सर्वं तस्यामेव प्रलीयते ॥ १२ ॥

अर्चिता प्रणता ध्याता सर्वभावविनिश्चतैः ।
आराधिता स्तुता सैव सर्वसिद्धिप्रदायिनी ॥ १३ ॥

तस्याश्चानुग्रहादेव तामेव स्तुतवानहम् ।
सहस्रैर्नामर्भिर्दिव्यैस्त्रैलोक्य प्रणिपूजितैः ॥ १४ ॥

स्तवेनानेन सन्तुष्टा मामेव प्रतिवेश सा ।
तदारभ्य मया प्राप्तमैश्वर्यं पदमुत्तमम् ॥ १५ ॥

तत्प्रभावान्मया सृष्टं जगदेतच्चराचरम् ।
ससुरासुरगन्धर्वयक्षराक्षसमानवम् ॥ १६ ॥

सपन्नगं साच्छिकं च सशैलवनकाननम् ।
सराशिग्रहनक्षत्रं पञ्चभूतगुणान्वितम् ॥ १७ ॥

नन्दिन्नाम सहस्रेण स्तवेनानेन सर्वदा ।
स्तौम्यहं परापराशक्तिं ममानुग्रहकारिणीम् ॥ १८ ॥

इत्युक्त्वोपरतं देवं चराचरगुरुं विभुम् ।
प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम् ॥ १९ ॥

श्रीनन्दिकेश्वर उवाच ।
भगवन्देवदेवेश लोकनाथ जगत्पते ।
भक्तोऽस्मि तव दासोऽस्मि प्रसादः क्रियतां मयि ॥ २० ॥

देव्याः स्तवमिदं पुण्यं दुर्लभं यत्सुरैरपि ।
श्रोतुमिच्छाम्यहं देव प्रभावमपि चास्य तु ॥ २१ ॥

श‍ृणु नन्दिन्महाभाग स्तवराजमिमं शुभम् ।
सहस्रैर्नामर्भिर्दिव्यैः सिद्धिदं सुखमोक्षदम् ॥ २२ ॥

शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः ।
त्रिकालं श्रद्धया युक्तैर्नातः परतरः स्तव; ॥ २३ ॥

ॐ अस्यश्रीभवानीनामसहस्रस्तवराजस्य,
श्रीभगवान्महादेव ऋषिः ,अनुष्टुप्छन्दः,
आद्या शक्तिः श्रीभगवती भवानी देवता,
ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं,
श्रीभगवतीभवानीप्रीत्यर्थे जपे विनियोगः ।
अथ ध्यानम्
अर्धेन्दुमौलिममलाममराभिवन्द्यामम्भोजपाशसृणिरक्तकपालहस्ताम् ।
रक्ताङ्गरागरसनाभरणान्त्रिनेत्रान्ध्यायेच्छिवस्यवनितां विह्वलाङ्गीम् ॥ १ ॥

ॐ बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् ।
पाशाङ्कुशशरं चापं धारयन्तीं शिवां भजे ॥ २ ॥

ॐ महाविद्या जगन्माता महालक्ष्मीः शिवप्रिया ।
विष्णुमाया शुभा शान्ता सिद्धासिद्धसरस्वती ॥ १ ॥

क्षमा कान्तिः प्रभा ज्योत्स्ना पार्वती सर्वमङ्गला ।
हिङ्गुला चण्डिका दान्ता पद्मा लक्ष्मीर्हरिप्रिया ॥ २ ॥

त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता ।
यज्ञविद्या महामाया वेदमाता सुधाधृतिः ॥ ३ ॥

प्रीतिप्रदा प्रसिद्धा च मृडानी विन्ध्यवासिनी ।
सिद्धविद्या महाशक्तिः पृथिवी नारदसेविता ॥ ४ ॥

पुरुहूतप्रिया कान्ता कामिनी पद्मलोचना ।
प्रल्हादिनी महामाता दुर्गा दुर्गतिनाशिनी ॥ ५ ॥

ज्वालामुखी सुगोत्रा च ज्योतिः कुमुदवासिनी ।
दुर्गमा दुर्लभा विद्या स्वर्गतिः पुरवासिनी ॥ ६ ॥

अपर्णा शाम्बरी माया मदिरामृदुहासिनी ।
कुलवागीश्वरी नित्या नित्यक्लिन्ना कृशोदरी ॥ ७ ॥

कामेश्वरी च नीला च भिरुण्डा वह्रिवासिनी ।
लम्बोदरी महाकाली विद्याविद्येश्वरी तथा ॥ ८ ॥

नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी ।
सङ्कर्षिणी नारसिंही वैष्णवी च महोदरी ॥ ९ ॥

कात्यायनी च चम्पा च सर्वसम्पत्तिकारिणी ।
नारायणी महानिद्रा योगनिद्रा प्रभावती ॥ १० ॥

प्रज्ञा पारमिताप्राज्ञा तारा मधुमती मधुः ।
क्षीरार्णवसुधाहारा कालिका सिंहवाहना ॥ ११ ॥

ॐकारा च सुधाकारा चेतना कोपनाकृतिः ।
अर्धबिन्दुधराधारा विश्वमाता कलावती ॥ १२ ॥

पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती ।
कुण्डासना जगद्वात्री बुद्धमाता जिनेश्वरी ॥ १३ ॥

जिनमाता जिनेन्द्रा च शारदा हंसवाहना ।
राजलक्ष्मीर्वषट्कारा सुधाकारा सुधोत्सुका ॥ १४ ॥

राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती ।
सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्यपरायणा ॥ १५ ॥

सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती ।
गोदावरी विपाशा च कावेरी च शतह्रदा ॥ १६ ॥

सरयूश्चन्द्रभागा च कौशिकी गण्डकी शुचिः ।
नर्मदा कर्मनाशा च चर्मण्वती च वेदिका ॥ १७ ॥

वेत्रवती वितस्ता च वरदा नरवाहना ।
सती पतिव्रता साध्वी सुचक्षुः कुण्डवासिनी ॥ १८ ॥

एकचक्षुः सहस्राक्षी सुश्रोणिर्भगमालिनी ।
सेनाश्रोणिः पताका च सुव्यूहा युद्धकांक्षिणी ॥ १९ ॥

पताकिनी दयारम्भा विपञ्ची पञ्चमप्रिया ।
परा परकलाकान्ता त्रिशक्तिर्मोक्षदायिनी ॥ २० ॥

ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कमलासना ।
इच्छा भगवती शक्तिः कामधेनुः कृपावती ॥ २१ ॥

वज्रायुधा वज्रहस्ता चण्डी चण्डपराक्रमा ।
गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ॥ २२ ॥

एकानेका महेज्या च शत बाहुर्महाभुजा ।
भुजङ्गभूषणा भूषा षट्चक्राक्रमवासिनी ॥ २३ ॥

षट्चक्रभेदिनी श्यामा कायस्था कायवर्जिता ।
सुस्मिता सुमुखी क्षामा मूलप्रकृतिरीश्वरी ॥ २४ ॥

अजा च बहुवर्णा च पुरुषार्थप्रर्वतिनी ।
रक्ता नीला सिता श्यामा कृष्णा पीता च कर्बुरा ॥ २५ ॥

क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया ।
कला काष्ठा मुहूर्ता च निमिषा कालरूपिणी ॥ २६ ॥

सुवर्णरसना नासाचक्षुः स्पर्शवती रसा ।
गन्धप्रिया सुगन्धा च सुस्पर्शा च मनोगतिः ॥ २७ ॥

मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी ।
पद्मयोनिः सुकेशी च सुलिङ्गा भगरूपिणी ॥ २८ ॥

योनिमुद्रा महामुद्रा खेचरी खगगामिनी ।
मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता ॥ २९ ॥

मातङ्गी शुकहस्ता च पुष्पबाणेक्षुचापिनी ।
रक्ताम्बरधराक्षीबा रक्तपुष्पावतंसिनी ॥ ३० ॥

शुभ्राम्बरधरा धीरा महाश्वेता वसुप्रिया ।
सुवेणी पद्महस्ता च मुक्ताहारविभूषणा ॥ ३१ ॥

कर्पूरामोदनिःश्वासा पद्मिनी पद्ममन्दिरा ।
खड्गिनी चक्रहस्ता च भुशुण्डी परिघायुधा ॥ ३२ ॥

चापिनी पाशहस्ता च त्रिशूलवरधारिणी ।
सुबाणा शक्तिहस्ता च मयूरवरवाहना ॥ ३३ ॥

वरायुधधरा वीरा वीरपानमदोत्कटा ।
वसुधा वसुधारा च जया शाकम्भरी शिवा ॥ ३४ ॥

विजया च जयन्ती च सुस्तनी शत्रुनाशिनी ।
अन्तर्वती वेदशक्तिर्वरदा वरधारिणी ॥ ३५ ॥

शीतला च सुशीला च बालग्रहविनाशिनी ।
कौमारी च सुपर्णा च कामाख्या कामवन्दिता ॥ ३६ ॥

जालन्धरधरानन्ता कामरूपनिवासिनी ।
कामबीजवती सत्या सत्यमार्गपरायणा ॥ ३७ ॥

स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी ।
षट्कोणा च त्रिकोणा च त्रिनेत्रा त्रिपुरसुन्दरी ॥ ३८ ॥

