Templesinindiainfo

Best Spiritual Website

Shadja Gita Lyrics in Hindi

Shadja Geetaa in Hindi:

॥ षड्जगीता ॥
अध्यायः १६१
व्
इत्युक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः ।
पप्रच्छावसरं गत्वा भ्रातॄन्विदुर पञ्चमान् ॥ १ ॥

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ २ ॥

कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै ।
सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥ ३ ॥

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।
जगाद विरुदो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ ४ ॥

बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥ ५ ॥

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ ६ ॥

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ॥ ७ ॥

धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते ।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ।
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ॥ ८ ॥

समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः ।
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः ॥ ९ ॥

कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते ।
कृषिवाणिज्य गोरक्ष्यं शिल्पानि विविधानि च ॥ १० ॥

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ॥ ११ ॥

विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् ।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ १२ ॥

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ॥ १३ ॥

उद्भूतार्थं हि पुरुषं विशिष्टतर योनयः ।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ १४ ॥

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १५ ॥

काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः ।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ १६ ॥

अर्थार्थिनः सन्ति के चिदपरे स्वर्गकाङ्क्षिणः ।
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ॥ १७ ॥

आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।
अप्रज्ञानं तमो भूतं प्रज्ञानं तु प्रकाशता ॥ १८ ॥

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् ।
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् ।
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥ १९ ॥

ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।
नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥ २० ॥

आसीनश्च शयानश्च विचरन्नपि च स्थितः ।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ २१ ॥

अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय ।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ २२ ॥

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।
मध्विवामृत संयुक्तं तस्मादेतौ मताविह ॥ २३ ॥

अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः ।
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥ २४ ॥

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ॥ २५ ॥

धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् ।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ २६ ॥

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥ २७ ॥

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ २८ ॥

कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।
पलाशफलमूलाशा वायुभक्षाः सुसंयताः ॥ २९ ॥

वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः ।
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ ३० ॥

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।
दैवकर्म कृतश्चैव युक्ताः कामेन कर्मसु ॥ ३१ ॥

समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः ।
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥ ३२ ॥

नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् ।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ ३३ ॥

नव नीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः ॥ ३४ ॥

श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः ।
पुष्पितो मध्विव रसः कामात्सञ्जायते सुखम् ॥ ३५ ॥

सुचारु वेषाभिरलङ्कृताभिर्
मदोत्कटाभिः प्रियवादिनीभिः ।
रमस्व योषाभिरुपेत्य कामं
कामो हि राजंस्तरसाभिपाती ॥ ३६ ॥

बुद्धिर्ममैषा परिषत्स्थितस्य
मा भूद्विचारस्तव धर्मपुत्र ।
स्यात्संहितं सद्भिरफल्गुसारं
समेत्य वाक्यं परमानृशंस्यम् ॥ ३७ ॥

धर्मार्थकामाः सममेव सेव्या
यस्त्वेकसेवी स नरो जघन्यः ।
द्वयोस्तु दक्षं प्रवदन्ति मध्यं
स उत्तमो यो निरतिस्त्रिवर्गे ॥ ३८ ॥

प्राज्ञः सुहृच्चन्दनसारलिप्तो
विचित्रमाल्याभरणैरुपेतः ।
ततो वचः सङ्ग्रहविग्रहेण
प्रोक्त्वा यवीयान्विरराम भीमः ॥ ३९ ॥

ततो मुहूर्तादथ धर्मराजो
वाक्यानि तेषाम् अनुचिन्त्य सम्यक् ।
उवाच वाचावितथं स्मयन्वै
बहुश्रुतो धर्मभृतां वरिष्ठः ॥ ४० ॥

निःसंशयं निश्चित धर्मशास्त्राः
सर्वे भवन्तो विदितप्रमाणाः ।
विज्ञातु कामस्य ममेह वाक्यम्
उक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे ।
इह त्ववश्यं गदतो ममापि
वाक्यं निबोधध्वमनन्यभावाः ॥ ४१ ॥

यो वै न पापे निरतो न पुण्ये
नार्थे न धर्मे मनुजो न कामे ।
विमुक्तदोषः समलोष्ट काञ्चनः
स मुच्यते दुःखसुखार्थ सिद्धेः ॥ ४२ ॥

भूतानि जाती मरणान्वितानि
जरा विकारैश्च समन्वितानि ।
भूयश्च तैस्तैः प्रतिबोधितानि
मोक्षं प्रशंसन्ति न तं च विद्मः ॥ ४३ ॥

स्नेहे न बुद्धस्य न सन्ति तानीत्य्
एवं स्वयम्भूर्भगवानुवाच ।
बुधाश्च निर्वाणपरा वदन्ति
तस्मान्न कुर्यात्प्रियमप्रियं च ॥ ४४ ॥

एतत्प्रधानं न तु कामकारो
यथा नियुक्तोऽस्मि तथा चरामि ।
भूतानि सर्वाणि विधिर्नियुङ्क्ते
विधिर्बलीयानिति वित्तसर्वे ॥ ४५ ॥

न कर्मणाप्नोत्यनवाप्यमर्थं
यद्भावि सर्वं भवतीति वित्त ।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं
तस्मादिदं लोकहिताय गुह्यम् ॥ ४६ ॥

ततस्तदग्र्यं वचनं मनोऽनुगं
समस्तमाज्ञाय ततोऽतिहेतुमत् ।
तदा प्रणेदुश्च जहर्षिरे च ते
कुरुप्रवीराय च चक्रुरञ्जलीन् ॥ ४७ ॥

सुचारु वर्णाक्षर शब्दभूषितां
मनोऽनुगां निर्धुत वाक्यकण्टकाम् ।
निशम्य तां पार्थिव पार्थ भाषितां
गिरं नरेन्द्राः प्रशशंसुरेव ते ।
पुनश्च पप्रच्छ सरिद्वरासुतं
ततः परं धर्ममहीन सत्त्वः ॥ ४८ ॥

॥ इति षड्जगीता समाप्ता ॥

Also Read:

Shadja Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shadja Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top