Shri Hanumada Ashtottara Shatanama Stotram 2 Lyrics in Hindi | Hanuman Slokam
Sri Hanumada Ashtottara Shatanama Stotram 2 Lyrics in Hindi: ॥ श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् २ ॥ (पाञ्चरात्रागमतः) रामदासाग्रणीः श्रीमान् हनूमान् पवनात्मजः । आञ्जनेयः कपिश्रेष्ठः केसरीप्रियनन्दनः ॥ १ ॥ आरोपितांसयुगलरामरामानुजः सुधीः । सुग्रीवसचिवो वालिजितसुग्रीवमाल्यदः ॥ २ ॥ रामोपकारविस्मर्तृसुग्रीवसुमतिप्रदः । सुग्रीवसत्पक्षपाती रामकार्यसुसाधकः ॥ ३ ॥ मैनाकाश्लेषकृन्नागजननीजीवनप्रदः । सर्वदेवस्तुतः सर्वदेवानन्दविवर्धनः ॥ ४ ॥ छायान्त्रमालाधारी च छायाग्रहविभेदकः । सुमेरुसुमहाकायो गोष्पदीकृतवारिधिः ॥ बिडालसदृशाकारस्तप्तताम्रसमाननः […]