वृषप्रिया वृषारूढा महिषासुरघातिनी ।
शुम्भदर्पहरा दीप्ता दीप्तपावकसन्निभा ॥ ३९ ॥

कपालभूषणा काली कपालामाल्यधारिणी ।
कपालकुण्डला दीर्घा शिवदूती घनध्वनिः ॥ ४० ॥

सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी ।
कम्बुग्रीवावसुमती छत्रच्छाया कृतालया ॥ ४१ ॥

जगद्गर्भा कुण्डलिनी भुजगाकारशायिनी ।
प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी ॥ ४२ ॥

मूलाधारा निराकारा वह्रिकुण्डकृतालया ।
वायुकुण्डसुखासीना निराधारा निराश्रया ॥ ४३ ॥

श्वासोच्छवासगतिर्जीवा ग्राहिणी वह्निसंश्रया ।
वल्लीतन्तुसमुत्थाना षड्रसा स्वादलोलुपा ॥ ४४ ॥

तपस्विनी तपःसिद्धि स्सप्तधा सिद्धिदायिनी ।
तपोनिष्ठा तपोयुक्ताः तापसी च तपःप्रिया ॥ ४५ ॥

सप्तधातुर्मयीर्मूतिः सप्तधात्वन्तराश्रया ।
देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्धता ॥ ४६ ॥

औषधी वैद्यमाता च द्रव्यशक्तिप्रभाविनी ।
वैद्या वैद्यचिकित्सा च सुपथ्या रोगनाशिनी ॥ ४७ ॥

मृगया मृगमांसादा मृगत्वङ् मृगलोचना ।
वागुराबन्धरूपा च बन्धरूपावधोद्धता ॥ ४८ ॥

बन्दी बन्दिस्तुता कारागारबन्धविमोचिनी ।
श‍ृङ्खला कलहा बद्धा दृढबन्धविमोक्षिणी ॥ ४९ ॥

अम्बिकाम्बालिका चाम्बा स्वच्छा साधुजर्नाचिता ।
कौलिकी कुलविद्या च सुकुला कुलपूजिता ॥ ५० ॥

कालचक्रभ्रमा भ्रान्ता विभ्रमाभ्रमनाशिनी ।
वात्याली मेघमाला च सुवृष्टिः सस्यर्वधिनी ॥ ५१ ॥

अकारा च इकारा च उकारौकाररूपिणी ।
ह्रीङ्कार बीजरूपा च क्लीङ्काराम्बरवासिनी ॥ ५२ ॥

सर्वाक्षरमयीशक्तिरक्षरा वर्णमालिनी ।
सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया ॥ ५३ ॥

वश्या च वश्यबीजा च लोकवश्यविभाविनी ।
नृपवश्या नृपैः सेव्या नृपवश्यकरप्रिया ॥ ५४ ॥

महिषा नृपमान्या च नृपान्या नृपनन्दिनी ।
नृपधर्ममयी धन्या धनधान्यविवर्धिनी ॥ ५५ ॥

चतुर्वर्णमयीमूर्तिश्चतुर्वणैंश्च पूजिता ।
सर्वधर्ममयीसिद्धि श्चतुराश्रमवासिनी ॥ ५६ ॥

ब्राह्मणी क्षत्रिया वैश्या शूद्रा चावरवर्णजा ।
वेदमार्गरता यज्ञा वेदिर्विश्वविभाविनी ॥ ५७ ॥

अनुशस्त्रमयी विद्या वरशस्त्रास्त्रधारिणी ।
सुमेधा सत्यमेधा च भद्रकाल्यपराजिता ॥ ५८ ॥

गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया ।
त्रिसन्ध्या त्रिपदी धात्री सुपर्वा सामगायिनी ॥ ५९ ॥

पाञ्चाली बालिका बाला बालक्रीडा सनातनी ।
गर्भाधारधराशून्या गर्भाशयनिवासिनी ॥ ६० ॥

सुरारिघातिनी कृत्या पूतना च तिलोत्तमा ।
लज्जा रसवती नन्दा भवानी पापनाशिनी ॥ ६१ ॥

पट्टाम्बरधरा गीतिः सुगीतिर्ज्ञानगोचरा ।
सप्तस्वरमयी तन्त्री षड्जमध्यमधैवता ॥ ६२ ॥

