Templesinindiainfo

Best Spiritual Website

108 Names of Ramanuja | Ashtottara Shatanamavali Lyrics in Hindi

Sri Ramanuja Ashtottarashata Namavali Lyrics in Hindi:

॥ रामानुजाष्टोत्तरशतनामावलिः ॥
ॐ रामानुजाय नमः । पुष्कराक्षाय । यतीन्द्राय । करुणाकराय ।
कान्तिमत्यात्मजाय । श्रीमते । लीलामानुषविग्रहाय ।
सर्वशास्त्रार्थतत्त्वज्ञाय । सर्वज्ञाय । सज्जनप्रियाय ।
नारायणकृपापात्राय । श्रीभूतपुरनायकाय । अनघाय । भक्तमन्दाराय ।
केशवानन्दवर्धनाय । काञ्चिपूर्णप्रियसखाय । प्रणतार्तिविनाशकाय ।
पुण्यसङ्कीर्तनाय । पुण्याय । ब्रह्मराक्षसमोचकाय नमः ॥ २० ॥

ॐ यादवपादितापार्थवृक्षछेदकुठारकाय नमः ।
अमोघाय । लक्ष्मणमुनये । शारदाषोकनाशनाय ।
निरन्तरजनाज्ञानविमोचनविचक्षणाय । वेदान्तद्वयसारज्ञाय ।
वरदाम्बुप्रदायकाय । पराभिप्रायतत्त्वज्ञाय । यामुनाङ्गुलिमोचकाय ।
देवराजकृपालब्धषड्वाक्यार्थमहोदधये । पूर्णार्यलब्धसन्मन्त्राय ।
शौरिपादाब्जषट्पदाय । त्रिदण्डधारिणे । ब्रह्मज्ञाय ।
ब्रह्मज्ञानपरायणाय । रङ्गेशकैङ्कर्यरथाय ।
विभूतिद्वयनायकाय । गोष्ठिपूर्णकृपालब्धमन्त्रराजप्रकाशकाय ।
वररङ्गानुकम्पात्तद्राविडाम्नायपारगाय ।
मालाधरार्यसुज्ञातद्राविडाम्नायतत्त्वधिये नमः ॥ ४० ॥

ॐ चतुस्सप्तशिष्याढ्याय नमः । पञ्चाचार्यपदाश्रयाय ।
प्रपीतविषतीर्थाम्बुप्रकटीकृतवैभवाय ।
प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनाय । पवित्रीकृतकूरेशाय ।
भागिनेयत्रिदण्डकाय । कूरेशदाशरथ्यादिचरमार्थप्रकाशकाय ।
रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवाय । देवराजार्चनरताय ।
मूकमुक्तिप्रदायकाय । यज्ञमूर्तिप्रतिष्ठात्रे । मन्नाथाय ।
धरणीधराय । वरदाचार्यसद्भक्ताय । यज्ञेशार्तिविनाशकाय ।
अनन्ताभिष्टफलदाय । विट्टलेशप्रपूजिताय ।
श्रीशैलपूर्णकरुणालब्धरामायणार्थकाय । प्रपत्तिधर्मैकरताय ।
गोविन्दार्यप्रियानुजाय नमः ॥ ६० ॥

ॐ व्याससूत्रार्थतत्त्वज्ञाय नमः । बोधायनमतानुगाय ।
श्रीभाष्यादिमहाग्रन्थकारकाय । कलिनाशनाय । अद्वैतमतविच्छेत्रे ।
विशिष्टाद्वैतपारगाय । कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशिकाय ।
विनाशितेतरमताय । शेषीकृतरमापतये । पुत्रीकृत शठारातये ।
शठजिते । ऋणमोचकाय । भाषादत्तहयग्रीवाय । भाष्यकाराय ।
महायशसे । पवित्रीकृतभूभागाय । कूर्मनाथप्रकाशकाय ।
श्रीवेङ्कटाचलाधीश-शङ्खचक्रप्रदायकाय ।
श्रीवेङ्कटेशश्वशुराय । श्रीरामसकखदेशिकाय नमः ॥ ८० ॥

ॐ कृपामात्रप्रसन्नार्याय नमः । गोपिकामोक्षदायकाय ।
समीचीनार्यसच्छिष्यसत्कृताय । वैष्णवप्रियाय ।
कृमिकाण्टनृपध्वंसीने । सर्वमन्त्रमहोदधये ।
अङ्गीकृतान्ध्रपूर्णार्याय । शालग्रामप्रतिष्ठिताय ।
श्रीभक्तग्रामपूर्णेशाय । विष्णुवर्धनरक्षकाय ।
बौद्धध्वान्तसहस्रांशवे । शेषरूपप्रदर्शकाय ।
नगरीकृतवेदाद्रये । दिल्लीश्वरसमर्चिताय । नारायणप्रतिष्ठात्रे ।
सम्पत्पुत्रविमोचकाय । सम्पत्कुमारजनकाय । साधुलोकशिखामणये ।
सुप्रतिष्ठितगोविन्दराजाय । पूर्णमनोरथाय नमः ॥ १०० ॥

ॐ गोदाग्रजाय नमः । दिग्विजेत्रे । गोदाभीष्टप्रपूरकाय ।
सर्वसंशयविच्छेत्रे । विष्णुलोकप्रदायकाय । अव्याहतमहद्वर्त्मने ।
यतिराजाय । जगद्गुरवे नमः ॥ १०८ ॥

इति रामानुजाष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Shri Ramanuja:

108 Names of Ramanuja | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Ramanuja | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top