मूर्छना ग्रामसंस्थाना मूर्छा सुस्थानवासिनी ।
अट्टाट्टहासिनी प्रेता प्रेतासननिवासिनी ॥ ६३ ॥

गीतनृत्यप्रिया कामा तुष्टिदा पुष्टिदा क्षमा ।
निष्ठा सत्यप्रिया प्राज्ञा लोलाक्षी च सुरोत्तमा ॥ ६४ ॥

सविषा ज्वालिनी ज्वाला विश्वमोहार्तिनाशिनी ।
शतमारी महादेवी वैष्णवी शतपत्रिका ॥ ६५ ॥

विषारिर्नागदमनी कुरुकुल्ल्याऽमृतोद्भवा ।
भूतभीतिहरारक्षा भूतावेशविनाशिनी ॥ ६६ ॥

रक्षोघ्नी राक्षसी रात्रिर्दीर्घनिद्रा निवारिणी ।
चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी ॥ ६७ ॥

डाकिनी शाकिनी शिष्या हाकिनी चक्रवाकिनी ।
शीता शीतप्रिया स्वङ्गा सकला वनदेवता ॥ ६८ ॥

गुरुरूपधरा गुर्वी मृत्युर्मारी विशारदा ।
महामारी विनिद्रा च तन्द्रा मृत्युविनाशिनी ॥ ६९ ॥

चन्द्रमण्डलसङ्काशा चन्द्रमण्डलवासिनी ।
अणिमादिगुणोपेता सुस्पृअहा कामरूपिणी ॥ ७० ॥

अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी ।
अनादिनिधना पुष्टिश्चतुर्बाहुश्चतुर्मुखी ॥ ७१ ॥

चतुस्समुद्रशयना चतुर्वर्गफलप्रदा ।
काशपुष्पप्रतीकाशा शरत्कुमुदलोचना ॥ ७२ ॥

सोमसूर्याग्निनयना ब्रह्मविष्णुशिर्वार्चिता ।
कल्याणीकमला कन्या शुभा मङ्गलचण्डिका ॥ ७३ ॥

भूता भव्या भविष्या च शैलजा शैलवासिनी ।
वाममार्गरता वामा शिववामाङ्गवासिनी ॥ ७४ ॥

वामाचारप्रिया तुष्टिर्लोंपामुद्रा प्रबोधिनी ।
भूतात्मा परमात्मा भूतभावविभाविनी ॥ ७५ ॥

मङ्गला च सुशीला च परमार्थप्रबोधिनी ।
दक्षिईणा दक्षिणामूर्तिः सुदीक्षा च हरिप्रसूः ॥ ७६ ॥

योगिनी योगयुक्ता च योगाङ्ग ध्यानशालिनी ।
योगपट्टधरा मुक्ता मुक्तानां परमा गतिः ॥ ७७ ॥

नारस्ंइही सुजन्मा च त्रिवर्गफलदायिनी ।
धर्मदा धनदा चैव कामदा मोक्षदाद्युतिः ॥ ७८ ॥

साक्षिणी क्षणदा कांक्षा दक्षजा कूटरूपिणी ।
ऋअतुः कात्यायनी स्वच्छा सुच्छन्दा कविप्रिया ॥ ७९ ॥

सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा ।
मीनपुत्री सती साध्वी मैनाकभगिनी तडित् ॥ ८० ॥

सौदामिनी सुदामा च सुधामा धामशालिनी ।
सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवर्धिनी ॥ ८१ ॥

श्रीकृत्तिवसना चैव कङ्काली कलिनाशिनी ।
रक्तबीजवधोद्युक्ता सुतन्तुर्बीजसन्ततिः ॥ ८२ ॥

जगज्जीवा जगद्बीजा जगत्रयहितैषिणी ।
चामीकररुचिश्चन्द्री साक्षाद्या षोडशी कला ॥ ८३ ॥

यत्तत्पदानुबन्धा च यक्षिणी धनदार्चिता ।
चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी ॥ ८४ ॥

चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता ।
अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी ॥ ८५ ॥

उमा कलशहस्ता च पूर्णकुम्भपयोधरा ।
अभीरूर्भैरवी भीरू भीमा त्रिपुरभैरवी ॥ ८६ ॥

महाचण्डी च रौद्री च महाभैरवपूजिता ।
निर्मुण्डा हस्तिनीचण्डा करालदशनानना ॥ ८७ ॥

कराला विकराला च घोरा घुर्घुरनादिनी ।
रक्तदन्तोर्ध्वकेशी च बन्धूककुसुमारुणा ॥ ८८ ॥

कादम्बिनी विपाशा च काश्मीरी कुङ्कुमप्रिया ।
क्षान्तिर्बहुसुवर्णा च रतिर्बहुसुवर्णदा ॥ ८९ ॥

मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी ।
हंसा हंसगतिर्हंसी हंसोज्वलशिरोरुहा ॥ ९० ॥

पूर्णचन्द्रमुखी श्यामा स्मितास्या च सुकुण्डला ।
महिषी च लेखनी लेखा सुलेखा लेखकप्रिया ॥ ९१ ॥

शङ्खिनी शङ्खहस्ता च जलस्था जलदेवता ।
कुरुक्षेत्राऽवनिः काशी मथुरा काञ्च्यवन्तिका ॥ ९२ ॥

अयोध्या द्वारिका माया तीर्था तीर्थकरप्रिया ।
त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी ॥ ९३ ॥

कौशिकी च कुशावर्ता कौशाम्बी कोशवर्धिनी ।
कोशदा पद्मकोशाक्षी कौसुम्भकुसुमप्रिया ॥ ९४ ॥

तोतला च तुलाकोटिः कूटस्था कोटराश्रया ।
स्वयम्भूश्च सुरूपा च स्वरूपा पुण्यवर्धिनी ॥ ९५ ॥

तेजस्विनी सुभिक्षा च बलदा बलदायिनी ।
महाकोशी महावार्ता बुद्धिः सदसदात्मिका ॥ ९६ ॥

महाग्रहहरा सौम्या विशोका शोकनाशिनी ।
सात्विकी सत्वसंस्था च राजसी च रजोवृता ॥ ९७ ॥

तामसी च तमोयुक्ता गुणत्रयविभाविनी ।
अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी ॥ ९८ ॥

शङ्करा कल्पिनी कल्पा मनस्सङ्कल्पसन्ततिः ।
सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा ॥ ९९ ॥

सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिका ।
जाग्रतिश्च सुषुप्तिश्च स्वप्नावस्था तुरीयका ॥ १०० ॥

सत्वरा मन्दरा गतिर्मन्दा मन्दिरा मोददायिनी ।
मानभूमिः पानपात्रा पानदानकरोद्यता ॥ १०१ ॥

आधूर्णारूणनेत्रा च किञ्चिदव्यक्तभाषिणी ।
आशापुरा च दीक्षा च दक्षा दीक्षितपूजिता ॥ १०२ ॥

नागवल्ली नागकन्या भोगिनी भोगवल्लभा ।
सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी ॥ १०३ ॥

श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी ।
मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला ॥ १०४ ॥

सुनाभिर्यातनाजातिर्गम्भीरा भाववर्जिता ।
नागपाशधरामूर्तिरगाधा नागकुण्डला ॥ १०५ ॥

सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी ।
सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः ॥ १०६ ॥

मधुस्त्रवास्त्रवन्ती च भ्रामरी भ्रमरालिका ।
मातृमण्डलमध्यस्था मातृमण्डलवासिनी ॥ १०७ ॥

कुमार जननी क्रूरा सुमुखी ज्वरनाशिनी ।
निधाना पञ्चभूतानां भवसागरतारिणी ॥ १०८ ॥

अक्रूरा च ग्रहावती विग्रहा ग्रहवर्जिता ।
रोहिणी भूमिगर्मा च कालभूः कालवर्तिनी ॥ १०९ ॥

कलङ्करहिता नारी चतुःषष्ठ्यभिधावती ।
अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी ॥ ११० ॥

सर्वसौख्यवतीयुक्तिराहारपरिणामिनी ।
जीर्णा च जीर्णवस्रा च नूतना नववल्लभा ॥ १११ ॥

अजरा च रजःप्रीता रतिरागविवर्धिनी ।
पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा ॥ ११२ ॥

पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी ।
उदक्या च वृषस्यन्ती बहिः प्रस्रविणी त्र्यहा ॥ ११३ ॥

रजःशुक्रधरा शक्तिर्जरायुर्गर्भधारिणी ।
त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिस्त्रिपुरवासिनी ॥ ११४ ॥

अरागा शिवतत्त्वा च कामतत्वानुरागिणी ।
प्राच्यवाची प्रतीची च दिगुदीची च दिग्विदिग्दिशा ॥ ११५ ॥

अहङ्कृतिरहङ्कारा बाला माया बलिप्रिया ।
शुक्रश्रवा सामिधेनी सुश्रद्धा श्राद्धदेवता ॥ ११६ ॥

माता मातामही तृप्तिः पितुमाता पितामही ।
स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया ॥ ११७ ॥

स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी ।
शिशूत्सङ्गधरा दोला लोला क्रीडाभिनन्दिनी ॥ ११८ ॥

उर्वशी कदली केका विशिखा शिखिवर्तिनी ।
खट्वाङ्गधारिणी खट्व बाणपुङ्खानुवर्तिनी ॥ ११९ ॥

लक्ष्यप्राप्तिकरा लक्ष्यालध्या च शुभलक्षणा ।
वर्तिनी सुपथाचारा परिखा च खनिर्वुतिः ॥ १२० ॥

प्राकारवलया वेला मर्यादा च महोदधिः ।
पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा ॥ १२१ ॥

ललिता मांसला तन्वी वेदवेदाङ्गधारिणी ।
नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा ॥ १२२ ॥

अक्षक्रीडारतिः शारि शारिकाशुकभाषिणी ।
शाम्भरी गारुडीविद्या वारुणी वरुणार्चिता ॥ १२३ ॥

वाराही तुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा ।
मीनमूर्तिर्धरामूर्तिः वदान्याऽप्रतिमाश्रया ॥ १२४ ॥

अमूर्ता निधिरूपा च शालिग्रामशिलाशुचिः ।
स्मृतिसंस्काररूपा च सुसंस्कारा च संस्कृतिः ॥ १२५ ॥

प्राकृता देशभाषा च गाथा गीतिः प्रहेलिका ।
इडा च पिङ्गला पिङ्गा सुषुम्ना सूर्यवाहिनी ॥ १२६ ॥

शशिस्रवा च तालुस्था काकिन्यमृतजीविनी ।
अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिता ॥ १२७ ॥

स्थावरा जङ्गमाचैव कृतकर्मफलप्रदा ।
विषयाक्रान्तदेहा च निर्विशेषा जितेन्द्रिया ॥ १२८ ॥

चित्स्वरूपा चिदानन्दा परब्रह्मप्रबोधिनी ।
निर्विकारा च निर्वैरा विरतिः सत्यवर्द्धिनी ॥ १२९ ॥

पुरुषाज्ञा चा भिन्ना च क्षान्तिः कैवल्यदायिनी ।
विविक्तसेविनी प्रज्ञा जनयित्री च बहुश्रुतिः ॥ १३० ॥

निरीहा च समस्तैका सर्वलोकैकसेविता ।
शिवा शिवप्रिया सेव्या सेवाफलविवर्द्धिनी ॥ १३१ ॥

कलौ कल्किप्रिया काली दुष्टम्लेच्छविनाशिनी ।
प्रत्यञ्चा च धुनर्यष्टिः खड्गधारा दुरानतिः ॥ १३२ ॥

अश्वप्लुतिश्च वल्गा च सृणिः स्यन्मृत्युवारिणी ।
वीरभूर्वीरमाता च वीरसूर्वीरनन्दिनी ॥ १३३ ॥

जयश्रीर्जयदीक्षा च जयदा जयवर्द्धिनी ।
सौभाग्यसुभगाकारा सर्वसौभाग्यवर्द्धिनी ॥ १३४ ॥

क्षेमङ्करी क्षेमरूपा सर्त्कीत्तिः पथिदेवता ।
सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा ॥ १३५ ॥

सर्वसिद्धिप्रदा शक्तिः सर्वमङ्गलमङ्गला ।
पुण्यं सहस्रनामेदं शिवायाः शिवभाषितम् ॥ १३६ ॥

यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चापिश‍ृणुयान्नित्यं नरो निश्चलमानसः ॥ १३७ ॥

एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ।
सर्वदुःखविनिर्मुक्तो धनधान्यसमन्वितः ॥ १३८ ॥

तेजस्वी बलवाञ्छूरः शोकरोगविवर्जितः ।
यशस्वी कीर्तिमान्धन्यः सुभगो लोकपूजितः ॥ १३९ ॥

रूपवान्गुणसम्पन्नः प्रभावीर्यसमन्वितः ।
श्रेयांसि लभतेनित्यं निश्चलां च शुभां श्रियम् ॥ १४० ॥

सर्वपापविनिर्मुक्तो लोभक्रोध विवर्जितः ।
नित्यं बन्धुसुतैर् दारैः पुत्रपौत्रैर्महोत्सवैः ॥ १४१ ॥

नन्दितः सेवितो भृत्यैर्बहुभिः शुद्धमानसैः ।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे । ॥ १४२ ॥

वैश्यस्तुधनलाभाढ्यः शूद्रश्चसुखमेधते ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ १४३ ॥

इच्छाकामं तु कामार्थी धर्मार्थी धर्ममक्षयम् ।
कन्यार्थी लभते कन्यां रूपशीलगुणन्विताम् ॥ १४४ ॥

क्षेत्रं च बहुशस्यं स्याद्गावस्तु बहुदुग्धदाः ।
नाशुभं नापदस्तस्य न भयं नृपशत्रुभिः ॥ १४५ ॥

जायते ना शुभाबुद्धिर्लभते कुलधुर्यताम् ।
न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ॥ १४६ ॥

न पिशाचो न डाकिन्यो भूतव्यन्तरजृम्भिकाः ।
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥ १४७ ॥

द्वन्द्वानां प्रीतिभेदे च मैत्रीकरणमुत्तमम् ।
लोहपाशैर्दृढैर्बद्धो बद्धो वेश्मनि दुर्गमे ॥ १४८ ॥

तिष्ठन् श‍ृण्वन्पठेन्मर्त्यो मुच्यते नात्र संशयः ।
न दाराणां न पुत्राणां न बन्धूनां न मित्रजम् ॥ १४९ ॥

पश्यन्ति नहि ते शोकं हि वियोगं चिरजीविताम् ।
अन्धस्तु लभते दृष्टिं चक्षुरोगैर्नबाध्यते ॥ १५० ॥

बधिरः श्रुतिमाप्नोति मूको वाचं शुभान्नरः ।
एतद्गर्भा च या नारी स्थिरगर्भा प्रजायते ॥ १५१ ॥

स्रावणी बद्धगर्भा च सुखमेवप्रसूयते ।
कुष्ठिनः शीर्णदेहा ये गतकेशनखत्वचः ॥ १५२ ॥

पठनाच्छ्रवणा द्वापि दिव्यकाया भवन्ति ते ।
ये पठन्ति शतावर्तं शुचिष्मन्तो जितेन्द्रियाः ॥ १५३ ॥

अपुत्राः प्राप्नुयुः पुत्रान् श‍ृण्वन्तोऽपि न संशयः ।
महाव्याधि परिग्रस्तास्तप्ता ये विविधैर्ज्वरैः ॥ १५४ ॥

भूताभिषङ्ग सङ्घातैश्चार्तुथिक तृतीयकैः ।
अन्यैश्च दारुणैरोगैः पीड्यमानाश्च मानवाः ॥ १५५ ॥

गतबाधाः प्रजायन्ते मुक्तास्तेतैर्नसंशयः ।
श्रुतिग्रन्थधरोबालो दिव्यवादी कवीश्वरः ॥ १५६ ॥

पठनाच्छ्रवणाद्वापि भवत्येव न संशयः ।
अष्टम्यां वा चतुर्दश्यां नवम्यां चैकचेतसः ॥ १५७ ॥

ये पठन्ति सदाभक्त्या न ते वै दुःखभागिनः ।
नवरात्रं जिताहारो दृढभक्तिर्जिन्तेन्द्रियः ॥ १५८ ॥

चण्डिकायतने विद्वान्च्छुचिष्मान् मूर्तिसन्निधौ ।
एकाकी च शतावर्तं पठन्धीरश्च निर्भयः ॥ १५९ ॥

साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम् ।
सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ १६० ॥

पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ।
दशावर्तं पठेन्नित्यं भूमिशायी नरः शुचिः ॥ १६१ ॥

स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति ।
आवर्तन सहस्रैर्ये पठन्ति पुरुषोत्तमाः ॥ १६२ ॥

ते सिद्धाः सिद्धिदा लोके शापानुग्रहणे क्षमाः ।
कवित्वं संस्कृतेतेषां शास्राणां व्याकृतौ ततः ॥ १६३ ॥

शक्तिः प्रोन्मील्यते शास्त्रेष्वनधीतेषु भारती ।
नखरागशिरोरत्नद्विगुणीकृतरोचिषः ॥ १६४ ॥

प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः ।
रोचनालिखितं भूर्जें कुङ्कुमेन शुभे दिने ॥ १६५ ॥

धारयेद्यन्त्रितं देहे पूजयित्वा कुमारिकाम् ।
विप्राञ्श्च वरनारीश्च धूपैः कुसुमचन्दनैः ॥ १६६ ॥

क्षीरखण्डाज्य भोज्यैश्च पूजयित्वा सुभूषिताः ।
विधाय मातृका न्यासं अङ्गन्यास पुरस्सरम् ॥ १६७ ॥

भूतशुद्धि समोपैतं श‍ृङ्खला न्यासमाचरेत् ।
यथावदाशासम्बद्धः साधकः प्रीति संयुतः ॥ १६८ ॥

मूलमन्त्रं जपेद्वीमान् परया संयुतोधिया ।
प्रणवं पूर्वमुद्धृत्य रमाबीजमनुस्मरन् ॥ १६९ ॥

माया कामौ समुच्चार्य पुनर्जायां विभावसोः ।
बध्नन्तिये महारक्षां बालानां च विशेषतः ॥ १७० ॥

भवन्ति नृप पूज्यास्ते कीर्तिभाजो यशस्विनः ।
शत्रुतो न भयंतेषां दुर्जनेभ्यो न राजतः ॥ १७१ ॥

न च रोगो न वै दुःख न दारिद्र्यं न दुर्गतिः ।
महार्णवे महानद्यां स्थितेऽपि च नभीः क्वचित् ॥ १७२ ॥

रणे द्युते विवादे च विजयं प्राप्नुवन्ति ते ।
नृपाश्च वश्यतां यान्ति नृपमान्याश्च ये नराः ॥ १७३ ॥

सर्वत्र पूजिता लोके बहुमानपुरस्सराः ।
रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ॥ १७४ ॥

यौवनाक्रान्तदेहा स्ताः श्रयन्ते वामलोचनाः ।
लिखितं मूर्ध्निकण्ठे वा धारयेद्यो रणे शुचिः ॥ १७५ ॥

शतधायुध्यमानं तु प्रतियोद्धा न पश्यति ।
केतौ वा दुन्दुभौ येषां निबद्धं लिखितं रणे ॥ १७६ ॥

महासैन्ये परित्रस्तान्कान्दिशीकान्हतौजसः ।
विचेतनान्विमूढांश्च शत्रुकृत्यविवर्जितान् ॥ १७७ ॥

निर्जित्य शत्रुसङ्घास्ते लभन्ते विजयं ध्रुवम् ।
नाभिचारो ने शापश्च बाणवीरादिकीलनम् ॥ १७८ ॥

डाकिनी पूतनाकृत्या महामारी च शाकिनी ।
भूतप्रेत पिशाचाश्च रक्षांसि व्यन्तरादयः ॥ १७९ ॥

न विशन्ति गृहे देहे लिखितं यत्रतिष्ठति ।
न शस्त्रानलतोयौघैर्भयं तस्योपजायते ॥ १८० ॥

दुर्वृत्तानां च पापानां बलहानिकरं परम् ।
मन्दुराकरिशालासु गवां गोष्ठे समाहितः ॥ १८१ ॥

पठेत्तद्दोषशान्त्यर्थं कूटं कपटनाशिनी ।
यमदूतान्न पश्यन्ति न ते निरययातनाम् ॥ १८२ ॥

प्राप्नुवन्त्यक्षयं शान्तं शिवलोकं सनातनम् ।
सर्वबाधा सुघोराषु सर्वदुःखनिवारणम् ॥ १८३ ॥

सर्वमङ्गलकं स्वर्ग्यं पठितव्यं समाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १८४ ॥

पुण्यं सहस्रनामेदमम्बाया रुद्रभाषितम् ।
चतुर्वर्गप्रदं सत्यं नन्दिकेन प्रकाशितम् ॥ १८५ ॥

नातः परतरो मन्त्रो नातः परतरः स्तवः ।
नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ १८६ ॥

तेधन्याः कृतपुण्यास्ते त एव भुवि पूजिताः ।
एकवारं मुदा नित्यं येऽर्चयन्ति महेश्वरीम् ॥ १८७ ॥

देवतानां देवताया ब्रह्माद्यैर्या च पूजिता ।
भूयात्सा वरदा लोके साधूनां विश्वमङ्गला ॥ १८८ ॥

एतामेव पुराराद्यां विद्यां त्रिपुरभैरवीम् ।
त्रैलोक्यमोहिनीरूपामकार्षीद्भगवान्हरिः ॥ १८९ ॥

॥ इति श्रीरुद्रयामलेतन्त्रे नन्दिकेश्वरसंवादे महाप्रभावी
भवानीनामसहस्रस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Bhavani:

1000 Names of Sri Bhavani | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bhavani | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top